कांग्रेससांसदः शशिथरूरः उक्तवान् यत् यथा अमेरिका आतङ्कवादेन व्रणितः तथा भारतमपि बहुवारं एतत् व्रणं प्राप्नोत्
हिमसंस्कृतवार्ताः। भारतीयसंसदः बहुदलीयप्रतिनिधिमण्डलस्य प्रतिनिधिमण्डलं शनिवासरे अमेरिकादेशं प्राप्तम्। अस्य प्रतिनिधिमण्डलस्य नेतृत्वं काङ्ग्रेस-सांसदः शशि-थरूरः करोति । प्रतिनिधिमण्डलं गुयाना, पनामा, कोलम्बिया, ब्राजील्, अमेरिकादेशेषु भ्रमणं कुर्वन् अस्ति । अस्मिन् कालखण्डे शशि थरूरः आतङ्कवादस्य विषये विश्वाय दृढं सन्देशं दत्त्वा अवदत् यत् पहलगाम-आक्रमणानन्तरं भारतेन इदानीं नूतना नीतिः स्वीकृता, यस्याः अन्तर्गतं यदि कोऽपि पाकिस्तान-भूमौ भारतीयनागरिकान् मारयति तर्हि सः न मुक्तः भविष्यति, तस्य महत् मूल्यं दातव्यं भविष्यति। न्यूयोर्कनगरे भारतस्य महावाणिज्यदूतावासेन भारतीय-अमेरिका-समुदायस्य प्रमुखैः सदस्यैः, मीडिया-चिन्तन-समूहानां च व्यक्तिभिः सह आयोजिते संवादे शशि-थरूरः अवदत् यत् ऑपरेशन सिन्दूर-अन्तर्गतं भारतेन पाकिस्तानेन अधिकृते क्षेत्रे आतङ्कवादशिबिरेषु आक्रमणं कृतम्।
९/११ स्मारकस्य एषा यात्रा गम्भीरं स्मरणमस्ति-शशिथरूरः
सः अवदत् यत् पहलगाम-आक्रमणस्य प्रतिक्रियारूपेण भारतेन संयमं कृत्वा वायु-आक्रमणानि कृतानि परन्तु युद्धं न आरब्धम् । भारतं केवलं आतङ्कवादीनां निगूढस्थानानि एव लक्ष्यं कृतवान् न तु कस्यापि आवासीयक्षेत्रस्य वा कस्यापि संस्थायाः वा । शशि थरूरः अवदत् यत् भारतं युद्धं न इच्छति। पाकिस्ताने, PoK इत्यत्र च आतङ्कवादीनां निगूढस्थानानि वयं उत्तरदायित्वपूर्वकं नष्टवन्तः। भारतं उत्तेजनं विना आक्रमणं न करोति किन्तु आक्रमणं कृत्वा अवश्यमेव प्रतिक्रियां दास्यति। ९/११ स्मारकस्य बहिः मीडियाभिः सह वदन् सः अवदत् यत् ९/११ स्मारकस्य एषा यात्रा गम्भीरं स्मरणमस्ति । यथा अमेरिका आतङ्कवादस्य शिकारः अभवत् तथा भारतमपि बहुवारं एतत् व्रणं प्राप्नोत्। अद्यत्वे अस्मिन् मार्मिके स्मारके ये व्रणाः दृश्यन्ते ते सदृशाः व्रणाः वयमपि प्राप्नुमः । वयं एकतायाः भावनायां अत्र आगताः।
शथिथरूरेण कृता ट्रम्पस्य आलोचना
शशिथरूरेण एकस्मिन् संवादे उक्तं यत् अहं बहुवारम् अमेरिकादेशम् आगतवान् । अहं बुश-क्लिन्टन-ओबामा सदृशैः अमेरिकायाः आदर्शैः राष्ट्रपतिभिः सह मिलितवान्। तेषां व्यवहारः विश्वनेता सदृशः आसीत्, परञ्ज अधुना यः व्यक्तित्वः अमेरिकायाः नेतृत्वं करोति सः सर्वदा विवादेष्वेव भवति।
कांग्रेससांसदः शशिथरूरः उक्तवान् यत् यथा अमेरिका आतङ्कवादेन व्रणितः तथा भारतमपि बहुवारं एतत् व्रणं प्राप्नोत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
