लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ
राष्ट्रपति द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीप-धनखडश्च च लोहडीपर्वणः पूर्वसंध्यायां देशवासिनाम् अभिवादनं कृतवन्तौ। मंगलवासरे आयोजिष्यमाणानां मकरसंक्रान्तिः, पोङ्गलः, माघबिहुत्सवानाञ्च कृते अपि सः शुभकामनाम् अयच्छत् । राष्ट्रपतिद्रौपदी मुर्मूः स्वसन्देशे उक्तवती यत् एते उत्सवाः देशस्य समृद्धसांस्कृतिकविरासतां प्रतीकाः सन्ति, सर्वेषां जीवने उत्साहं सुखं च आनयन्ति। देशस्य विभिन्नेषु प्रदेशेषु विविधरूपेण एतेषां उत्सवानां उत्सवः प्रकृत्या सह देशस्य सामञ्जस्यपूर्णसम्बन्धस्य प्रदर्शने तेषां भूमिकां रेखांकयति इति सा अवदत्। एतेषु उत्सवेषु जनाः पवित्रनदीषु स्नानं कुर्वन्ति, दानं च कुर्वन्ति इत्यपि राष्ट्रपतिना उल्लेखः कृतः ।
राष्ट्रपतिः देशाय भोजनं प्रदातुं अथकं परिश्रमं कुर्वन्तः कर्मठकृषकाणां प्रति आभारं प्रकटितवती तथा च एते उत्सवाः सस्यैः सह अपि सम्बद्धाः इति प्रकाशितवती। एते उत्सवाः सर्वेषां जीवने सुखं समृद्धिं च आनयिष्यन्ति तथा च जनाः अधिकतया उत्साहेन मिलित्वा देशं विकसितराष्ट्रं करिष्यन्ति इति आशां प्रकटितवती। हिमसंस्कृतवार्ताः पक्षतो अपि देशवासिभ्यः शुभकामनाः।
लोहड़ीपर्वणः पूर्वसन्ध्यायां राष्ट्रपतिः उपराष्ट्रपतिश्च देशवासिनाम् अभिवादनं कृतवन्तौ
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment