प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।सुप्रसिद्धः संस्कृतविद्वान् अन्ताष्ट्रस्तरे सुप्रतिष्ठितः शिक्षाविदश्च प्रो.नरसिंहचरणपण्डा ओडिशा- केन्द्रीय- विश्वविद्यालयस्य (CUO) कार्यवाहक- कुलपतिरूपेण पदभारं स्वीकृतवान्, शिक्षामन्त्रालयभारतसर्वकारेण ३०.०४.२०२५ दिनाङ्के विश्वविद्यालयस्य कुलसचिवेन च मईमासस्य प्रथमे दिनाङ्के आधिकारिक– आदेशा: प्रकशिता: । पण्डावर्यस्य नियुक्तिः प्रो.चक्रधरत्रिपाठीवर्यस्य त्यागपत्रस्यानन्तरम् अभवत्। तस्य त्यागपत्रं भारतस्य माननीयराष्ट्रपतिना स्वीकृतम् अस्ति। प्रो. त्रिपाठी २०२२ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्के पदं स्वीकृतवान् आसीत्।प्रो. पण्डा विश्वविद्यालयसमुदायं सम्बोधयन् अवदत् यत्, “विश्वविद्यालयस्य कृते अयं सङ्घर्षमय: काल: अस्ति, सामूहिकप्रयत्नेन एव वयं अग्रे गन्तुं शक्नुमः” इति। असौ सर्वेभ्यः शिक्षकेभ्यः, शिक्षणेतरकर्मचारिभ्यः, छात्रेभ्यः समर्थनस्य सहयोगस्य च कृते प्रार्थितवान्।प्रो. पण्डावर्य: जनवरीमासस्य २३ दिनाङ्के २०२३ तमे वर्षे संस्कृतविभागे प्राध्यापकरूपेण सीयूओ-संस्थायां सम्मिलितः। इतः पूर्वम् असौ पञ्जाबविश्वविद्यालये, (चण्डीगढ) होशियारपुरे, पञ्जाबप्रान्तस्य संस्कृत- इण्डोलॉजिकल- अध्ययनविभागेन सह सम्बद्धः आसीत्। तस्य शैक्षणिकयात्रा दशकत्रयं यावद् सुविस्तृता वर्तते। अस्यां यात्रायां अन्ताष्ट्रीय- कार्यकालोऽपि वर्तते। असौ थाईलैण्डदेशस्य बैंकॉकनगरस्य सिल्पाकोर्नविश्वविद्यालये, मॉरीशसदेशस्य महात्मागान्धी-संस्थायां च संस्कृतस्य आईसीसीआर- अध्यक्ष- अतिथि प्राध्यापकरूपेणापि (विजिटिंग-प्रोफेसर) कार्यं कृतवान्। सः वाराणसीनगरस्य इन्दिरागान्धी- राष्ट्रीयकलाकेन्द्रे (IGNCA) शोधपदाधिकारिरूपेण अपि कार्यं कृतवान्। लेखकः सम्पादकश्च प्रो. पण्डावर्य: २८ पुस्तकानि, १४५ शोधपत्राणि च प्रकाशितवान् तथा च विश्वेश्वरानन्दः, इण्डोलॉजिकल जर्नल्स (UGC-CARE सूचीकृतः), थाईप्रज्ञा इति प्रतिष्ठितपत्रिकाणां सम्पादनं कृतवान्, या सिल्पाकोर्नविश्वविद्यालयेन बैंकॉकइत्यनेन प्रकाशिता इन्डोलोजी एण्ड कल्चर इत्यस्य अन्ताष्ट्रीयपत्रिका अस्ति।तस्य कृतय: भारते विदेशेषु च सुप्रतिष्ठितपत्रिकासु बहुधा प्रकाशिता: भवन्ति। अनेन विश्वस्तरे अनेकशैक्षणिकसंस्थानां सम्पादकमण्डलेषु, परामर्शकमण्डलेषु च कार्यं क्रियते। शैक्षणिकयोगदानाय असौ संस्कृतमहामहोपाध्यायपुरस्कारः (२०२४) वाग्देवीसम्मानः (२०२५) इत्येतै: सुसम्मानित:।
प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
