By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतवार्ताः-लूचिस्ताने विस्फोटः , विस्फोटे न्यूनातिन्यूनाः चत्वारो जनाः मृता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > संस्कृतवार्ताः-लूचिस्ताने विस्फोटः , विस्फोटे न्यूनातिन्यूनाः चत्वारो जनाः मृता:
राष्ट्रीयवार्ताः

संस्कृतवार्ताः-लूचिस्ताने विस्फोटः , विस्फोटे न्यूनातिन्यूनाः चत्वारो जनाः मृता:

डॉ.अमनदीप शर्मा
Last updated: 2025/05/20 at 7:09 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

संस्कृतवार्ताः- बलूचिस्ताने विस्फोटः , विस्फोटे न्यूनातिन्यूनाः चत्वारो जनाः मृता:
हिमसंस्कृतवार्ता: – बलुचिस्ताने कार-बम विस्फोटे न्यूनातिन्यूनाः चत्वारो जनाः पञ्चतां प्राप्ताः सन्ति। विंशतिरन्ये च व्रणीभूताः सूच्यन्ते। पाकिस्तानस्य बलुचिस्तान-क्षेत्रस्य सीमा-वर्तिस्थाने किला-अब्दुल्ला-इत्याख्यस्य गुलिस्तान-क्षेत्रे एषः विस्फोटः दुरापन्नः आसीत्। प्रतिपाद्यते यत् एषः विस्फोटः गुलिस्तान-नगरे क्वेटा-चमन-राष्ट्रिय राजमार्ग-स्थिते जब्बाराख्ये व्यापारिकापणे दुरापन्नः आसीत्, यद्धि पाकिस्तानस्य फ्रंटियर-कॉर्म्स इत्यस्य दुर्गेण समं संलग्नमस्ति, भीषण-विस्फोटेन क्षेत्रस्य नैकानि आपणानि वाहनानि च विनष्टीकृतानि सन्ति, सहैव दुर्गस्य भित्तिका चापि भृशं क्षतिग्रस्ता वर्तते स्थानीयजनैः प्रतिपाद्यते यत् नगरे भूरि-आपणेषु विस्फोटक-कारणेन अग्निकाण्डमपि दुरापन्नम्। ध्येयमस्ति यत् प्रतिबन्धित-आतङ्कि-गुल्मेन तहरीक-ए-तालिबान-पाकिस्थान (टी.टी.पी) इत्यनेन अस्य विस्फोटस्य उत्तरदायित्त्वमङ्गीकृतमस्ति ।

भारतेन विश्वस्य खाद्यभाण्डागारत्वेन समुदेतुं लक्ष्यम् उपस्थापितमस्ति – केन्द्रीय-कृषि-मन्त्री शिवराजसिंहः चौहानः
हिमसंस्कृतवार्ता: – केन्द्रीय-कृषि-मन्त्री शिवराज सिंह चौहानः प्रावोचत् यत् अस्य मासस्य एकोन-त्रिंश्यां समस्ते देशे विकसित कृषि-संकल्प-अभियानम् आरप्स्यते। अभियानमेतद् जून-द्वादशीं यावत् चलिष्यति। एतस्य अभियानस्य उद्देश्यः कृषकेषु आधुनिक-प्रौद्योगिकीनां नवीन-बीजानां च प्रकाराणां विषये जागरूकता-समुत्पादनं वर्तते। श्री-चौहानः अवदत् यत् एतद् अभियानं समस्त-देशस्य त्रयो-विंशत्युत्तर-सप्त-शत-मितेषु जनपदेषु चलिष्यति । अथ चैतद् अभियानम् प्रायः सार्धंक-कोटि-मितान् कृषकान् यावत् प्राप्स्यति। अमुना भणितं यत् वैज्ञानिकानां एकः समूहः प्रायः पञ्च षष्टि-सहस्र-ग्रामाणां यात्रां कृत्वा कृषकान् व्यावहारिकं वैज्ञानिकं च कृषि-कर्म-विधानं प्रशिक्षयिष्यति।
कृषिः भारतीय अर्थव्यवस्थायाः मूलस्तम्भः वर्तते ।
श्रीचौहानः न्यगदत् यत् कृषिः भारतीय अर्थव्यवस्थायाः मूलस्तम्भः वर्तते, यद्धि भारतस्य प्रायः अर्ध-जन-सङ्ख्यायै आजीविकामपि प्रददाति। देशस्य खाद्य सुरक्षायाः आधारोSपि भवति। अनेन प्रोक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे विकसित-भारतस्य निर्माणार्थम् एकं परिवर्तनकरम् अभियानं प्रचाल्यते। एतस्य अभियानस्य अन्तर्गतं उत वा अभियानस्य केन्द्रे “विकसित कृषिः, समृद्ध-कृषकाः” इति लक्ष्यमस्ति । श्रीचौहानेन एतस्मिन् विषयेऽपि प्रकाशः प्रक्षिप्तः यत् भारतस्य लक्ष्यं विश्वस्य खाद्य-भाण्डागारं भवितुम् अस्ति।

