By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतभारत्याः पश्चिमक्षेत्रस्य प्रशिक्षणवर्गस्य भव्यसमापनसमारोहः आयोजितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतभारत्याः पश्चिमक्षेत्रस्य प्रशिक्षणवर्गस्य भव्यसमापनसमारोहः आयोजितः
संस्कृतगतिविधयः

संस्कृतभारत्याः पश्चिमक्षेत्रस्य प्रशिक्षणवर्गस्य भव्यसमापनसमारोहः आयोजितः

जगदीश डाभी
Last updated: 2025/05/26 at 12:38 PM
जगदीश डाभी
Share
3 Min Read
SHARE

संस्कृतभारत्याः पश्चिमक्षेत्रस्य प्रशिक्षणवर्गस्य भव्यसमापनसमारोहः आयोजितः

 

वार्ताहर: – जगदीश डाभी, जूनागढ़जनपदत: (गुजरातम्)

संस्कृतभारत्याः पश्चिमक्षेत्रेण ५ मे २०२५ तः १७ मे २०२५ पर्यन्तं भवनाथ-जूनागढस्थे श्रीमिनिराजशैक्षणिकसङ्कुले आयोजितः प्रशिक्षणवर्गः सोत्साहं भव्यतया समापितः। अस्य द्वादशदिवसीयवर्गस्य उद्देश्यम् आसीत् – संस्कृतभाषायाः प्रचारप्रसारः, तस्याः सरलशैल्या शिक्षणम्, सांस्कृतिकजागरूकतायाः विस्तारश्च। अस्मिन् प्रशिक्षणवर्गे पश्चिमक्षेत्रेभ्यः विविधेभ्यः प्रान्तेभ्यः षष्ट्यधिकाः प्रशिक्षणार्थिनः सहभागं कृतवन्तः, यत्र सामाजिकजनाः, व्यवसायिनः, शिक्षकाः, छात्राः च सम्मिलिताः। प्रशिक्षणवर्गे उत्कृष्टं सुलभं च शिक्षणं भवेत् इति हेतोः ६ मे तः १५ मे पर्यन्तं जूनागढनगरे जनानां कृते ‘संस्कृतसम्भाषणशिबिरम्’ अपि आयोजितम्। अस्मिन् शिबिरे नगरेभ्यः पञ्चाशदधिकाः विविधस्तरीय़ाः सामाजिकाः सहभागं कृतवन्तः। एतस्य वर्गस्य अपि समापनसमारोपः समायोजितः।

द्वादशदिनात्मकस्य अस्य प्रशिक्षणवर्गस्य समापनसमारोहस्य आरम्भः दीपप्रज्वालनेन स्तोत्रगानेन मन्त्रोच्चारणेन च अभवत्। अस्मिन् प्रसङ्गे प्रमुखातिथिरूपेण उपस्थिताः आसन् – श्रीमिनिराजशैक्षणिकसङ्कुलस्य संस्थापकः श्रीमान् दादुभाई कनारावर्यः, संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखः श्रीशः देवपूजारीवर्यः, गायत्रीशक्तिपीठस्य न्यासी नागभाई वालावर्यः, श्री के. जी. चौहाणकन्याविद्यालयस्य न्यासी श्री आलाभाई ओडे़दरावर्यः, महानगरपालिकायाः स्थायीसमितेः अध्यक्षा श्रीमती पल्लवीबेन ठाकरवर्या, संस्कृतभारतीन्यासस्य न्यासी अध्यक्षश्च विठ्ठलभाई वागडियावर्यः, वल्लभभाई सिदपरावर्यः, पङ्कजभाई पाञ्चाणीवर्यः, पश्चिमक्षेत्रस्य सङ्घटमन्त्री श्रीमान् विठ्ठलभाई भट्टवर्यः, प्रान्त-सहमन्त्री प्रणवराज्यगुरुः, राष्ट्रीयस्वयंसेवकसङ्घस्य जूनागढविभागस्य सहकार्यवाहः जीतेशभाई पनारावर्यश्च।

अस्मिन् समापनसमारोहे मुख्यवक्ता श्रीशः देवपूजारीवर्यः स्वस्य भाषणे संस्कृतभाषायाः महत्त्वं प्रकाशयन् उक्तवान् – “संस्कृतं केवलं भाषा नास्ति, अपितु भारतीयसंस्कृतेः ज्ञानभाण्डारः अस्ति। संस्कृतभारत्याः एषः प्रशिक्षणवर्गः यूनां मध्ये संस्कृतभाषां प्रति रुचिं जागरयितुं महत्त्वपूर्णं साधनं भवितुम् अर्हति।”

