बिजन-ढलवान विद्यालये प्रवेशं प्राप्नुवन्तु प्रत्येकविषयस्य निःशुल्का: टिप्पणीपुस्तिका: च प्राप्नुवन्तु, विद्यालये नामाङ्कनं वर्धयितु प्रबन्धनस्य अद्वितीयः उपक्रमः
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी। अद्यत्वे विद्यालयेषु प्रवेशप्रक्रिया प्रचलति। विद्यालये नामाङ्कनं वर्धयितुं सर्वकारीयविद्यालयानाम् शिक्षकाः स्वस्तरस्य प्रयत्नाः कुर्वन्ति। अस्मिन् एव क्रमे मण्डीमण्डलस्य राजकीयउच्चविद्यालयस्य बिजन-ढलवानस्य विद्यालयप्रबन्धनेन तथा शिक्षकैः अपि द्वारं द्वारं गत्वा अभिभावकान् छात्रान् च सर्वकारीयविद्यालयानाम् लाभस्य विषये, तेषु प्रदत्तानां सुविधानां शिक्षाव्यवस्थायाः च विषये अवगतं कृत्वा विद्यालये नामाङ्कनं वर्धयितुं सफलः प्रयासः कृतः अस्ति। यस्य फलस्वरूपं यस्मात् संभरक-विद्यालयात् छात्राः बिजन-ढलवानं न आगतवन्तः, तेभ्यः छात्राः विद्यालये प्रवेशं ग्रहीतुं आरब्धाः सन्ति। विद्यालयस्य मुख्याध्यापिका मोनिकाठाकुर अवदत् यत् बिजन-ढलवास्य शिक्षकाः पुनीत गुप्ता, कुलदीप राणा, मनोज शैल:, दिनेशकुमार:, अंजलि शर्मा, सुमन कुमारी च द्वारं द्वारं अभिभावकै संभरकविद्यालयेषु च गत्वा छात्रैः सह सम्पर्कं कृत्वा मार्गदर्शनं कृतवन्तः, येन विद्यालये नामाङ्कनं वर्धितम् अस्ति।
इदानीं विद्यालयप्रबन्धनसमित्या निर्णयः कृतः यत् अस्मिन् सत्रे यः कोऽपि नूतनः छात्रः विद्यालये प्रवेशं गृह्णाति तथा च यः छात्रः प्रवेशं प्रापयितुं सक्रियभूमिकां निर्वहति तस्मै विद्यालयप्रबन्धनेन प्रत्येकं विषयस्य कृते निःशुल्का: टिप्पणीपुस्तिका: प्रदत्ताः भविष्यन्ति तथा च तेन सह अनुपूरककार्याय अपि टिप्पणीपुस्तिका: दीयन्ते। एतेषां कृते यः कोऽपि व्ययः भविष्यति, तस्य विद्यालयस्य संस्कृतशिक्षकः डॉ. मनोजकुमारशैलः स्वनिधितः वहितुं निश्चितवान् अस्ति। विद्यालयस्य कलाशिक्षकः कुलदीपराणा, टीजीटी गणितम् पुनीतगुप्ता च अस्मिन् कार्ये आर्थिकसहायतां दातुं निर्णयं कृतवन्तौ। विद्यालयप्रबन्धनसमिति:, राजकीय-उच्च- विद्यालय:, बिजन-ढलवान द्वारा एतेषां शिक्षकाणां एकस्मिन् उदात्तकार्याय आभार: प्रकटित:।