PM MODI- केरलराज्ये विनिंनजाम अन्ताराष्ट्रिय-डीपवाटर-मल्टीपर्पज-जलपोतस्थानकं राष्ट्राय समर्पितम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् भारतस्य तटीयराज्यानि भारतस्य विकासे प्रमुखकेन्द्राणि भविष्यन्ति। प्रधानमन्त्री-नरेन्द्रमोदी विझिंनजाम अन्ताराष्ट्रिय-डीपवाटर-मल्टीपर्पज-जलपोतस्थानकं राष्ट्राय समर्पितवान्, एतद्देशस्य प्रथमं अर्ध-स्वचालित-जलपोतस्थानकं वर्तते। कार्यक्रमेऽस्मिन् प्रधानमन्त्रिणा प्रोक्तं यत् भारतस्य सामुद्रिकाधारस्य विकासाय अयं महत्त्वपूर्ण पदक्षेपः वर्तते। तेनोदीरितं यत् विझिंनजाम-जलपोताश्रयः नवीनयुगस्य विकासाय श्रेष्ठप्रतिमानमस्ति। अनेन देशः केरलराज्यञ्च आर्थिक स्थिरतां प्राप्स्यति। अष्टशताधिक-अष्टसहस्त्रकोटिरुप्यात्मकः विझिंनजाम-जलपोताश्रयः विश्वस्य वस्तुवाहक जलपोतानाम् आगमनं सरलीकरोति। प्रधानमन्त्रिणा समुद्धोषितं यत् विझिंनजाम-जलपोताश्रये पोतान्तरणं भविष्ये त्रिगुणितं समेधिष्यते। प्रधानमन्त्रिणा जलपोताश्रये सञ्चालनभवनस्य नियन्त्रण-प्रणालीनाञ्च निरीक्षणं विहितम्।
कार्यक्रमं सम्बोधयन् केरलस्य मुख्यमन्त्री पिनाराई-विजयन इत्येषः प्रोक्तवान् यत् विझिंनजाम-जलपोताश्रयेण तृतीय-सहस्राब्दस्य विकाससम्भावनायै प्रवेशद्वारः समुद्घाटितः ।
प्रधानमन्त्री नरेन्द्रमोदी आन्ध्रप्रदेशे विविधानाम् विकासयोजनानां शिलान्यासम् उद्घाटनं च कृतवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी आन्ध्रप्रदेशस्य राजधान्याम् अमरावत्यां निर्माणकार्याणां पुनः आरम्भस्य आधारशिलाम् अस्थापयत्, अष्ट पञ्चाशत्सहस्र कोटिरूप्यकाणां च विभिन्नानां मार्ग-रेल-परियोजनानाम् उद्घाटनं कृतवान्। सभां सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् एताः परियोजनाः आन्ध्रप्रदेशस्य आकांक्षाणां विकसितभारतस्य च आशानां दृढं आधारं निर्मान्ति। सः अवदत् यत् विगतदशवर्षेषु देशे भौतिक-अङ्कीय-सामाजिक आधारभूत-संरचनासु बहुधा ध्यानं दत्तम् अस्ति। भारतं तेषु राष्ट्रेषु अन्यतमः अस्ति येषां आधारभूतसंरचना तीव्रगत्या विकसिता भवति।