उपमुख्यमंत्री मुकेशअग्रिनहोत्री निजीविद्यालयानां छात्राणां कृते बसपासभाटके अपकर्षं दत्तवान्
हिमसंस्कृतवार्ता:- शिमला।शिमलानगरस्य निजीविद्यालयेषु अध्ययनं कुर्वतां बालकानाम् अभिभावकाः शनिवासरे उपमुख्यमन्त्रिणा मुकेश अग्निहोत्रिणा मिलित्वा सद्यः एव बस- पास- भाटकवृद्ध्या सह विविधसमस्यानां विषये बोधितवन्तः। उपमुख्यमन्त्री अवदत् यत् पूर्वं बसपासभाटकस्य कृते द्वे वर्गे आस्ताम्, यत् ० तः ५ किलोमीटर यावत् १८०० रूप्यकाणि, ५ किलोमीटरत; अधिकं दूरं यावत् २५०० रूप्यकाणि च आसन्। सः अवदत् यत् अधुना शिमलानगरस्य निजीविद्यालयेषु अध्ययनं कुर्वतां छात्राणां कृते आश्रयं दातुं वर्गत्रयं निर्मितमस्ति।प्रथमस्य वर्गस्य अन्तर्गतं ० तः ६ किलोमीटर यावत् दूरस्य भाटकं ६०० रुप्यकाणि न्यूनीकृत्य १२०० रुप्यकाणि यावत् कृतमस्ति। प्रथमवर्गे दूरं एककिलोमीटर वर्धितम् अस्ति, यत् पूर्वं ० तः ५ किलोमीटर यावत् आसीत्। द्वितीयवर्गस्य अन्तर्गतं ६ तः १२ किलोमीटरपर्यन्तं यावत् बसपासभाटकं ७०० रुप्यकाणि न्यूनीकृत्य १८०० रुप्यकाणि यावत् कृतमस्ति तृतीयवर्गस्य अन्तर्गतं १२ किलोमीटरत: अधिकं २००० रुप्यकाणि यावत् भाटकं कृतमस्ति।उपमुख्यमन्त्री अपि घोषितवान् यत् शीघ्रमेव छात्राणां कृते बसपासस्य सुविधा अन्तर्जालद्वारा उपलभ्यते येन अभिभावकानां कार्यालयेषु धावनं न करणीयम्। सः अवदत् यत् हिमाचलमार्गपरिवहननिगमः जनकल्याणस्य भावनां कृत्वा राज्ये सेवां प्रदाति तथा च एषः निर्णयः तस्य उद्देश्यस्य पूर्तये महत्त्वपूर्णं सोपानम् अस्ति। मातापितरौ उपमुख्यमन्त्रिणं प्रति कृतज्ञतां प्रकटयन्त: एतस्य पदस्य प्रशंसाम् अकुर्वन्।
उपमुख्यमंत्री मुकेश अग्रिनहोत्री निजीविद्यालयानां छात्राणां कृते बसपासभाटके अपकर्षं दत्तवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
