By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्
संस्कृतगतिविधयःप्रादेशिकवार्ता

प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्

डॉ.अमनदीप शर्मा
Last updated: 2025/05/03 at 6:51 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।सुप्रसिद्धः संस्कृतविद्वान् अन्ताष्ट्रस्तरे सुप्रतिष्ठितः शिक्षाविदश्च प्रो.नरसिंहचरणपण्डा ओडिशा- केन्द्रीय- विश्वविद्यालयस्य (CUO) कार्यवाहक- कुलपतिरूपेण पदभारं स्वीकृतवान्, शिक्षामन्त्रालयभारतसर्वकारेण ३०.०४.२०२५ दिनाङ्के विश्वविद्यालयस्य कुलसचिवेन च मईमासस्य प्रथमे दिनाङ्के आधिकारिक– आदेशा: प्रकशिता: । पण्डावर्यस्य नियुक्तिः प्रो.चक्रधरत्रिपाठीवर्यस्य त्यागपत्रस्यानन्तरम् अभवत्। तस्य त्यागपत्रं भारतस्य माननीयराष्ट्रपतिना स्वीकृतम् अस्ति। प्रो. त्रिपाठी २०२२ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्के पदं स्वीकृतवान् आसीत्।प्रो. पण्डा विश्वविद्यालयसमुदायं सम्बोधयन् अवदत् यत्, “विश्वविद्यालयस्य कृते अयं सङ्घर्षमय: काल: अस्ति, सामूहिकप्रयत्नेन एव वयं अग्रे गन्तुं शक्नुमः” इति। असौ सर्वेभ्यः शिक्षकेभ्यः, शिक्षणेतरकर्मचारिभ्यः, छात्रेभ्यः समर्थनस्य सहयोगस्य च कृते प्रार्थितवान्।प्रो. पण्डावर्य: जनवरीमासस्य २३ दिनाङ्के २०२३ तमे वर्षे संस्कृतविभागे प्राध्यापकरूपेण सीयूओ-संस्थायां सम्मिलितः। इतः पूर्वम् असौ पञ्जाबविश्वविद्यालये, (चण्डीगढ) होशियारपुरे, पञ्जाबप्रान्तस्य संस्कृत- इण्डोलॉजिकल- अध्ययनविभागेन सह सम्बद्धः आसीत्। तस्य शैक्षणिकयात्रा दशकत्रयं यावद् सुविस्तृता वर्तते। अस्यां यात्रायां अन्ताष्ट्रीय- कार्यकालोऽपि वर्तते। असौ थाईलैण्डदेशस्य बैंकॉकनगरस्य सिल्पाकोर्नविश्वविद्यालये, मॉरीशसदेशस्य महात्मागान्धी-संस्थायां च संस्कृतस्य आईसीसीआर- अध्यक्ष- अतिथि प्राध्यापकरूपेणापि (विजिटिंग-प्रोफेसर) कार्यं कृतवान्। सः वाराणसीनगरस्य इन्दिरागान्धी- राष्ट्रीयकलाकेन्द्रे (IGNCA) शोधपदाधिकारिरूपेण अपि कार्यं कृतवान्। लेखकः सम्पादकश्च प्रो. पण्डावर्य: २८ पुस्तकानि, १४५ शोधपत्राणि च प्रकाशितवान् तथा च विश्वेश्वरानन्दः, इण्डोलॉजिकल जर्नल्स (UGC-CARE सूचीकृतः), थाईप्रज्ञा इति प्रतिष्ठितपत्रिकाणां सम्पादनं कृतवान्, या सिल्पाकोर्नविश्वविद्यालयेन बैंकॉकइत्यनेन प्रकाशिता इन्डोलोजी एण्ड कल्चर इत्यस्य अन्ताष्ट्रीयपत्रिका अस्ति।तस्य कृतय: भारते विदेशेषु च सुप्रतिष्ठितपत्रिकासु बहुधा प्रकाशिता: भवन्ति। अनेन विश्वस्तरे अनेकशैक्षणिकसंस्थानां सम्पादकमण्डलेषु, परामर्शकमण्डलेषु च कार्यं क्रियते। शैक्षणिकयोगदानाय असौ संस्कृतमहामहोपाध्यायपुरस्कारः (२०२४) वाग्देवीसम्मानः (२०२५) इत्येतै: सुसम्मानित:।

You Might Also Like

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

*गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः सम्पन्न:*

संस्कृतभारत्याः काशीप्रान्तस्य प्रबोधनवर्गस्य समापन-दीक्षान्तकार्यक्रमः अद्य सुसम्पन्नः जातः।

TAGGED: प्रो. एन. सी. पण्डा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article असमवार्ताः-‘शास्त्रमन्थनम्’ इति नाम्नः १०८-व्याख्यानमालायाः षष्ठव्याख्यानम्
Next Article नेशनल् हेराल्ड् प्रकरणे सोनिया-राहुलयोः कृते न्यायिकादेशः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?