विदेश-विषयाणां संसदीय-स्थायि-समितेः उपवेशनम्
हिमसंस्कृतवार्ता: – विदेश-सचिवः विक्रम-मिस्त्री भारत-पाकिस्तानयोर्मध्ये संजातः सैन्याभियानस्य अनन्तरम् साम्प्रतिक-वैदेशिक-नीतिविषये संसदीय-स्थायि-समितेः समक्षं समाख्यां प्रस्तुतवान् । एतस्यां समाख्यायां इदमपि सम्भाव्यते यत् असौ काङ्ग्रेस-सांसदस्य शशिथरूरस्य अध्यक्षता-युक्तायै समित्यै अपि जायमान-ऑपरेशन-सिंदूरस्य, युद्धविरामस्य घोषणाविषयेऽपि सूचनाः प्रदत्तवान्। ततश्च पाकिस्तानेन सह युद्धविरामस्य घोषणाविषयेऽपि सूचनाः प्रदत्तवान् ।

रोमानिया-देशे नूतनत्वेन राष्ट्रपतित्वेन “निकुसोर डैन” निर्वाचित: ।
हिमसंस्कृतवार्ता: – प्रत्याशिना “निकुसोर डैन” यूरोपीय-संघ-समर्थकेन इत्यमुना विजयोऽधिगतो वर्तते। सम्पन्ने राष्ट्रपति-पदस्य द्वितीय चरणस्य निर्वाचने अमुना चरम-दक्षिणपन्थिनं राष्ट्रवादिनं जॉर्ज सिमियन वर्यं पराजित्य निर्णायकः विजयः अधिगतः अस्ति, यद्धि व्यापक रूपेण भू-राजनीतिक-जनमत संग्रहत्वेन विलोक्यते ।

विदेश-मन्त्री डॉ. एस. जयशंकरः नीदरलैंड, डेनमार्क, जर्मनी चेति त्रयाणां देशानां यात्राप्रसङ्गे निरतः
हिमसंस्कृतवार्ता: – विदेशमन्त्री डॉ. एस. जयशंकरः नीदरलैंड, डेनमार्क, जर्मनी चेति त्रयाणां देशानां यात्राप्रसङ्गे निरतः। नीदरलैंडस्य हेग-मध्ये रणनीतिक विशेषज्ञैः सह उपवेशनम् अकरोत्। तदनु अमुना भणितं यत् विशेषज्ञैः सह परस्परमं विचारणां विनिमयं कृतवान्। विदेश मन्त्रालयेन षट्दिवसीय यात्रायाः कार्यक्रमस्य घोषणा विहिता आसीत्। यात्रायाः अवसरे, विदेशमन्त्री देश-त्रयस्यापि नेतृभिः साकं मेलिष्यति। असौ स्वीय समकक्ष-मन्त्रिभिः समं द्विपक्षीय सम्बन्धानां, परस्पर-हितानां, क्षेत्रीयाणां वैश्विकानां च विषयाणां सम्पूर्ण-प्रकल्पेषु चर्चाः करिष्यति। एषा यात्रा भारतस्य प्रवर्तमानानां कूटनीतिक गतिविधीनां भागभूता वर्तते यस्याः उद्देश्यः रणनीतिक सम्बन्धानां सुदृढीकरणं प्रमुख-यूरोपीय-सहभागिभिः देशैः साकं सहयोग-वर्धनम् अस्ति, येषु रणनीतिक साहमत्यं, व्यापारः, निवेशः चापि समाहिताः सन्ति ।

