By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Sanskrit News : संस्कृतस्य विरोधः भारतस्य एव विरोधः– डॉ. लालसिंहपठानिया
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > Sanskrit News : संस्कृतस्य विरोधः भारतस्य एव विरोधः– डॉ. लालसिंहपठानिया
संस्कृतगतिविधयःहिमाचलवार्ता

Sanskrit News : संस्कृतस्य विरोधः भारतस्य एव विरोधः– डॉ. लालसिंहपठानिया

डॉ मनोज शैल
Last updated: 2025/02/18 at 10:30 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Sanskrit News: संस्कृतस्य विरोधः भारतस्य एव विरोधः– डॉ. लालसिंहपठानिया

संस्कृतं भारतस्य आत्मा वर्तते। तस्मात् संस्कृतस्य विरोधः भारतस्य एव विरोधः वर्तते इति कथितं डोहगीस्थस्य सनातनधर्म- आदर्श- संस्कृत- महाविद्यालयस्य प्राचार्येण डॉ. लालसिंहपठानियावर्येण। संसदि डीएमकेसांसद- दयानिधिमारनद्वारा प्रदत्तस्य संस्कृतविरोधिवक्तव्यस्य विरोधे हिमसंस्कृतवार्तामाध्यमेन पठानियावर्येण इमे भावाः प्रकटिताः। तस्य मतानुसारं भारतस्य प्रत्येकं भाषायाः प्राणाः वस्तुतः संस्कृतमेव। यद्यपि जनगणनाकाले कोटिशः जनाः प्रत्यक्षतया प्रथमभाषारूपेण संस्कृतं न उल्लिखितवन्तः किन्तु न केवलं भारतीयाः अपि तु विदेशेषु विद्यमानाः प्रवासीभारतीयाः नेपालदेशीयाः इण्डोनेशीयादिदेशानां जनाः अपि दिवसे 25-50% शब्दान् संस्कृतस्य एव तत्सम- तद्भवरूपेण उच्चारणं कुर्वन्ति। अतः अल्पाः जनाः एव संस्कृतभाषाभाषिणः इति दयानिधेः कथनम् असङ्गतमेव। अन्यच्च शतकोट्यधिकहिन्दवस्तु आदिनं पूजाप्रसङ्गे तीर्थदर्शनसन्दर्भे भाषाव्यवहारे च संस्कृतस्यैव अधिकाधिकम् उपयोगं कुर्वन्ति। संस्कृतस्यैव इदं महत्त्वम् अवलोक्य संस्कृतनिबद्धशास्त्राणि अध्येतुं तु नासासदृशवैज्ञानिकसंस्थया अपि अनुसन्धानं कार्यते। पठानियावर्येण सम्मानितस्य जनप्रतिनिधेः मारनमहोदयस्य संस्कृतविरुद्धम् इदं मतं पूर्णतया खण्डयित्वा इदमपि उक्तं यत् जनताद्वारा चिताः प्रतिनिधयः एव यदि परमसम्मानितभाषायाः विषये अनेन प्रकारेण दुर्भावं प्रकटयिष्यन्ति तर्हि निश्चयेन जनता अपि अग्रिमपर्याये एतादृशानां चयनविषये अवधानं करिष्यन्ति इति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Supreme Court – याचिशिक्षकानां त्रिमासाभ्यन्तरे २०१४ तः आर्थिकलाभान् प्रदातुमादेशा:
Next Article State Water Minister Conference 2025 : जलस्तरः निरन्तरं न्यूनः भवति, पर्वतराज्यानां कृते विशेषनीतिः करणीया – मुकेश अग्निहोत्री
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?