जूनागढमहानगरपालिकायाः स्थायीसमितेः अध्यक्षा श्रीमती पल्लवीबेन ठाकरवर्या अपि संस्कृतभाषया स्वीयभाषणाभिव्यक्तिं कर्तुम् असमर्था इति स्वीयासामर्थ्यविषयकं दुःखं प्रकटय्य संस्कृतभारत्याः आगामिनि सम्भाषणशिबिरे भागं गृहीत्वा संस्कृतं पठितुं उत्साहं प्रकटितवती।

अस्मिन् शिबिरे प्रशिक्षणार्थिनां कृते व्याकरणं, सम्भाषणकौशलम्, साहित्यज्ञानं च प्रदत्तम्। विशेषरूपेण शिबिरकाले आयोजिता विविधस्पर्धाः यथा – श्लोकगानम्, गीतगानम्, नाट्यप्रस्तुतयः च प्रशिक्षणार्थिनां प्रतिभां प्रकटितवत्यः।

समापनसमारोहे संस्कृतभारती-सौराष्ट्रप्रान्तस्य प्रान्त-सहमन्त्री प्रणवराज्यगुरुः शिबिरवृत्तं प्रस्तुतवान्। सः उक्तवान् – “अनेन शिबिरेण केवलं भाषाज्ञानं न दत्तम्, अपि तु भारतीयसंस्कृतेः मूल्यज्ञानं जीवनोपयोगिनी प्रेरणा च दत्तम्।” तेन श्रीमिनिराजशैक्षणिकसङ्कुलस्य सहयोगस्य, स्थानीयकार्यकर्तॄणां च प्रयासानां प्रशंसा कृता।

समारोहस्यान्ते धन्यवादज्ञापनं संस्कृतभारती-सौराष्ट्रप्रान्तस्य प्रान्तप्रचारप्रमुखः डॉ. किशोरशेलडियामहोदयेन कृतम्। सुरेन्द्रनगरात् आगतः प्रशिक्षणार्थी श्री संजयभाई उमराणिया स्वानुभवे उक्तवान् – “अस्मिन् शिबिरे संस्कृतभाषायां कथं सम्भाषणं करणीयम् इति मया ज्ञातं तथा च अनेन मम आत्मविश्वासः जागरितः। अहम् इतः गत्वा मम नगरे संस्कृतस्य प्रचारं करिष्यामि।”

अस्मिन् समारोहे स्थानीयगणमान्यजनाः, शिक्षाविदः, नगरनिवासिनः, संस्कृतभारत्याः कार्यकर्तारश्च उपस्थिताः आसन्। श्रीमिनिराजशैक्षणिकसङ्कुल-भवनाथपरिसरस्य शान्ते आध्यात्मिके च वातावरणे अयः कार्यक्रमः स्मरणीयः जातः। संस्कृतभारत्याः एषः प्रयासः पुनः प्रमाणितवान् यत् संस्कृतं न केवलं भाषा अस्ति, अपि तु आधुनिकभारतीयसंस्कृतेः पुनरुत्थाने महत्त्वपूर्णं योगदानं कर्तुं शक्नोति। एतस्य कार्यक्रमस्य सफलतायै मुख्यव्यवस्थापकः डॉ. मौलिकभाई केलेया, जूनागढनगरे स्थिताः अन्ये व्यवस्थापकाः च महान्तं प्रयासं कृतवन्तः।

सम्पर्काय:
संस्कृतभारती, पश्चिमक्षेत्रम्
ईमेल्: info@samskritabharati.in
जालपृष्ठम्: www.samskritabharati.in

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

TAGGED: संस्कृतभारती
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article हिमाचलम् आत्मनिर्भरं कर्तुं मुख्यमन्त्रिणा सुखविन्दरसुखुना केन्द्रसर्वकारं समक्षं प्रस्तुतः प्रस्तावः
Next Article 27/05/2025 प्रार्थनासभायां वाचनार्थं प्रमुखहिमाचलवार्ता:
1 Comment 1 Comment
  • Dholaria rameshbhai s says:
    May 26, 2025 at 4:10 pm

    Very nice , i love Sanskrit.

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?