सिक्किमराज्ये निरन्तरं प्रचण्डवृष्ट्या जीवनं बाधितम्
गङ्गटोक । सिक्किमनगरे निरन्तरं प्रचण्डवृष्ट्या जीवनं बाधितं जातम्। विशेषतः उत्तरसिक्किमस्य मङ्गनमण्डले स्थितिः गम्भीरा वर्तते, यत्र तीस्तानद्याः जलस्तरः गम्भीररूपेण वर्धितः अस्ति, भूस्खलनेन अनेकस्थानेषु मार्गाः पूर्णतया अवरुद्धाः सन्ति। अस्य कारणात् लाचेन्-नगरे ११५ पर्यटकाः, लाचुङ्ग-नगरे च प्रायः १३५० पर्यटकाः अटन्ति। भारतीयमौसमविभागेन मङ्गनमण्डलस्य कृते ‘रेड अलर्ट’ इति अधिसूचितम्, नामची, सोरेङ्ग्, गङ्गटोक्, पाक्योङ्ग् जनपदेषु ‘नारङ्गसचेतना’ घोषिता अस्ति।
शनिवासरे रात्रौ फिडाङ्गग्रामे परिसरेषु च मेघविस्फोटेन महतः विनाशः अभवत्। अत्यधिकवृष्ट्या भूस्खलनेन च बहूनि गृहाणि क्षतिग्रस्तानि सन्ति तथा च विद्युत्-सञ्चार-सेवाः पूर्णतया बाधिताः सन्ति। प्रशासनिकाधिकारिणां मते यावत् मौसमः स्वच्छः न भवति, मार्गमरम्मतकार्यं न आरभ्यते तावत् उद्धारकार्यं असम्भवम् अस्ति। सम्प्रति पाशैः वैकल्पिकैः उपायैः च उद्धारयोजनाः क्रियन्ते, परन्तु अस्य कृते अपि वर्षाणां स्थगिततायाः आवश्यकता वर्तते । बन्धुजनाः अत्यन्तं चिन्तिताः सन्ति यतः मोबाईलजालं न्यूनीकृतम् अस्ति तथा च ते अटन्तानाम् पर्यटकानां बन्धुभिः सह सम्पर्कं कर्तुं असमर्थाः सन्ति, यस्मात् कारणात् लाचुङ्ग, लाचेन् इत्यादिषु संवेदनशीलपर्यटनस्थानेषु यातायातस्य पूर्णतया बाधा भवति। तीव्रायाः वर्षायाः अनंतरम् भूस्खलनस्य, गृहस्य च पतनस्य कारणेन सप्तविंशतिः जनाः मृताः। ऋतुविभागेन आगामिषु सप्तदिनेषु क्षेत्रे प्रचण्डवृष्टिः अनुमिता । पूर्वोत्तर- षट् राज्येषु मध्यमात् प्रचण्डवृष्ट्या सामान्यं जीवनं भृशं प्रभावितम्। अधिकारिभिः पुष्टिः कृता यत् तीव्रया वर्षया भूस्खलनं, गृहपतनम् च जातम्। अनेन कारणेन सप्तविंशतिः जनाः मृताः। सप्तविंशति – पीडितेषु अरुणाचलप्रदेशतः नव, मेघालये षट्, असम-मिजोरम-प्रदेशाभ्यां पञ्च-पञ्च, त्रिपुरा-नागालैण्ड्-प्रदेशयोः एकः, एते मृताः। मिजोरमे विगत त्रिदिवसेषु आकस्मिकजलौघस्य भूस्खलनस्य च कारणात् पञ्चजनाः मृताः। श्रीशाहः राज्य-नेतृभिः सह वार्ता कृतवान् आवश्यक-सहयोगाय निगदितवान्। बुधवासरपर्यन्तं जम्मू-कश्मीर-लद्दाख गिलगित-बाल्टिस्तान-मुजफ्फराबाद-हिमाचलप्रदेश-उत्तरखण्ड-पञ्जाब-हरियाणा-चण्डीगढ-दिल्ली-नगरेषु अपि एतादृशी स्थितिः अनुमीयते। विभागेन आगामिदिनत्रयपर्यन्तं पश्चिमराजस्थाने धूलिकायाः वात्यानां च पूर्वानुमानं कृतम् ।
सिक्किमराज्ये निरन्तरं प्रचण्डवृष्ट्या जीवनं बाधितम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
