1.हिमाचले षड्दिनानि यावत् वृष्टे: मईमासस्य २७-२८ दिनाङ्कयो: च चण्डवातस्य ओलावृष्टे: च सचेतना।
2.सोमवासरे सिरमौरस्य नाहननगरे स्वास्थ्यपरिवारकल्याण–विभागस्य मासिकसमीक्षासभाया: आयोजनं अभवत्। यत्र मण्डले प्रचलितानां क्षयरोगनिवारणकार्यक्रमानाम् मईमासस्य प्रगतिप्रतिवेदनस्य समीक्षा जाता
3.सोमवासरे विधायक: अजयसोलङ्की “पुलिसलाइननाहन” इत्यत्र पुलिस–आवासीयभवनै: सह महिलापुलिसस्थानकस्य नूतनभवनस्य शिलान्यासं कृतवान्। एतद् भवनं 10 कोटि: ६० लक्षरुप्यकाणां व्ययेन निर्मितं भविष्यति। पुलिसाधिकारिण: कर्मचारिणश्च श्रेष्ठसुविधा: प्राप्स्यन्ति।
4.हिमाचलप्रदेशस्य, शिमला, कुल्लू, काङ्गड़ा इति त्रयाणां मण्डलानां कृते क्षेत्रीयविकासयोजना निर्मिता भविष्यति। सोमवासरे सचिवालये पत्रकारसम्मेलने नगरग्राम्यनियोजनमन्त्री राजेश: धर्माणी सूचनामिमां प्रदत्तवान्।