वयं विद्यालयं गच्छाम:
(गीतम्)
गच्छामः, गच्छामः,
विद्यालयङ्गच्छामः।
सर्वकारीयविद्यालये
वयं सहर्षङ्गच्छाम:।
गच्छामो गच्छामो
विद्यालयङ्गच्छामः।
प्रपठ्य चैव संलिख्य,
भविष्योज्ज्वलङ्करिष्याम:।
गच्छाम: गच्छाम:……
निःशुल्कं यत्र लभते ज्ञानं,
पुस्तकान्यपि शुल्कं विना
सुभवनञ्च सुविधा: सर्वा:
सुशिक्षिताश्च शिक्षकगणा:।
आधुनिकशिक्षणसंयन्त्रै:
प्रपठ्याधुनिका भविष्याम:।।१।।
गच्छामो, गच्छाम:…..
भारतस्योन्नतिः मित्र!,
शिक्षया सम्भविष्यति।
अशिक्षिताश्च जना यत्र
तद्राष्ट्रं किङ्करिष्यति
सुशिक्षिताश्च भूत्वा वयं
स्वराष्ट्रम् अग्रे नेष्यामः।।२।।
गच्छामो गच्छामः……
सत्यं वद धर्मं चर
वचनै: परिपूतं भूत्वा
संस्कृतेन स्वसंस्कृतिं
च वयं संरक्षिष्याम:।
गच्छामो गच्छामः……
गच्छामः, गच्छामः,
विद्यालयङ्गच्छामः।
सर्वकारीयविद्यालये
वयं सहर्षङ्गच्छाम:।
— शिवकुमारशर्मा “शिवा”