सूर्यसप्तमिः -अद्वितीयः उपासना मुहुर्तः
वार्ताहर: जगदीशडाभी
ध्येया सदा सवितृ मंडल मध्यवर्ती, नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान मकर कुण्डलवान् किरीटी, हारी हिरण्यमय वपुधृत शंख चक्रः ।।
ॐ मित्राय नमः, ॐरवये नमः, ॐ सूर्याय नमः, ॐ भानवे नमः, ॐखगाय नमः, ॐ पूष्णे नमः, ॐ हिरण्यगर्भाय नमः, ॐमरीचये नमः, ॐ आदित्याय नमः, ॐ सवित्रे नमः, ॐभास्कराय नमः, ॐअर्काय नमः, ॐश्री सवितृसूर्यनारायणाय नमः । आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने, आयुर्प्रज्ञा बलम् वीर्यम तेजस तेषाञ्च जायते। एषः उत्सवः माघमासस्य शुक्लपक्षस्य सप्तम्याः तिथौ आयोजितः। राजकीयःउच्चमाध्यमिकः छापराड़ीग्रामे आचार्यःबी.एल.बधालायाः माध्यमेन सूर्यनमस्कारस्य कार्यक्रमः आयोजितः। अस्मिन् अवसरे छात्रः-छात्राः शिक्षकः – शिक्षिकाश्च त्रयोदशमन्त्रसहितं सूर्यनमस्कारम् कृतवन्तः।
प्राचार्यः प्रारम्भिकशिक्षाधिकारी डॉ. धर्मराजःमहोदयस्य निर्देशानुसारं प्रभारी ओमप्रकाशबुनकरः, नेतरामधाकड़ः, बबलीसिकरवारः, रामलखनसिंहजाटः , मित्राशर्मा, सुनिताशर्मा, रामवतारयादवः, रणजीतसिंहः इत्यादः विद्यालयः परिवारस्य अध्यापकगणोपस्थित आसन्। सूर्यदेवस्य पूजया जीवनस्य ऊर्जायाः, स्वास्थ्यस्य, समृद्धेः आत्मायाः शुद्धया सहितं आध्यात्मिकविकासः भवति।
सूर्यसप्तमिः -अद्वितीयः उपासना मुहुर्तः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
