नेशनल् हेराल्ड् प्रकरणे सोनिया-राहुलयोः कृते न्यायिकादेशः
नेशनल् हेराल्ड्-प्रकरणे दिल्ली-नगरस्य राउस्-एवेन्यू-न्यायालयेन शुक्रवासरे सोनियागान्धी, राहुलगान्धी, काङ्ग्रेस-विदेश-इकाई-प्रमुखः सैम-पिट्रोडा च सहितं पञ्चजनानाम् सूचना अधिसूचिता। प्रवर्तननिदेशालयेन धनशोधनसम्बद्धे प्रकरणे आरोपपत्रं पञ्जीकृतम् आसीत्। न्यायालयेन आरोपपत्रं स्वीकुर्यात् वा न वा इति निर्णयार्थं एषा सूचना अधिसूचिता अस्ति। अधुना सूचनायाः उत्तरं तथा च राहुल-सोनियादीनाम् अधिवक्तृणां तर्कं श्रुत्वा राउस् एवेन्यू न्यायालयः सम्मन-निर्गमनस्य निर्णयं करिष्यति। राउस् एवेन्यू न्यायालयेन उक्तं यत् आरोपपत्रस्य संज्ञानं ग्रहीतुं पूर्वं अभियुक्तस्य श्रवणस्य अधिकारः हर्तुं न शक्यते। एषः अधिकारः भारतीयनागरिकरक्षासंहितायां धारा २२३ अन्तर्गतं दत्तः अस्ति ।