शिमलायाः प्रितिः जिन्टा चलच्चित्रजगति राज्ञी
प्रीतिः जिन्टा भारतीयचलचित्रजगतः अभिनेत्री अस्ति । सा हिन्दी-तेलुगु-पञ्जाबी-आङ्ग्ल-चलच्चित्रेषु कार्यं कृतवती । तस्याः जन्म ३१ जनवरी १९७५ तमे दिनांके हिमाचलप्रदेशस्य शिमलायाम् अभवत्।
तस्याः पिता दुर्गानन्दः जिन्टा भारतीयसेनायाः अधिकारी आसीत् । तस्याः मातुः नाम नीलप्रभा इति अस्ति या गृहिणी वर्तते । यदा सा केवलं १३ वर्षीया आसीत् तदा तस्याः पिता कारदुर्घटनायां मृतः , यद्यपि तस्याः माता नीलप्रभा गम्भीररूपेण व्रणिता जाता, येन सा वर्षद्वयं यावत् शयने एव स्थिता । एषा दुर्घटना प्रीत्याः जीवनं परिवर्तितवती। इदानीं सम्पूर्णस्य गृहस्य उत्तरदायित्वं तस्याः स्कन्धे एव आसीत् । तस्य द्वौ भ्रातरौ दीपङ्करः मनीषश्च, एकः अग्रजः, एकः कनिष्ठः च । दीपङ्करः भारतीयसेनायाः अधिकारी अस्ति, मनीषः कैलिफोर्निया-देशे निवसति ।
अध्ययनम्
प्रीति जिन्टा शिमला नगरस्य कान्वेण्ट् आफ् जेसस् एण्ड् मैरी बोर्डिंग् स्कूल् इत्यस्मात् प्रारम्भिकं विद्यालयं कृतवती । यद्यपि आवासीयविद्यालये सा एकान्तवासं अनुभवति स्म तथापि तत्र “…केचन् वास्तविकरूपेण मित्राणि” अपि आसन्। प्रीतिः अतीवाशाजनका छात्रा आसीत्, तया साहित्यपठनं बहु रोचते स्म । विरक्तसमये सा बास्केटबॉल इत्यादीनां क्रीडां क्रीडति स्म । विद्यालयस्य अध्ययनं सम्पन्नं कृत्वा प्रीतिः सेण्ट् बेडे महाविद्यालयात् आङ्ग्लसम्मानविषये स्नातकपदवीं प्राप्तवती, मनोविज्ञाने स्नातकोत्तरपदवीं च प्राप्तवती ।
कार्यक्षेत्रम्
मनोविज्ञानस्य उपाधिं प्राप्त्वा जिन्टा १९९८ तमे वर्षे दिल से… इत्यनेन सह चलच्चित्रेण चलच्चित्रजगति पदार्पणं कृतवती, तस्मिन् एव वर्षे सोल्जर इति चलच्चित्रे पुनः अदृश्यत । पश्चात् क्या केहना इति चलच्चित्रे एकमातुः भूमिकायाः कृते सा बहु प्रशंसाम् अवाप्तवती । पश्चात् सा विभिन्नप्रकारस्य भूमिकां निर्वाहितवती, तथा च तस्याः अभिनयः भूमिका च हिन्दीचलच्चित्रनटानां कृते नूतनविचारं जनयति ।
जिन्टा २००३ तमे वर्षे कल हो ना हो इति चलच्चित्रे अभिनयस्य कृते फिल्मफेर् सर्वोत्तमाभिनेत्रीपुरस्कारेण पुरस्कृता । सा भारतीयचलच्चित्रेषु सर्वाधिकं अर्जनं प्राप्तवती, विज्ञानकथाचलच्चित्रे कोइ… मिल गया (२००३) तथा रोमान्स् वीर-जारा (२००४) इति चलच्चित्रे अभिनयम् अकरोत्, यस्य कृते सः समीक्षकाणां प्रशंसाम् अवाप्तवती। सा सलाम नमस्ते, कभी अल्विदा ना कहना इत्यादिषु चलच्चित्रेषु आधुनिकभारतीयमहिलायाः चित्रणं कृतवती, ये अन्तर्राष्ट्रीयविपण्याम् उच्चार्जनशीलाः चलच्चित्राः आसन् । तस्याः प्रथमा अन्तर्राष्ट्रीयभूमिका कनाडादेशस्य हेवेन् ऑन अर्थ् इति चलच्चित्रे आसीत्, यस्य कृते २००८ तमे वर्षे शिकागो-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे सर्वोत्तम-अभिनेत्रीरूपेण रजत-ह्युगो-पुरस्कारेण पुरस्कृता।
चलच्चित्रेषु अभिनयातिरिक्तं जिन्टा बीबीसी न्यूज ऑनलाइन इत्यस्य कृते अनेकान् लेखान् लिखितवती। सा सामाजिककार्यकर्ता, दूरदर्शनस्य आयोजिकः, नियमितरूपेण मञ्चप्रदर्शिका च अस्ति। सा PZNZ India Production इत्यस्याः कम्पन्याः संस्थापिका अपि अस्ति, यस्याः सहस्थापनं सा स्वस्य पूर्वसहभागिना नेस् वाडिया इत्यनया सह कृतवती, तथा च उभौ भारतीयप्रीमियरलीगस्य क्रिकेट्-दलस्य किङ्ग्स् एकादशपञ्जाबस्य अपि स्वामिन्यौ स्तः।