श्री गोवर्धनदास: राजकीय- उच्च- विद्यालय- बिजन- ढलवानाय दशसहस्ररुप्यकाणि दत्तवान्
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।
राजकीय- उच्चविद्यालयस्य बिजन-ढलवानस्य कृते विशेषः प्रेरणादायकः दिवसः आसीत्। लोकनिर्माणविभागात् सेवानिवृत्त: मान्य: गोवर्धनदास: विद्यालयविकासाय दशसहस्ररुप्यकाणां सहयोगराशि: दानरूपेण दत्तवान्। एतत् योगदानं न केवलम् आर्थिकसमर्थनस्य प्रतीकम् अपि तु छात्राणां प्रति तस्य गहनसंवेदनशीलतां शिक्षाप्रति समर्पणं च प्रतिबिम्बयति।
श्रीगोवर्धनदासाय अस्य उदात्तकार्याय विद्यालयप्रबन्धनेन एवं सर्वै: शिक्षकै: हार्दिक: आभार: प्रकटित:। अस्मिन् अवसरे विद्यालयस्य प्रधानाचार्या मोनिकाठाकुर हिमाचलीय- परम्परानुसारं शिरस्त्राणं दत्त्वा तस्य सम्मानं कृतवती। स्वसम्बोधने मुख्याध्यापिका अवदत्, “श्रीगोवर्धनदासस्य एतत् योगदानम् अन्येभ्यः समाजसेवकेभ्यः पूर्वविद्यार्थिभ्यः च अवश्यमेव प्रेरणा दास्यति। तस्य सहकार्यं विद्यालयस्य शैक्षणिक- भौतिकप्रगतेः कृते उपयोगी सिद्धं भविष्यति।”
श्री गोवर्धनदासेन अपि विद्यालयपरिवारेण सह वार्तालापस्य मध्ये उक्तं यत् एतत् विद्यालयं तस्य हृदयस्य अत्यन्तं समीपस्थम् अस्ति तथा च भविष्ये अपि विद्यालयस्य आवश्यकतानुसारं सर्वसम्भवं साहाय्यं निरन्तरं करिष्यति। अद्यतनीया: सन्तति: मादकद्रव्यव्यसनस्य पङ्के निमग्ना, यस्य कृते अस्माभिः अपि कार्यं कर्तव्यम्। एतत् सर्वकारस्य अपि च समाजस्य प्रत्येकस्य वर्गस्य दायित्वम् अस्ति। समाजाय नूतनां दिशां दातुं विद्यालयाः सहायकाः भवन्ति, अतः सर्वैः अभिभावकैः स्वविद्यालयस्य उत्थानार्थं यथाशक्ति प्रयत्नः करणीयः। अस्य उदात्तकार्यस्य कृते विद्यालयपरिवारः पुनः तस्मै कृतज्ञतां प्रकटितवान्, तस्य सुस्वास्थ्यस्य दीर्घायुषः च कामनाम् अकरोत्। अस्मिन् अवसरे विद्यालयस्य सर्वे शिक्षकाः उपस्थिताः आसन्।