आगामि-पञ्च-दिनानि यावत् केरल-कर्णाटक-गोवा-महाराष्ट्रेषु अतिवृष्टेरनुमानं कृतं भारतीय-ऋतु-विभागेन‌
हिमसंस्कृतवार्ता: – भारतीय-ऋतु-विज्ञान-विभागेन आगामि-पञ्च-दिनानि यावत् केरल-कर्णाटक-गोवा-महाराष्ट्रेषु अतिवृष्टेरनुमानं कृतमस्ति। अथ च अग्रिमेषु पञ्च षड्-दिनेषु पूर्वोत्तरभारते हिमालयक्षेत्रेषु बङ्गालसिक्किमयोश्चापि मेघगर्जनेन तडित्-स्फुरणेन च सह अतिवृष्टेः सम्भावना अभिव्यक्तास्ति। अद्यारभ्य एतस्य मासस्य द्वाविंश-दिनाङ्क यावत् पश्चिम-राजस्थाने प्रचण्ड-निदाघ-लहरीणां सम्भावना वर्तते। अथ च ओडिशायां अपि प्रचण्ड-घर्म-मयस्य वातारणस्य सम्भावना वर्तते।

बी.सी.सी.आई इत्यनेन एशियाक्रीडातः पृथग्वर्तनस्य निर्णयः कृतः
भारतपाकिस्तानदेशयोर्मध्ये जायमानस्य सैन्यापीडस्यानन्तरं भारतीय-क्रिकेट्-परिषदा ऐशियायि-क्रिकेट-परिषदः द्वयोः प्रमुखस्पर्धयोः भागग्रहणात् पृथग्वर्तनस्य निर्णयः कृतः। एषा स्पर्धाद्वयी च वर्तते महिला-इमर्जिंग-टीम इत्याख्या एशिया-चषकीया स्पर्धा, पुरुष-वर्गीया एशिया-चषकीया स्पर्धा चेति।

शीर्षन्यायालयस्य न्यायाधीशानां निवृत्तिभूतकम्

एकस्मिन् महत्वपूर्ण निर्णये, शीर्षन्यायालयेन प्रोक्तं यत् समेषामपि न्यायाधीशानां पेंशन इति निवृत्तिभृतकम् उच्च न्यायालयानां अतिरिक्त-न्यायाधीशैः सहितेभ्यः न्यायाधीशेभ्यश्वापि प्रदास्यते । एते सर्वे पूर्ण-निवृत्ति-भृतकस्य, सेवा-निवृत्ति-लाभस्य च अधिकारिणो भविष्यन्ति। शीर्षन्यायालयेन प्रोदितं यत् उच्चन्यायालयस्य पूर्व-मुख्य-न्यायाधीशेभ्यः निवृत्ति-भृतकस्य रूपेण प्रतिवर्षं पञ्चदश-लक्ष-रूप्यकाणि प्रदास्यन्ते। न्यायालयेन प्रोक्तं यत् एतेभ्यः निवृत्ति-भृतकस्य नैव प्रदानं संविधानस्य चतुर्दश-अनुच्छेदस्य अन्तर्गतं समानतायाः अधिकारस्य उल्लंघनं भविष्यति।

भाजपा-दलेन कठुआ-क्षेत्रे ऑपरेशन सिंदूर इति सैन्य-अभियानस्य उत्कृष्ट-सफलतायाः उत्सवम् मानयितुं त्रिरंग-ध्वज-यात्रायाः आयोजनं कृतम्
हिमसंस्कृतवार्ता: – जम्मू-कश्मीरे एकतायाः भ्रातृत्वस्य सौहार्दस्य च अद्भुतं प्रदर्शनम्। देशभक्ति-भावनाभिः ओतप्रोतेन भाजपा-दलेन कठुआ-क्षेत्रे ऑपरेशन सिंदूर इति सैन्य-अभियानस्य उत्कृष्ट-सफलतायाः उत्सवम् मानयितुं त्रिरंग-ध्वज-यात्रायाः आयोजनं कृतम्। यात्रायामस्यां दलस्य वरिष्ठ नेतारः, कार्यकर्तारः, समर्थकाश्च भूरि संख्यायां सहभागितां कृतवन्तः। येन कठुआ-क्षेत्रस्य हृदयं त्रिरङ्ग-ध्वजस्य सागरे परिवर्तितं जातम्। त्रिरंग-ध्वज-यात्रायाः नेतृत्वं वरिष्ठ-भाजपा नेता डॉ. निर्मल-सिंहः अकरोत्, तेन साकं कठुआ-क्षेत्रस्य विधायकः डॉ. भारत भूषणः अपि अवर्तत।

You Might Also Like

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: संस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Himachal Tourism : रोहताङ्गे पर्यटकानां मेला, स्थानानि पूर्वमेव आरक्षितानि, सोमवासरे १२०० वाहनानि आगतानि
Next Article 21/05/2025 विद्यालयप्रार्थनासभायां वाचनार्थं प्रमुखहिमाचलवार्ता: ।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?