By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: महिला सशक्तिकरणाय समर्पितमस्ति प्रशासनम्- प्रधानमन्त्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > महिला सशक्तिकरणाय समर्पितमस्ति प्रशासनम्- प्रधानमन्त्री
राष्ट्रीयवार्ताः

महिला सशक्तिकरणाय समर्पितमस्ति प्रशासनम्- प्रधानमन्त्री

डॉ.अमनदीप शर्मा
Last updated: 2025/03/09 at 6:01 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

महिला सशक्तिकरणाय समर्पितमस्ति प्रशासनम्- प्रधानमन्त्री
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्र-मोदिनोक्तं यत् प्रशासनं महिला सशक्तिकरणाय समर्पितमस्ति। अमुना महिलानां जीवनोन्नयनाय विहिताः महत्त्वपूर्णपदक्षेपाः उपस्थापिताः। अन्ताराष्ट्रिय महिला दिवसस्य अवसरे गुजरातस्य नवसारी-जनपदे ‘लखपति दीदी ‘इति सम्मेलनं सम्बोधयन् श्रीमोदी अवोचत् यत् भारतं महिला-नेतृत्वयुते विकास-पथि अग्रेसरं वर्तते। अवधेयं वर्तते यत् आदेशे महिलासु उद्यमशीलतां वित्तीय-सशक्तिकरणं च समेधितुं तेन त्रयोविंशत्युत्तर-द्वि-सहस्र-तमे वर्षे लखपति दीदी इत्याख्या योजना आरब्धा। अस्याः योजनायाः कृषि-पशुपालन-लघुद्योग-सदृशेभ्यः विविध-स्रोतेभ्यः न्यूनातिन्यूनम् एक-लक्ष-रूप्यकाणाम् वार्षिक-आय-युतानां स्वयं-साहाय्य-समूहानां महिला-सदस्येभ्यः ‘लखपति दीदी’ रूपेण मान्यता प्रदीयते। ताभिः प्रशासनात् आर्थिक-साहाय्येन सभं व्यावसायिकं प्रशिक्षणम् अपि प्राप्यते। गुजराते सार्धक-लक्षं महिलाः सम्प्रति लखपति दीदी’ इत्यस्य स्थानं प्राप्य प्रतिवर्षम् एक-लक्षाधिकं च वार्षिक-आयं प्राप्नुवन्ति। अत्रावधौ प्रधानमन्त्री पञ्चविंशति-सहस्राधिक-स्वयं साहाय्य-समूहानां महिलाभ्यः सार्थ-चतुश्शतको ऊष्यकाणां वित्तीय-सहायतां वितरितवान्। प्रधानमन्त्री पञ्च लखपति दीदी इत्येताभ्यः महिलाभ्यः लखपति दीदी प्रमाण-पत्राणि प्रदत्तवान्।
प्रधानमन्त्रिणा स्वस्य सोशलममीडिया एकाउण्ट इति महिलाभ्यः प्रदत्तः
प्रधानमन्त्रिणा नरेन्द्रमोदिना अन्ताराष्ट्रिय महिला दिवसस्य अवसरे स्वस्य सोशल मीडिया एकाउंट इति सामाजिक-सञ्चार-पटलस्य सञ्चालन महिलाभ्यः प्रदत्तम्। प्रधानमन्त्रिणा सामाजिक सञ्चारे उक्तं यत् प्रातः एव विशिष्ट-महिलाभिः स्वस्य अन्य-महिलानां च प्रेरकानुभवाः सहक्रियन्ते। तेनोक्तं यत् देशस्य विविध-भागेषु आभिः महिलाभिः विविध-क्षेत्रेषु उत्कृष्टता प्राप्ता। याः हि देशस्य नारीशक्तेः प्रतीकस्वरूपाः वर्तन्ते। प्रधानमन्त्रिणः सोशल मीडिया एकाउंट इत्यत्र डॉक अंजलिः अग्रवालः अवोचत् यत् सा परिवर्तन-ज्योति-प्रज्ज्वालनाय राष्ट्रस्य आह्वानं कर्तुमिच्छति। डॉक अग्रवालः समर्ध्वम इत्येतस्य सुगम्यता केन्द्रस्य संस्थापिका वर्तते। परमाणु-वैज्ञानिकः एलिना मिश्रा अन्तरिक्ष-वैज्ञानिकः शिल्पी सोनी इत्युभाभ्याम् उक्तं यत् महिला-दिवसावसरे प्रधानमन्त्रिणः सोशल मीडिया एकाउट इत्यस्य सञ्चालनं रोमाञ्चकम् अस्ति।

राष्ट्रपतिना महिलानां प्रगतौ सहयोगावसरसृजने समाजस्य भूमिका सबलं प्रतिपादिता


हिमसंस्कृतवार्ताः। राष्ट्रपतिः द्रौपदीमुर्मुः अन्ताराष्ट्रिय महिला दिवसस्य अवसरे कार्यवले महिलानाम् अधिक सहभागिताये आह्वानं कृतवती। तयोक्तं यत् भारतं जगतः तृतीय-बृहत्तमार्थ-व्यवस्था भवितुम् अग्रसरं वर्तते। राष्ट्रपतिः नवदिल्ल्याम् अन्ताराष्ट्रिय महिलादिवसमुपलक्ष्य नारीशक्ति से विकसित भारत इत्यभिनामधेयकस्य एक-दिवसीय सम्मेलनस्य उद्घा जावसरे उक्तवती यत् देशस्व तनयाः विकसित भारतस्य स्वप्नम् पूरयितुं महत्त्वपूर्णा भूमिकां निभालयन्ति। राष्ट्रपतिना महिलानां प्रगतौ सहयोगावसरसृजने समाजस्य भूमिका सबलं प्रतिपादिता। राष्ट्रपतिः अवोचत् यत् लोकसभायां राज्य-विधानसभासु च नारीशक्ति- बन्दनाधिनियम इत्येतस्य महिलारक्षणस्य प्रावधानम् ऐतिहां वर्तते। तयोक्तम् अन्ताराष्ट्रिय महिलादिवसः महिलानाम् अमूल्ययोगदानं सम्मानयितुम् अथ च पुरुष-समानतां च वर्धयितुम् अवसरो वर्तते। केन्द्रीवमन्त्री अर्जुन राम मेघवालः महिला-बाल-विकास-मन्त्री अन्नपूर्णादेवी च अस्मिन् अवसरे उपस्थिती अवर्तताम्।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: महिला
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य “चित्रलहरी” चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित:
Next Article भारतीयसंस्कृतपरम्पराः आधुनिकसमाजस्य नैतिकबौद्धिकविकासस्य च आधारशिला
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?