By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य विश्वविद्यालयमहोत्सवस्य भव्यसमापनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य विश्वविद्यालयमहोत्सवस्य भव्यसमापनम्
संस्कृतगतिविधयः

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य विश्वविद्यालयमहोत्सवस्य भव्यसमापनम्

डॉ.अमनदीप शर्मा
Last updated: 2025/03/09 at 5:55 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य विश्वविद्यालयमहोत्सवस्य भव्यसमापनम्
हिमसंस्कृतवार्ता, नलबाड़ी, 7 मार्च, 2025 – कुमारभास्कर-वर्मा-संस्कृत-पुरातनाध्ययनविश्वविद्यालये आयोजिते विश्वविद्यालय-महोत्सवः शुक्रवासरे आडम्वरपूर्णेन कार्यक्रमेन सह समापनम् अभवत्। महोत्सवस्य अंतिमे दिने एकस्याः भव्याः सांस्कृतिक-शोभायात्रायाः संरचना जाता, यत्र छात्रैः पारम्परिकवेशभूषाभिः अंशग्रहणं कृतम् तथा च विभिन्नानां लोककलानां प्रदर्शनं कृतम्। तत्र प्रतियोगितायाः समापनानन्तरं मध्याह्ने पुरस्कारवितरणं समारोपं सांस्कृतिककार्यक्रमञ्च आयोजनम् अभवत्।

उद्घाटन-समारोह: विशिष्टाथयः च

कार्यक्रमस्यास्य उद्घाटनसमारोहस्य अध्यक्षतां विश्वविद्यालयस्य कुलपतिः डॉ. प्रह्लाद आर. जोशीवर्येन कृतम्। तत्र मुख्यातिथिरूपैः आसन् भट्टादेव-विश्वविद्यालयस्य कुलपतिः प्रो. धनपति-डेका, नलबारी-महाविद्यालयस्य प्राचार्य: डॉ. कमल-नयन-पटवारी तथा महेन्द्र-नारायण-चौधुरी-बालिका-महाविद्यालयस्य प्राचार्या डॉ. गार्गी-चक्रवर्तीवर्या च ।

कार्यक्रमेऽस्मिन् कुलसचिवः डॉ. विकास-भार्गव-शर्मना स्वागत-भाषणं प्रदानपूर्वकं महोत्सवस्य उद्देश्यस्य व्याख्यानं कृतम्। स्वकीयभाषने कुलपतिः डॉ. जोशीवर्येन छात्राणां पारम्परिक-ज्ञानम् आधुनिकशिक्षायाः च समन्वयोपरि गुरुत्वपूर्वकं संस्कृतम् एवं प्राचीनाध्ययनक्षेत्रे नुतन-शोध-सम्भावनायाः विकाशविषये गुरुत्वं प्रकाशितम्। सः स्वभाषनैः छात्राण् स्वकीयसंस्कृतिभिः सह संयुक्तं सन् वैश्विकमञ्चे भारतीयज्ञान-परंपरायाः प्रचारार्थं प्रेरणां प्रदत्तवान्।

अन्ये अतिथयः अपि स्वकीयविचारैः स्वमतान् प्रकटितवन्तः । प्रो. धनपति- डेकावरयेन संस्कृताध्ययनस्य वर्तमानस्थितिः तथा तस्य भविष्यतसंभावनानामुपरि प्रकाशं प्रदत्तम् । एवं डॉ. कमल- नयन-पटवारीवर्यः छात्राण् नियताध्ययनस्य नवाचारस्योपरि च कार्यं कर्तुं प्रेरितवान्।

महोत्सवेऽस्मिन् विभिन्नानां साहित्यिक-सांस्कृतिकयोः क्रीडा-प्रतियोगितयोः आयोजनम् अभवत्। प्रतियोगितासु छात्राः वाद-विवाद- श्लोक-पाठ-संस्कृतनाटक- चित्रकला-निबन्धलेखन-शास्त्रीय संगीत-लोकगीत-लोकनृत्य-नाटकेषु उत्साहपूर्वकं भागग्रहणमकुर्वन्। विजयीप्रतिभागिनां कृते पुरस्कारप्रदानमभवत् । पुरस्कारप्रदानसमारोहस्य संचालनं छात्र-कल्याण-निदेशक: डॉ. पंकज कुमार शर्मणा कृतम्। तेन कार्यक्रमस्य प्रतिवेदनप्रस्तुतमपि कृतम्।

शायङ्काले समायोजिते सांस्कृतिकसन्ध्या-इति कार्यक्रमे विश्वविद्यालयस्य छात्रैः एवम् आमन्त्रितैः कलाकारैः विभिन्न- सांस्कृतिककार्यक्रमाः प्रस्तुताः। पारम्परिकसत्रिया-नृत्यं भरतनाट्यं ओडिसीनृत्यम् एवं लोकगीतानां प्रस्तुतिभिः दर्शकाः मंत्रमुग्धाः अभवन्। एवं छात्रैः प्रस्तुता संस्कृत नाटिका विशेषाकर्षणस्य केन्द्रमासीत् ।

विश्वविद्यालयमहोत्सवे – संस्कृति-शिक्षयोः सङ्गमः

अनेन महोत्सवेन विश्वविद्यालय-परिसरम् एकं सांस्कृतिक एवं बौद्धिक चेतनायाः केंद्रं प्रति परिवर्तितं जातम् । अनेन नकेवलं छात्रेषु उत्साहस्य प्रतिस्पर्धायाः च भावना जागृता अपि तु ते सांस्कृतिक-शैक्षिकक्षमतयोः अपि परिशीलयितुं अवसरं प्राप्तवन्तः ।

कुलपतिः डॉ. प्रह्लाद आर. जोशीवर्येन समापन – समारोहे विश्वविद्यालय-परिवाराय धन्यवादप्रदानपूर्वकम् उक्तं यत् – “अनेन महोत्सवेन विद्यार्थिनां सर्वाङ्गीण-विकासाय प्रोत्साहितं कृताः । वयम् आशास्महे मत् आगामिवर्षेषु अयं कार्यक्रमः इतोऽपि भव्यतया आयोजितं भवेदिति ।”

अनेन महोत्सवेन छात्र-शिक्षक-विश्वविद्यालयस्य प्रशासनानां च एकात्मतां दृढाः जाताः तथा च संस्कृतम् एवं प्राचीनाध्ययनं प्रोत्साहितं कर्तुं महत्वपूर्णा भूमिका स्थापिता।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

LBS विश्वविद्यालये “AI-युगे शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये सार्थक-विमर्शः

पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article त्रिपुरायाम् एकलव्यपरिसरे अन्तर्राष्ट्रियनारीदिससमारोहः समायोजितः
Next Article KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य “चित्रलहरी” चलच्चित्रक्लबद्वारा द्वितीयः चलच्चित्रमहोत्सवः आचरित:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?