By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Pahalgam Attack पहलगाम-क्षेत्रे दुरापन्नातङ्क्याक्रमणे मृतकेभ्यः पर्यटकेभ्यः श्रद्धांजलिः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Pahalgam Attack पहलगाम-क्षेत्रे दुरापन्नातङ्क्याक्रमणे मृतकेभ्यः पर्यटकेभ्यः श्रद्धांजलिः
राष्ट्रीयवार्ताः

Pahalgam Attack पहलगाम-क्षेत्रे दुरापन्नातङ्क्याक्रमणे मृतकेभ्यः पर्यटकेभ्यः श्रद्धांजलिः

डॉ.अमनदीप शर्मा
Last updated: 2025/04/24 at 7:01 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

Pahalgam Attack पहलगाम-क्षेत्रे दुरापन्नातङ्क्याक्रमणे मृतकेभ्यः पर्यटकेभ्यः श्रद्धांजलिः
हिमसंस्कृतवार्ता: – केन्द्रीय-गृहमन्त्री अमित-शाहः प्रावोचत् यत् प्रत्येकमपि भारतीयाः दक्षिण-कश्मीरस्य अनन्तनाग-जनपदस्य पहलगाम-क्षेत्रे दुरापन्नातङ्क-वाद्याक्रमणे निज-प्रियजनानां मृत्योः दुःखं अनुभवन्ति। अमुना निखिलमपि देशं समेत्य एते सर्वेSपि पीडितपरिवाराः समाश्वासिताः यत् निर्दोष-जनानां हत्या-कर्तारः इमे आतङ्किनो नूनमेव दण्डयिष्यन्ते । आतंकवादिनो एवमेव नैव विमोक्ष्यन्ते। केन्द्रीय गृहमन्त्री अमितशाहः, जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लाह, उपराज्यपालः मनोज सिन्हा च श्रीनगरस्य आरक्षिनियन्त्रण-कक्षस्य पी.सी.आर. इत्यस्य निरीक्षणयात्रां कृतवन्तः। इमे पहलगाम-क्षेत्रे दुरापन्नातङ्क्याक्रमणे मृतकेभ्यः पर्यटकेभ्यः श्रद्धांजलीन् समर्पितवन्तः । मंगलवासरे दुरापन्नातङ्क्याक्रमणे मारितानां जनानां शवाः तेषां गृहराज्येषु सम्मानजनक-रीत्या प्रेषयितुम् आधिकारिक व्यवस्थायाः अन्तर्गतं अत्र पी.सी.आर. मध्ये समानीताः आसन्। गृहमन्त्री अमितशाहः जम्मू-कश्मीरस्य नेतारश्च श्रीनगरे पहलगामातंकवाद्याक्रमणे मृतकेभ्यः श्रद्धांजलीन् समार्पयन्। भारतम् आतंकस्य पुरतः कदापि नतो नैव भविष्यति। गृहमंत्री जम्मू-कश्मीरस्य बैसरनवनक्षेत्रे आक्रमण क्षेत्रस्य स्थितिमपि निरैक्षत। अमुना सर्वकारीय-चिकित्सा-महाविद्यालय-अनंतनाग-उपचारालये उपचाराधीनानां व्रणितानां जनानां स्वास्थ्य-विषयेऽपि संज्ञानं स्वीकृतम्। प्राप्तावार्तानुसारेण पहलगाम-आक्रमणे स्थानीय-जनद्वयं समेत्य षड्विंशतिः पर्यटकाः पञ्चतां प्राप्ताः आसन्। आरक्षि-बलेन चाराभिकरणेन च आक्रान्तृ-आतङ्कि-त्रयस्य अन्वेषणार्थं स्केच-चित्रम् प्रख्यापितम् अस्ति।

