कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य विश्वविद्यालयमहोत्सवस्य भव्यसमापनम्
हिमसंस्कृतवार्ता, नलबाड़ी, 7 मार्च, 2025 – कुमारभास्कर-वर्मा-संस्कृत-पुरातनाध्ययनविश्वविद्यालये आयोजिते विश्वविद्यालय-महोत्सवः शुक्रवासरे आडम्वरपूर्णेन कार्यक्रमेन सह समापनम् अभवत्। महोत्सवस्य अंतिमे दिने एकस्याः भव्याः सांस्कृतिक-शोभायात्रायाः संरचना जाता, यत्र छात्रैः पारम्परिकवेशभूषाभिः अंशग्रहणं कृतम् तथा च विभिन्नानां लोककलानां प्रदर्शनं कृतम्। तत्र प्रतियोगितायाः समापनानन्तरं मध्याह्ने पुरस्कारवितरणं समारोपं सांस्कृतिककार्यक्रमञ्च आयोजनम् अभवत्।
उद्घाटन-समारोह: विशिष्टाथयः च
कार्यक्रमस्यास्य उद्घाटनसमारोहस्य अध्यक्षतां विश्वविद्यालयस्य कुलपतिः डॉ. प्रह्लाद आर. जोशीवर्येन कृतम्। तत्र मुख्यातिथिरूपैः आसन् भट्टादेव-विश्वविद्यालयस्य कुलपतिः प्रो. धनपति-डेका, नलबारी-महाविद्यालयस्य प्राचार्य: डॉ. कमल-नयन-पटवारी तथा महेन्द्र-नारायण-चौधुरी-बालिका-महाविद्यालयस्य प्राचार्या डॉ. गार्गी-चक्रवर्तीवर्या च ।
कार्यक्रमेऽस्मिन् कुलसचिवः डॉ. विकास-भार्गव-शर्मना स्वागत-भाषणं प्रदानपूर्वकं महोत्सवस्य उद्देश्यस्य व्याख्यानं कृतम्। स्वकीयभाषने कुलपतिः डॉ. जोशीवर्येन छात्राणां पारम्परिक-ज्ञानम् आधुनिकशिक्षायाः च समन्वयोपरि गुरुत्वपूर्वकं संस्कृतम् एवं प्राचीनाध्ययनक्षेत्रे नुतन-शोध-सम्भावनायाः विकाशविषये गुरुत्वं प्रकाशितम्। सः स्वभाषनैः छात्राण् स्वकीयसंस्कृतिभिः सह संयुक्तं सन् वैश्विकमञ्चे भारतीयज्ञान-परंपरायाः प्रचारार्थं प्रेरणां प्रदत्तवान्।
अन्ये अतिथयः अपि स्वकीयविचारैः स्वमतान् प्रकटितवन्तः । प्रो. धनपति- डेकावरयेन संस्कृताध्ययनस्य वर्तमानस्थितिः तथा तस्य भविष्यतसंभावनानामुपरि प्रकाशं प्रदत्तम् । एवं डॉ. कमल- नयन-पटवारीवर्यः छात्राण् नियताध्ययनस्य नवाचारस्योपरि च कार्यं कर्तुं प्रेरितवान्।
महोत्सवेऽस्मिन् विभिन्नानां साहित्यिक-सांस्कृतिकयोः क्रीडा-प्रतियोगितयोः आयोजनम् अभवत्। प्रतियोगितासु छात्राः वाद-विवाद- श्लोक-पाठ-संस्कृतनाटक- चित्रकला-निबन्धलेखन-शास्त्रीय संगीत-लोकगीत-लोकनृत्य-नाटकेषु उत्साहपूर्वकं भागग्रहणमकुर्वन्। विजयीप्रतिभागिनां कृते पुरस्कारप्रदानमभवत् । पुरस्कारप्रदानसमारोहस्य संचालनं छात्र-कल्याण-निदेशक: डॉ. पंकज कुमार शर्मणा कृतम्। तेन कार्यक्रमस्य प्रतिवेदनप्रस्तुतमपि कृतम्।
शायङ्काले समायोजिते सांस्कृतिकसन्ध्या-इति कार्यक्रमे विश्वविद्यालयस्य छात्रैः एवम् आमन्त्रितैः कलाकारैः विभिन्न- सांस्कृतिककार्यक्रमाः प्रस्तुताः। पारम्परिकसत्रिया-नृत्यं भरतनाट्यं ओडिसीनृत्यम् एवं लोकगीतानां प्रस्तुतिभिः दर्शकाः मंत्रमुग्धाः अभवन्। एवं छात्रैः प्रस्तुता संस्कृत नाटिका विशेषाकर्षणस्य केन्द्रमासीत् ।
विश्वविद्यालयमहोत्सवे – संस्कृति-शिक्षयोः सङ्गमः
अनेन महोत्सवेन विश्वविद्यालय-परिसरम् एकं सांस्कृतिक एवं बौद्धिक चेतनायाः केंद्रं प्रति परिवर्तितं जातम् । अनेन नकेवलं छात्रेषु उत्साहस्य प्रतिस्पर्धायाः च भावना जागृता अपि तु ते सांस्कृतिक-शैक्षिकक्षमतयोः अपि परिशीलयितुं अवसरं प्राप्तवन्तः ।
कुलपतिः डॉ. प्रह्लाद आर. जोशीवर्येन समापन – समारोहे विश्वविद्यालय-परिवाराय धन्यवादप्रदानपूर्वकम् उक्तं यत् – “अनेन महोत्सवेन विद्यार्थिनां सर्वाङ्गीण-विकासाय प्रोत्साहितं कृताः । वयम् आशास्महे मत् आगामिवर्षेषु अयं कार्यक्रमः इतोऽपि भव्यतया आयोजितं भवेदिति ।”
अनेन महोत्सवेन छात्र-शिक्षक-विश्वविद्यालयस्य प्रशासनानां च एकात्मतां दृढाः जाताः तथा च संस्कृतम् एवं प्राचीनाध्ययनं प्रोत्साहितं कर्तुं महत्वपूर्णा भूमिका स्थापिता।