By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: विश्वपर्यावरणदिवसः पर्यावरणसंरक्षणम् अस्माकम् उत्तरदायित्वम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > विश्वपर्यावरणदिवसः पर्यावरणसंरक्षणम् अस्माकम् उत्तरदायित्वम्
अन्ताराष्ट्रीयवार्ताः

विश्वपर्यावरणदिवसः पर्यावरणसंरक्षणम् अस्माकम् उत्तरदायित्वम्

डॉ.अमनदीप शर्मा
Last updated: 2025/06/05 at 6:54 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

विश्वपर्यावरणदिवसः पर्यावरणसंरक्षणम् अस्माकम् उत्तरदायित्वम्
पर्यावरणस्य रक्षणाय, संरक्षणाय च ५ जून दिनाङ्के सम्पूर्णे विश्वे अस्य उत्सवः आचर्यते । १९७२ तमे वर्षे संयुक्तराष्ट्रसङ्घः पर्यावरणप्रति वैश्विकराजनैतिकसामाजिकजागरूकतां आनेतुं अस्य दिवसस्य घोषणां कृतवान् । संयुक्तराष्ट्रसङ्घस्य महासभायाः ५ जूनतः १६ जूनपर्यन्तं आयोजिते विश्वपर्यावरणसम्मेलने चर्चायाः अनन्तरं अस्य आरम्भः अभवत् । अस्य समर्थनं बहुभिः गैरसरकारीसंस्थाभिः, व्यवसायैः, सरकारीसंस्थाभिः च भवति तथा च पर्यावरणस्य समर्थनं कुर्वन् संयुक्तराष्ट्रसङ्घस्य प्राथमिकप्रसारदिवसस्य प्रतिनिधित्वं करोति ।
प्रथमः विश्वपर्यावरणदिवसः १९७३ तमे वर्षे जूनमासस्य ५ दिनाङ्के आचरितः । ततः परं समुद्रप्रदूषणं, अतिजनसंख्या, वैश्विकतापः, स्थायिविकासः, वन्यजीव-अपराधः इत्यादिषु पर्यावरणविषयेषु जागरूकतां जनयितुं मञ्चः अस्ति । विश्वपर्यावरणदिवसः जनप्रसारणस्य वैश्विकमञ्चः अस्ति, यत्र प्रतिवर्षं १४३ तः अधिकेभ्यः देशेभ्यः सहभागिता भवति । प्रतिवर्षं अस्मिन् कार्यक्रमे व्यवसायानां, गैरसरकारीसंस्थानां, समुदायानाम्, सर्वकाराणां, प्रसिद्धानां च कृते पर्यावरणकारणानां वकालतुं विषयः, मञ्चः च प्रदत्तः अस्ति ।
सम्प्रति पर्यावरणं पूर्णम् असन्तुलितं जातमस्ति । अस्य संरक्षणम् आवश्यकमस्ति । परं किम् एकवारं यदि पर्यावरणं सुरक्षितं भविष्यति तर्हि सर्वाषां पर्यावरण-समस्यानां समाधानं भविष्यति इति चेन्न । भवन्तः पर्यावरणसमस्येति प्रकरणे पठितवन्तः यत् सर्वप्रमुखा समस्या अस्ति सामाजिकी,नैतिकी, प्राकृतिकी, जनसंख्या च । समस्याः एताः तदैव समधिगताः भविष्यन्ति यदा निरन्तर-प्रयासः भविष्यति । अतः आवश्यकं भवति यत् पर्यावरणस्य शिक्षा सर्वेभ्यः सामाजिकेभ्यः बाल- युवा-वृध्देभ्यश्च दातव्या । अस्याः शिक्षायाः प्रसारः विविधेषु अभिकरणेषु एव आधारितः अस्ति । अतः अत्र तेषामभिकारणानां विषये चिन्तितं वर्तते ।

बालानां भूमिका
गृहस्य भूमिका – बालकानां प्रारम्भिकी शिक्षा गृहेषु एव भवति । अपि च पितरौ एव तान् पाठयतः । अर्थात् एवमपि कथयितुं शक्यते यत् गृहे निवस्यमानाः सर्वे ज्येष्ठाः बालकानामध्यापकाः भवन्ति । ज्येष्ठानां व्यवहारः एव तेभ्यः पाठ्यक्रमः भवति । आदर्शव्यवहार-संहितायाः निर्माणं गृहे एव भवति । उदाहरणं तु गृहेषु द्र्ष्टुं शक्यते यत् सभ्य-शिक्षितपरिवाराणां बालकाः सदाचरणं कुर्वन्ति तथा निम्नपरिवाराणां बालकाः एतन्न कुर्वन्ति । गृहे यदि ज्येष्ठाः पर्यावरणं न प्रदूषयन्ति तर्हि तेषां कनिष्ठाः अपि तथा न कुर्वन्ति । अर्थात् यदि गृहे ज्येष्ठाः पर्यावरणप्रदूषणनियन्त्रणाय एव सर्वाणि कार्याणि कुर्वन्ति, यथा –संसाधनानां समुचितः उपयोगः, जल –भू-वायु-ध्वनीनां वा प्रदूषणनियन्त्रणं तर्हि बालकः तथा एव करिष्यन्ति । अतः पर्यावरण- संरक्षणं तदैव सुनिश्चितं भविष्यति यदा गृहे स्थिताः जनाः पर्यावरण- संरक्षणे तत्पराः भविष्यन्ति, प्रारम्भतः एव वालकेभ्यः पर्यावरणस्य, प्रदूषणस्य, नियन्त्रणस्य ज्ञानं प्रदास्यन्ति । अतः गृहं भवति मुख्यमभिकरणं येनपर्यावरणं संरक्षितं भविष्यति ।
विद्यालयेभ्यः
महाविद्यालयानां भूमिका –गृहात्परं बालकेभ्यः पर्यावरण ज्ञानस्य कौशलस्य, मूल्यस्य, अभिवृत्तेश्च शिक्षा विद्यालयेषु महाविद्यालयेषु एव प्रदीयते अत्राध्यापकाः छात्रेभ्यः सर्वविध-ज्ञानं प्रदाय पर्यावरणं प्रति रुच्युत्पादनं कुर्वन्ति । परमेतदर्थमावश्यकमस्ति यत् ते अध्यापकाः पर्यावरणस्य, प्रदूषणस्य, प्रदूषणनियन्त्रणस्य च विषये पण्डिताः स्युः । अस्याः शिक्षायाः उपयोगः ते सर्वासु उपलब्धेषु परिस्थितिषु कुर्युः । प्रत्यक्षाप्रत्यक्षरुपेण च इदं ज्ञानं प्रयच्छेयुः । यदि अध्यापकाः कुशलिनः सन्ति, योग्याः सन्ति, प्रबुद्धाः सन्ति, पर्यावरणवेत्तारः सन्ति, प्रबोधकाः सन्ति तर्हि पर्यावरण संरक्षणे विद्यालयस्य भूमिका वर्धिता भविष्यति ।

सामाजिकसंस्थानां भूमिका –
सर्वेषु स्तरेषु जनाः गृहात् विद्यालयात् वा परं स्वकीयं समयं समाजे पारस्परिकसम्बन्धनिर्माणाय ददति, भवतु ते छात्राः ग्रामिणश्च । यथा ते क्रीडाक्षेत्रं, मनोरञ्जनस्थलं, सभास्थलं, मन्दिरं, धर्मस्थलम् आपणमित्यादीनि स्थलानि तु गच्छन्ति एव । तत्र गत्वा विभिन्नेषु सामाजिककार्यक्रमेषु भागमपि गृह्णन्ति । तत्र काश्चनः पर्यावरणसम्बन्धिताः परिस्थितयः अपि आगच्छन्ति एव । ताषां परिस्थितिनां समाधानं ते स्व-विवेकेन वयस्कानां सहयोगेन च कुर्वन्ति । फलतः अनया प्रक्रियया ते पर्यावरणस्य, पर्यावरण समस्यानां, ताषां समाधानानां च ज्ञानमर्जयन्ति। अपि च प्राप्त पर्यावरणविषयकज्ञानस्य कथमुपयोगः भवति इति प्रायोगिकं ज्ञानं ते प्राप्नुवन्ति । यथा- जलानां समुचितोमुपयोगः, ग्राम्यस्वच्छता इत्यादयः ।
अन्येभ्यः
सञ्चारमाध्यमस्य भूमिका –सर्वविधकार्यक्रमाणां प्रचारकः भवति सञ्चारमाध्यमः । अनेन अशिक्षिताः, शिक्षिताः, छात्राः कर्मचारिणः, अधिकारिणश्च पर्यावरणसम्बधितं ज्ञानं प्राप्नुवन्ति । सञ्चारस्य साधनानि भवन्ति, समाचारपत्रं, पत्र –पत्रिकाः, आकाशवाणी, दूरदर्शनं, वार्ता, भाषणानि, चलचित्रं च । सेवाकालिकस्य प्रशिक्षणस्य कृते संचारसाधनानि महत्वपूर्णानि भवन्ति ।
शोधसंस्थानां भूमिका-पर्यावरणस्य क्षेत्रे उपलब्धानामेकत्रितानां वा सामग्रीणां जनेभ्यः वितरणेमवशोधसंस्थायाः दायित्वं न भवति अपितु स्वदेशस्य स्थित्यनुसारेण पर्यावरणस्य विशिष्टज्ञानानामन्वेषणं, समस्यामधीत्य समाधानान्वेषणं तथा तस्य प्रसारणं चास्याः संस्थायाः दायित्वं भवति । अतः राष्ट्रियस्तरे, प्रान्तीयस्तरे, क्षेत्रीयस्तरे च शोधस्यावश्यकता वर्तते । सोधसंस्थायाः दायित्वं भवति यत् सा क्षेत्रेऽस्मिन् शोधकार्यं कारयेत् ।
विभिन्नानां विशिष्टसंस्थानां भूमिका- समग्रे विश्वे काश्चन एवं विधाः संस्थाः सन्ति याः पर्यावरणं शिक्षां च प्राणैक शरीरद्वयं मत्वा कार्यं कुर्वन्ति । इमाः पर्यावरणस्य विविधाङ्गानां ज्ञानप्रदानस्य नूतनसूचना- प्रदानस्य च कार्यं कुर्वन्ति । आभिः संस्थाभिः जनाः विविधपर्यावरण-समस्यानां समाधानानाञ्च ज्ञानं प्राप्नुवन्ति ।

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

*गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।* 

प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं जोहान्सबर्ग्नगरम् प्राप्तवान्, जातं भव्यं स्वागतम्

बहिष्कृतायाः बाङ्ग्लादेशस्य प्रधानमन्त्री शेख हसीना इत्यस्याः मृत्युदण्डस्य संयुक्तराष्ट्रसङ्घः विरोधम् अकरोत्

मेक्सिकोदेशे शनिवासरे सहस्रशः जेन् जेड् युवानः विरोधप्रदर्शनं कृतवन्तः

TAGGED: विश्वपर्यावरणदिवसः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article #TheRajaSaab अस्मिन् दिने ‘द राजा साहब’ चलच्चित्रं प्रदर्शितं भविष्यति, पुटकस्य प्रसारणतिथ्या: विषये अपि महती वार्ता आगता
Next Article ऊनायाः पिपलूमेला राज्यस्तरीयः भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?