By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानमन्त्रिणा ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रधानमन्त्रिणा ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्
राष्ट्रीयवार्ताःदिवसविशेषः

प्रधानमन्त्रिणा ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्

डॉ.अमनदीप शर्मा
Last updated: 2025/01/05 at 7:35 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

प्रधानमन्त्रिणा ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ग्रामीणविकासस्य अवसरस्य च जीवन्तकेन्द्रेषु परिवर्त्य ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्। प्रधानमन्त्रिणा कथितं यत् चतुर्दशाधिक-द्विसहस्रतम-वर्षाद् आरभ्य प्रशासनं निरन्तरं ग्रामीणभारतस्य सेवां कुर्वन् अस्ति, ग्रामवासिनां कृते गौरवपूर्ण जीवनं प्रदातुं प्राधान्यम् अददात् । एतद् वक्तव्यं प्रधानमन्त्री नवदिल्ल्याः भारतमण्डपे जनवरीमासस्य चतुर्दिनाङ्कादारभ्य नवदिनाङ्क-पर्यन्तम् आयोजितस्य ग्रामीणभारत-महोत्सवस्य उद्घाटनानन्तरं जनसमूहं सम्बोधयन् प्रदत्तवान्। अस्य महोत्सवस्य विषयः ‘सप्तचत्वारिंशदधिक-द्विसहस्रतमवर्षाय विकसितभारताय स्थितिस्थापक-ग्रामीणभारतस्य निर्माणम्’। प्रधानमन्त्री अवदत् यत्, तस्य प्रशासनस्य प्रयोजनानि, नीतयः, निर्णयाः च ग्रामीणभारतं नवशक्त्या पूरयन्ति। प्रधानमन्त्रिणा उद्घोषितं यत् केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री-फसल्-बीमा-योजना’ एकवर्षं यावत् अनुवर्तिता, सहैव असौ संसूचितवान् यत् ‘प्रधानमन्त्री-किसान्-सम्मान्-निधिः’ ग्रामीणसमाजान् स्वावलम्बीकरोति। सः अवदत् यत्, अद्यावधि अस्याः योजनायाः अन्तर्गतं कृषकाणां कृते त्रिलक्ष-कोटिरूप्यकाणां आर्थिकसाहाय्यं प्रदत्तम्। श्रीमोदिना उक्तं यत् स्वच्छभारताभियानम्, प्रधानमन्त्री-आवास- योजना, जलजीवन-अभियानम् त्यिादीनि समेत्य प्रशासनस्य प्रयत्नाः ग्रामीणक्षेत्राणां लाभाय विकासाय च उद्दिष्टानि सन्ति। सः अवोचत् यत् स्वच्छं पेयजलं लक्षेषु ग्रामेषु प्रत्येकगृहेषु प्राप्यते। अद्यत्वे पञ्चदशांशोत्तर-एकलक्षाधिकैः आयुष्मान्-आरोग्य-मन्दिरैः जनाः उत्तम-स्वास्थ्य-सेवाः प्राप्ताः सन्ति। प्रधानमन्त्री उक्तवान् यत् अस्य वर्षस्य आरम्भे, ग्रामीणभारत-महोत्सवस्य अयं भव्यः कार्यक्रमः भारतस्य विकासयात्रां निर्दिशति। सः एतदपि कथितवान् यत् एतत् देशस्य नूतनं परिचयं कल्पयति। सः अस्य आयोजनस्य कृते नाबार्ड इत्यस्मै अथ अन्यसहकर्मिभ्यः अपि शुभकामनां प्रदत्तवान्। अस्मिन् अवसरे, प्रधानमन्त्रिणा महोत्सवे शिल्पकारैः सह संवादः कृतः। अस्य महोत्सवस्य उद्देश्यं ग्रामीणसंरचनायाः वर्धनम्, स्वावलम्बी-अर्थव्यवस्थायाः निर्माणम्, ग्रामीणसमुदायेषु नवान्वेषणस्य पोषणं च अस्ति। अस्मिन् कार्यक्रमे केन्द्रीय-वित्त-मन्त्री निर्मला सीतारामन्, राज्य-वित्त-मन्त्री पङ्कज चौधरी च उपस्थितौ आस्ताम्।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

शिक्षा-मन्त्रिणा धर्मेंद्र-प्रधानेन ‘टीचर ऐप 2.0’ इत्यस्य शुभारम्भः कृतः

गृह-मन्त्रालयेन नूतना राष्ट्रियातङ्कवाद-विरोधी नीतिः ‘प्रहार’ इति अनावरिता

गुयाना-देशस्य उपराष्ट्रमन्त्रिणा भरत-जगदेवेन उपराष्ट्रमन्त्रिणा सी.पी. राधाकृष्णन् महोदयेन सह मेलनं कृतम्

TAGGED: ग्रामीण भारत, प्रधानमन्त्रि
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article सिख फॉर जस्टिस इत्यस्योपरि प्रतिबन्धः पञ्चवर्षपर्यन्तं विस्तारितः
Next Article वाइल्डफ्लावरहॉलहोटेल इत्यस्य अधिकारः उच्चन्यायालयस्य निर्णयेन हिमाचलसर्वकाराय प्राप्यते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?