International Shivratri Festival : अन्ताराष्ट्रियमहाशिवरात्रि-महोत्सवाय देवपशाकोटः प्रस्थितः
हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:।
लघ्वीकाशी मण्डी। चौहारघाट्याः आराध्यदेवः पशाकोटः द्वौ मासौ पर्यन्तं परिक्रमां कृत्वा अधुना अन्ताराष्ट्रीय-महाशिवरात्रि-महोत्सवस्य निमित्तं लघ्वीकाशी-मण्डी नगरीं प्रति गच्छति। देवः पशाकोटः ६ फरवरी दिनाङ्के मण्डी नगरीं प्राप्स्यति। शुक्रवासरे गलूपंचायतस्य घरोण, छेलणं च गत्वा, शनिवासरे गुम्मायाः खारसा, घटासन्याः लखवाण:, ग्वालनग्रामेषु आयोज्यमानेषु उत्सवेषु भागं ग्रहीष्यति। २०, २१ फरवरी दिनाङ्कयोः पधर-उपमण्डलस्य उरला-क्षेत्रे स्थिते देवालये आगमिष्यति। ततः देवस्य स्यन्दनं अन्ताराष्ट्रीय-महाशिवरात्रि-महोत्सवस्य शोभां वर्धयितुं मण्डी नगरीं गमिष्यति।
देवः पशाकोटः ३१ जनवरी दिनाङ्कात् १३ फरवरी पर्यन्तं जोगिन्द्रनगर-उपमण्डलम् भ्रम्य, जनानाम् सुख-समृद्धये आशीर्वादं दत्त्वा गुरुवासरे (१३ फरवरी) अपराह्ने ३:०० वादने जोगिन्द्रनगरतः प्रस्थितः। हराबागं प्राप्तः, यत्र पुष्पवृष्टिः कृता।
देवतायाः ज्येष्ठ दुमञ्चः शेरसिंहः, प्रकाशः, गुरुः गालु: प्रेमसिंहः च अवदन् यत् द्वौ मासौ पूर्वं मूलस्थलात् पादाभ्यां निर्गत्य देवः परिक्रमां कृत्वा अधुना ४० अधिकग्रामवासिनः आशीर्वादेन अनुगृहीतवान्।
देवतायाः नडः पवनकुमारः, अर्चक: जोगिन्द्रः च अवदन् यत् २०, २१ फरवरी दिनाङ्कयोः उरला-मन्दिरे देवस्य रथस्य नूतनसज्जीकरणं भविष्यति। ततः देवः अन्ताराष्ट्रीय-महाशिवरात्रि-महोत्सवाय लघु-काशी-मण्डी नगरीं प्रति प्रस्थितः भविष्यति।