पहलगाम-आक्रमणस्य विषये सर्वविधमपि पदक्षेपम् उत्थापयितुं शासनं तत्परम् अस्ति- रक्षामन्त्री राजनाथसिंहः
हिमसंस्कृतवार्ता: – रक्षामन्त्री राजनाथसिंहः आतङ्कवादं विरुध्य भारतस्य शून्य-सहिष्णुता-नीति-विषये साम्रेडितवान्। तेन प्रोक्तं यत् पहलगाम-आक्रमणस्य उत्तरदायिभ्यः मुखभञ्जन-करम् उत्तरं दातुं प्रशासनम् किमपि करणीयं न त्यक्ष्यति। सर्वविधमपि पदक्षेपम् उत्थापयितुं शासनं तत्परम् अस्ति। रक्षास्रोतांसि प्रोक्तवन्ति यत्, सेनाप्रमुखेण जनरल् उपेन्द्रद्विवेदिना, नौसेनाप्रमुखेण एडमिरल् दिनेशत्रिपाठिना, वायुसेनाप्रमुखेण एयर चीफ मार्शल एपी सिंहेन अन्यैः वरिष्ठाधिकारिभिः च पहलगाम आतंक्याक्रमणं निध्याय सुरक्षा-स्थितेः विषये श्रीसिंहस्य पुरतः विवरणं प्रस्तुतम्। अत्रावसरे नवदेहल्यां भारतीय वायुसैन्यबलेन आयोजिते भारतीय वायुसेनायाः मार्शलस्य अर्जुनसिंहस्य विषये स्मृतिव्याख्यानं सम्बोधयन् रक्षामन्त्री अस्याक्रमणस्य प्रतिकाराय सर्वाः व्यवस्थाः क्रियन्ते इति उक्तवान्। पहलगाम-क्षेत्रे आतङ्क्याक्रमणस्य निन्दां कुर्वन् श्रीसिंहः शोक-संतप्त-परिवारेभ्यः शोकसंवेदनां प्रकटितवान्।

कश्मीरोपत्यकायां समस्ते दिने पूर्णपिधानं प्रवर्तितम्
हिमसंस्कृतवार्ता: – पहलगाम-मध्ये पर्यटकानां हत्यायाः विरोधे कश्मीरोपत्यकायां समस्ते दिने पूर्णपिधानं प्रवर्तितम्। अधिकांशापणानि स्थानीय-औद्योगिक-समवायाः विनिर्माण एकांशाः च पिहिताः सन्ति। सार्वजनिकं परिवहनमपि मार्गेषु शून्यम् अस्ति। जम्मू-कश्मीरस्य मुख्यमंत्री उमर अब्दुल्ला केन्द्र-शासित प्रदेशस्य सर्वकारीय-कार्यालयानां कर्मकरान् अध्यार्थ्यत् यत् ते अपराह्न-सार्ध-त्रि-वादने राष्ट्रस्य ऐक्यबद्धतार्थं मिनट-द्वयस्य मौनमाचरन्तु इति।

विश्वस्य प्रमुखनेतृभिः जम्मू-कश्मीरे दुरापन्नस्य आतङ्क्याक्रमणस्य निन्दा कृता
हिमसंस्कृतवार्ता – विश्वनेतृभिः जम्मू-कश्मीरे आत‌ङ्क्याक्रमणं भर्त्सितम्। विश्वस्य प्रमुखनेतृभिः जम्मू-कश्मीरे दुरापन्नस्य आतङ्क्याक्रमणस्य निन्दा विहितास्ति। अमेरिकीय-राष्ट्रपतिः डोनाल्ड ट्रम्पः प्रधानमन्त्रिणा नरेन्द्रमोदिना साकं दौरभाषिकं सम्भाषणम् आचरितवान्। निर्दोष-जनानां हत्याविषये च गम्भीरां संवेदनां व्यक्तीकृतवान्। अथः च आतङ्किनो विरुध्य कार्याचरणे अमेरिकादेशस्य पूर्ण-समर्थनमपि आश्वासितवान्। ब्रिटेन-देशस्य प्रधान मन्त्रिणा कीर स्टारमर इत्यनेन अपि स्वीय-संवेदनाः व्यक्तीकृताः जर्मन चांसलर राष्ट्राध्यक्षः ओलाफ स्कोल्जः अपि आक्रमणमिदं भृशं भर्त्सितवान्। अमुना पहलागामातङ्क्याक्रमणे पर्यटकानां हत्याविषये संवेदनाः चापि व्यक्ताः। यूरोपीय संघायोगस्य प्रमुखा अपि आक्रमणं निन्दितवती। संयुक्त-अरब-अमीरात-देशेन, ईरान-देशेन चापि अस्य आक्रमणस्य कट्वालोचना कृता अस्ति। इजरायल-इटली देशाभ्यामपि एतत् आक्रमणं भृशं निन्दितम् । संयुक्त राष्ट्र-महासचिवः एंटोनियो गुटेरेसः अपि आक्रमणस्य भृशं निन्दापूर्वकं मृतकानां शोकसंतप्त-परिवारान् प्रति संवेदनां व्यक्तीकृतवान्।

