उत्तरप्रदेश- संस्कृतसंस्थाने प्रशिक्षणस्य सहभागिभिः प्रशिक्षुभि: समाचरितः अन्ताराष्ट्रियः महिलादिवसः
हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल: , लखनऊ)
“न स्रीरत्नसमं रत्नम्” अन्तारष्ट्रियमहिलादिवस: प्रतिवर्षं मार्चमासस्य अष्टमे दिनाड्के समाचर्यते। महिलानां राजनीतिक- सामाजिक- आर्थिकादिविकासाय उत्तरप्रदेश- संस्कृतसंस्थाने सरलसंस्कृत- भाषाशिक्षकप्रशिक्षणस्यअष्टमे दिने प्रशिक्षुभि: ०८/०३/२५ दिनाड्के अन्ताराष्ट्रीय- महिलादिवसस्योपलक्ष्ये सभा समायोजिता। बृजेशाचौधरी प्रथमं वाग्देवीगीतेन समर्चितवान्। मुख्यवक्त्रित्वेन उपस्थितासीत् प्रेरिका अग्रवाल: वक्त्रित्वेन अनन्या श्रीवास्तव: सुरभिपाण्डेय: समुपस्थिता: आसन्। सर्वाषाञ्कृते स्वागतगीतं गीतवती जयासिंह। स्वागतभाषणै: वाक्पुष्पै: च स्वागतं कृतवती ज्योत्स्नामहोदया। आत्मसम्मानस्य भावः तासां विकल्पनिर्णयस्य अधिकारावसरान् संसाधनं च प्राप्तुं तासां अधिकारान् गृहस्यान्तः बहिश्च स्वजीवनं नियन्त्रयितुं शक्तिं प्राप्तुं तासाम् अधिकारः, राष्ट्रिय- अन्तार्राष्ट्रीयस्तरयोः अधिकसमानतापूर्णं सामाजिकमार्थिकं च व्यवस्थां निर्मातुं कथं महिला: समर्था: भविष्यन्तिति वक्त्री अनन्या श्रीवास्तव उद्बोधितवती। वक्त्री सुरभीमहोदया उक्तवती “यत्रनार्यस्तु पूज्यन्ते रमन्ते तत्र देवता:” यत्र नारीणां सम्मानं भवति तत्र देवानामावास: भवतीति। मुख्यवक्त्री प्रेरिका अग्रवालमहोदया भणितं महिलादिवसः २०२५ इति सर्वा: अद्भुता: महिला: सम्मानयितुं दिवसोऽस्ति या: समाजं प्रेरयन्ति, सशक्तिकरणं कुर्वन्ति, परिवर्तनस्योदाहरणञ्च स्थापयन्ति। अस्मिन् वर्षे “कार्यं त्वरितम्” (Accelerate Action) इति विषयः सर्वान् स्मारयति यत् लैङ्गिकसमानतां प्राप्तुं प्रयत्नाः त्वरिताः करणीयाः इति बोधिता:। प्रशिक्षणप्रमुखा: धीरजमैठाणी, राधाशर्मा, अनिलगौतम: प्रशिक्षका:- राजनदूबे:, सत्मम् मिश्र: महेन्द्रमिश्र:, आस्थाशुक्ला , कृतिकृष्णा प्रभृतय: उपस्थिता: आसन्। सर्वासां साधुवादज्ञापनं अल्का तिवारी ज्ञापितवती। अन्नू भारती शान्तिमन्त्रेण सभाया: समापनं कारितवती।
उत्तरप्रदेश- संस्कृतसंस्थाने प्रशिक्षणस्य सहभागिभिः प्रशिक्षुभि: समाचरितः अन्ताराष्ट्रियः महिलादिवसः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment