शतकवीर: विराट कोहली, दुबईनगरे भारतेन पाकिस्तानदेशं षड् स्तोभै: पराजितः
पाकिस्तानदलस्य अभियानं समाप्तम्।
हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा
विराट कोहली पुनरेकबारं पाकिस्तानदलस्य आशानां विनाशं कृत्वा भारतीयदलाय विजयस्य उपहारं दत्तवान्। गतदिने संयुक्त अरब अमीरातस्य दुबई अंताराष्ट्रीय क्रीडांगणे जायमाने चैम्पियन्स ट्रॉफी इत्यस्य द्वंद्वे विराटस्य शतकबलेन भारतेन पाकिस्तानदलं षड् स्तोभै: पराजित्य प्रतिस्पर्धा विजिता। अनेन पाकिस्तानदलस्य अभियानमपि समाप्तम्। टॉसमिति विजित्य पाकिस्तानदलेन प्रथमं फलकक्रीडका चयनिता। भारतीयकन्दुकक्षेपकाणां समक्षं पाकिस्तानस्य क्रीडका: असहजा: एव आसन्। केवलं सऊद सकील: अर्धशतकं कृत्वा पाकिस्तानदलस्य धावनांकसंख्यां 200तः अग्रे नीतवान्। तेन सः मोहम्मद रिजवान: 46, खुशदिल शाह 38, बाबर आज़मश्च 23 धावनांकानां योगदानं दत्तवन्त:। भारतस्य कुलदीप यादव: 3, हार्दिक पंड्या 2, रविन्द्र जडेजा, हर्षित राणा, अक्षर पटेलश्च 1-1 धावनांकान् योजितवन्त:। 49.4 कन्दुकचक्रेषु पाकिस्तानस्य सम्पूर्णं दलं 241 धावनांकेषु एव अवरुद्धम्।
242 धावनांकानां लक्ष्यस्य प्राप्तिक्रमे भारतीयक्रीडक: विराट कोहली स्वकीय एकदिवसीयप्रारूपस्य 51तमं शतकं कृत्वा भारताय विजयस्य उपहारं दत्तवान्। तेन 111 कन्दुकेषु अविजित: शतकं (100*) कृतम्। श्रेयस अय्यर: 56, शुभमन गिल: 46, रोहित शर्मा च 20 धावनांकान् योजितवन्त:। भारतेन 42.3 कन्दुकचक्रेषु 4 क्रीडकहानौ 244 धावनांकान् अर्जयित्वा इयं विजयश्री: प्राप्ता। पाकिस्तानपक्षतः शाहीन शाह अफरीदी 2, अबरार अहमद:, खुशदिल शाह च 1-1 स्तोभं प्राप्तवन्तौ। विराट कोहली एव प्रतिस्पर्धाया: सर्वश्रेष्ठ: क्रीडक: अपि चयनित:।
भारतस्य अनेन विजयेन चैम्पियन्स ट्रॉफी 2025 इत्यस्यां पाकिस्तानदलस्य अभियानं समाप्तम्। यतोहि पाकिस्तानदलेन स्वकीययो: द्वयो: प्रतिस्पर्धयो: पराजय एव प्राप्त:। अधुना पाकिस्तानदलाय मात्र औपचारिकता एव अवशिष्टा। तद्विपरीतं भारतेन स्वकीये उभे प्रतिस्पर्धे विजिते। भारतं स्वसमूहे प्रथमस्थाने विद्यते पाकिस्तानश्च अन्तिमे। भारतस्य अग्रिमा प्रतिस्पर्धा न्यूज़ीलैंडदेशेन सह मार्च मासस्य द्वितीये दिनांके भविष्यति।