भारतम् आतंकवादं प्रति शून्य-सहिष्णुतायुतं दृष्टिकोणं निदधाति – केन्द्रीय-पर्यटन-मन्त्री गजेंद्र सिंह शेखावतः
हिमसंस्कृतवार्ता: – केन्द्रीय-पर्यटन-मन्त्री गजेंद्र सिंह शेखावतः प्रावोचत् यत् पहलगाम आतङ्क्याक्रमणस्य अनन्तरं कश्मीरोपत्यकायां पर्यटनक्षेत्रे सम्भावितां हानिं न्यूनीकर्तुं केन्द्रम् निज-पक्षतः यथासम्भवं प्रयासान् करिष्यति। मन्त्री प्रत्यपादयत् यत् असौ जम्मू-कश्मीरस्य मुख्य-सचिवेन, पर्यटनविभागेन च साकं सम्पर्के विद्यते। अमुना एतदपि प्रोदितं यत् भारतम् आतंकवादं प्रति शून्य-सहिष्णुतायुतं दृष्टिकोणं निदधाति ।

जम्मू-कश्मीर-प्रशासनेन पहलगामे जाते आतङ्क्याक्रमणे मृतकाणां परिवारेभ्यः दशलक्ष-रूप्यकाणाम् अनुग्रह-राशेः घोषणा कृता
हिमसंस्कृतवार्ता: – जम्मू-कश्मीर-प्रशासनेन पहलगामे जाते आतङ्क्याक्रमणे मृतकाणां परिवारेभ्यः दशलक्ष-रूप्यकाणाम् अनुग्रह-राशेः घोषणा कृता । मुख्यमन्त्रिणा उमर अब्दुल्ला-इत्यनेन उक्तं यत् गभीर-रूपेण व्रणितानां कृते द्विलक्ष-रूप्यकाणि, सामान्यरूपेण व्रणितानां कृते एकैक-लक्ष-रूप्यकाणि च सहयोगरूपेण प्रदास्यन्ते भविष्यन्ति। मुख्यमन्त्रिणा इदमपि उक्तं यत् पीडितानां पैतृक-स्थाने प्रेषणाय सर्वाः सज्जताः कृता सन्ति।
भारतीय-नौसेना प्रमुखेण चीफ एडमिरल दिनेश के. त्रिपाठी वर्येण लेफ्टिनेंट विनय-नरवालाय अन्तिमः श्रद्धांजलिः समर्पितः
हिमसंस्कृतवार्ता: – भारतीय-नौसेना प्रमुखेण चीफ एडमिरल दिनेश के. त्रिपाठी वर्येण लेफ्टिनेंट विनय-नरवालाय अन्तिमः श्रद्धांजलिः समर्पितः । ध्येयमस्ति यत् एषः पहलगाम आतङ्क्याक्रमणे हुतिंगतः आसीत्। नौसेना प्रमुखेण राष्ट्रिय-राजधानी-क्षेत्रस्य इंदिरा गांधी अन्ताराष्ट्रीय-विमान-पत्तने लेफ्टिनेंट नरवालस्य पार्थिवशरीरे पुष्पांजलयः समर्पिताः। अत्रावसरे देहल्या: मुख्यमन्त्री रेखा गुप्ता अपि लेफ्टिनेंट नरवालाय अन्तिम श्रद्धांजलीं समार्पयत्। पश्चात् नरवालस्य पार्थिव-शरीरम् हरियाणायाः करनालक्षेत्रं नेष्यते।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

TAGGED: Pahalgam Attack-
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article संस्कृतविश्वविद्यालयस्य ९ बीसीए छात्राः प्रतिष्ठितकम्पन्यां चयनिताः
Next Article HPCM : सीमापर्यटनं वर्धयितुं सहायतां कुर्यात् आईटीबीपी इति, सीमासेनानायकेन संजयगुञ्ज्यालेन साकं वार्तायाम् अवदत् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?