बागेश्वर-धाम-चिकित्सा एवं विज्ञान-अनुसन्धान-संस्थानस्य आधारशिलां संस्थापितवान् प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्र मोदी मध्यप्रदेश-बिहार-असम प्रदेशानां त्रिदिवसीय यात्रोपक्रमे मध्य प्रदेशस्य छतरपुर क्षेत्रं सम्प्राप्तवान्। अन्तावधौ सः छतरपुरजनपदे बागेश्वर-धाम-चिकित्सा एवं विज्ञान-अनुसन्धान-संस्थानस्य आधारशिलां संस्थापितवान्। अत्याधुनिक यन्त्रै सुसज्जितेऽस्मिन् कर्क चिकित्सालये निर्धन-कर्करोगिणां निःशुल्क चिकित्सा भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अकथयत् यत् सर्वेषां कृते स्वास्थ्यं “तेषां सर्वकारस्य”” सब का साथ, सबका विकास” इत्येतस्य संकल्पस्य मुख्यस्तम्भः वर्तते। गतमध्याह्ने मध्यप्रदेशस्य छतरपुरजनपदे आधारशिलां संस्थापयन् श्रीमोदी प्रोक्तवान् यत् इदं संस्थानं वंचित-कर्क रोगिभ्यः निःशुल्क चिकित्सां प्रापयिष्यति। कर्करोगमालक्ष्य सर्वकारस्य प्रयासान् प्रकटीकुर्वता तेन विज्ञापितं यत् आयत्ययके कर्करोगस्य द्वरीकरणार्थं बत्यः घोषणाः कृताः। प्रधानमन्त्री भोपाले दिनद्वयात्मकस्य वैश्विक-निवेशक-शिखर सम्मेलनस्यापि उद्घाटनं विधास्यति।
प्रधानमन्त्री अद्य बिहारस्य भागलपुरक्षेत्रे प्रयास्यति, यन्तसः प्रधानमन्त्री-किसान-योजनायाः एकोनविंशतितमां देयराशिमपि प्रकाशयिष्यति। अनेन माध्यमेन अशेषे हि देशे सप्तति-लक्षाधिक-नवकोटि परिमिताः कृषकाः पञ्चशतकोट्यधिक-एकविंशतिसहस्त्र-रूप्यकाणां वित्तीयसहायतां प्राप्स्यन्ति। श्रीमोदी बिहारराज्ये विभिन्न-विकास-परियोजनानां उद्याटनं लोकार्पणञ्च करिष्यति। अतः परं प्रधानमन्त्री नरेन्द्रमोदी झुमोर-बिनन्दिनी-कार्यक्रमे भागग्रहणार्थं गुवाहाटीं प्रति गमिष्यति।
बागेश्वर-धाम-चिकित्सा एवं विज्ञान-अनुसन्धान-संस्थानस्य आधारशिलां संस्थापितवान् प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
