By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: International Exposure Visit : सिङ्गापुर- संपर्कन- भ्रमणार्थं हिमाचलतः गमिष्यन्ति त्रयः संस्कृतशिक्षकाः। मण्डीजनपदस्य डॉ. मनोजः डॉ. विवेकः च अध्यापनस्य नवीनप्रविधय: ज्ञास्यतः।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > International Exposure Visit : सिङ्गापुर- संपर्कन- भ्रमणार्थं हिमाचलतः गमिष्यन्ति त्रयः संस्कृतशिक्षकाः। मण्डीजनपदस्य डॉ. मनोजः डॉ. विवेकः च अध्यापनस्य नवीनप्रविधय: ज्ञास्यतः।
प्रादेशिकवार्तासंस्कृतगतिविधयःहिमाचलवार्ता

International Exposure Visit : सिङ्गापुर- संपर्कन- भ्रमणार्थं हिमाचलतः गमिष्यन्ति त्रयः संस्कृतशिक्षकाः। मण्डीजनपदस्य डॉ. मनोजः डॉ. विवेकः च अध्यापनस्य नवीनप्रविधय: ज्ञास्यतः।

डॉ मनोज शैल
Last updated: 2025/02/18 at 10:53 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

International Exposure Visit : सिङ्गापुर- संपर्कन- भ्रमणार्थं हिमाचलतः गमिष्यन्ति त्रयः संस्कृतशिक्षकाः।

मण्डीजनपदस्य डॉ. मनोजः डॉ. विवेकः च अध्यापनस्य नवीनप्रविधय: ज्ञास्यतः।

हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।‌

हिमाचलप्रदेशस्य शिक्षाविभागः सयग्रशिक्षासहकारेण शिक्षायां गुणात्मकोन्नयनार्थं निरन्तरप्रयत्नाः कुर्वन् अस्ति। यस्मिन् अन्ताराष्ट्रीय- अन्तर्राज्य- स्तरस्य शिक्षकानां कार्यशालाः, एक्स्पोजर-भ्रमणस्य च आयोजनं क्रियते। अस्मिन् सन्दर्भे प्रारम्भिकशिक्षाविभागस्य ६० टीजीटी, सी एण्ड वी, जेबीटी शिक्षकाः सिङ्गापुरस्य अन्ताराष्ट्रीयसंपर्कनभ्रमणार्थं चयनिताः सन्ति। एतद् दलम् २१ फरवरीतः २७ दिनाङ्कपर्यन्तं सिङ्गापुरस्य भ्रमणं करिष्यति अस्मिन् समूहे हिमाचलतः त्रय: संस्कृतशिक्षकाः अपि मण्डीमण्डले सेवां कुर्वन्तौ संस्कृतशिक्षकौ तेषु मण्डीनगरनिगमक्षेत्रस्य राजकीय- उच्चविद्यालये बिजनढलवाने सेवां कुर्वन् संस्कृतशिक्षक: डॉ. मनोजकुमार शैल: राजकीय- (बाल) वरिष्ठ- माध्यमिक- विद्यालये जोगिंदरनगरे सेवारत: डॉ. विवेकशर्मा च अस्मिन् अन्ताराष्ट्रीय- सम्पर्कन- भ्रमण- कार्यक्रमे भागं ग्रहीष्यत:। तत्रैव कुल्लू मण्डलस्य आनीतः एका संस्कृतशिक्षिका आशा देवी अस्मिन् भ्रमणे गमिष्यति। डॉ. मनोजशैलः अवदत् यत् सिङ्गापुरस्य अन्ताराष्ट्रीय- एक्सपोजर- भ्रमणस्य समये वयं शिक्षायां उत्तम- तकनीकानाम् अनुभवं करिष्यामः, अस्माकं शिक्षा- व्यवस्थायां नूतनान् विचारान् ज्ञातुं कार्यान्वितुं च अवसरं प्राप्नुमः। अनेन सह राष्ट्रिय- राज्यस्तरस्य च सम्मानं प्राप्तवतां आदरणीयशिक्षकाणां समागम: अपि अस्माकं कृते बहु किमपि ज्ञातुम् अवसरं प्रदास्यति। अस्य अन्ताराष्ट्रीय- एक्सपोजर- भ्रमणस्य कृते संस्कृतशिक्षकत्रयाणां चयनार्थं हिमाचलप्रदेशसर्वकाराय, शिक्षाविभागाय, समग्र- शिक्षा- हिमाचलप्रदेशाय च डॉ. मनोजः कृतज्ञतां प्रकटितवान्। एक्सपोजर भ्रमणार्थं चयनिता: सर्वे शिक्षका: शिमलाया: समग्रशिक्षानिदेशालये आहूताः सन्ति, यत्र २० फरवरी दिनाङ्के शिक्षामन्त्री माननीय: रोहितठाकुरः शिक्षकसमूहं सम्बोधयित्वा आवश्यकनिर्देशान् प्रदाय प्रेषयिष्यति।

हिमाचलराजकीय- संस्कृतशिक्षकपरिषदा सिङ्गापुरस्य अन्ताराष्ट्रीयप्रसङ्गभ्रमणार्थं राज्यस्य त्रयाणां संस्कृतशिक्षकाणां चयने शिक्षाविभागस्य राज्यसर्वकारस्य च कृतज्ञता प्रकटिता, त्रयाणां शिक्षकानां कृते शुभकामना: अपि प्रदत्ता:। परिषदा निवेदितम् यत् आशास्ति भविष्ये एषा संख्या अधिका वर्धते। अस्माकं संस्कृतशिक्षकाः अपि शिक्षाक्षेत्रे जामानान् परिष्कारान्, प्रौद्योगिक्याः उपयोगा:, विविधान् आयामान् च ज्ञात्वा छात्राणां लाभं कर्तुं समर्थाः भविष्यन्ति।

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

TAGGED: Exposure visit, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, Singapore, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Governor : केन्द्रेण सह समन्वयः एव हिमाचले विकासस्य मार्गं उद्घाटयिष्यति – शिवप्रताप शुक्ल:
Next Article India-Qatar पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?