By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP NEWS : हिमाचलस्य द्वयो: पंचायतयो: राष्ट्रीयपुरस्कार:, राष्ट्रपति: ११ दिसम्बरदिनांके पुरस्कारं प्रदास्यति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP NEWS : हिमाचलस्य द्वयो: पंचायतयो: राष्ट्रीयपुरस्कार:, राष्ट्रपति: ११ दिसम्बरदिनांके पुरस्कारं प्रदास्यति
हिमाचलवार्ता

HP NEWS : हिमाचलस्य द्वयो: पंचायतयो: राष्ट्रीयपुरस्कार:, राष्ट्रपति: ११ दिसम्बरदिनांके पुरस्कारं प्रदास्यति

डॉ मनोज शैल
Last updated: 2024/12/08 at 9:01 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

HP NEWS : हिमाचलस्य द्वयो: पंचायतयो: राष्ट्रीयपुरस्कार:, राष्ट्रपति: ११ दिसम्बरदिनांके पुरस्कारं प्रदास्यति

हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशस्य द्वाभ्यां ग्रामपंचायताभ्यां त्रिभ्य: राष्ट्रीयपंचायतपुरस्कारेभ्य: सम्मानितं करिष्यते। द्वाभ्यां ग्रामपंचायताभ्यां दीनदयाल-उपाध्याय पंचायतसततविकासपुरस्कार-२०२४ एवं एकस्मै नानाजीदेशमुखसर्वोत्तम-पंचायत सततविकासपुरस्कार-२०२४ हेतवे चयनं कृतमस्ति। एते पुरस्काराः ११ दिसम्बर दिनाङ्के नवीदिल्लीनगरे आयोजिते राष्ट्रियग्रामपञ्चायतपुरस्कारप्रदानकार्यक्रमे प्रदत्ताः भविष्यन्ति। दीनदयालउपाध्याय- पंचायतसतत- विकासपुरस्काराय हमीरपुरजनपदस्य बमसनखणड सिकांदर ग्रामपंचायतस्य एवं शिमलाजनपदस्य नारकांडाखण्डस्य थानाधार ग्रामपंचायतस्य चयनं जातमस्ति । सिकांदर ग्रामपंचायताय जलपर्याप्तपंचायतस्य वर्गे, थानाधार पंचायताय सामाजिकरूपेण न्यायपूर्णस्य एवं सुरक्षितपंचायतस्य वर्गे राष्ट्रीयपुरस्कार: प्रदास्यते। अस्मिन् अवसरे पंचायतेभ्य: ७५ लक्षरूप्यकाणां पुरस्कारधनं दीयते।

१५ राज्यानां पंचायतेभ्य: राष्ट्रीयपुरस्कार:

अस्मिन् वर्षे कुलम् ४५ राष्ट्रियपुरस्काराणां कृते १५ राज्यानां ग्रामपञ्चायतानां चयनं कृतम् अस्ति । एतेषु ओडिशा-त्रिपुरा-प्रदेशयोः अधिकतमं सप्त-सप्त पुरस्कारा: प्रदास्यन्ते, महाराष्ट्रस्य कृते षट्, आन्ध्रप्रदेशाय चत्वार: पुरस्काराः प्रदास्यन्ते । तदनन्तरं हिमाचलप्रदेशः बिहारः च अग्रे सन्ति, यत्र तेभ्य: त्रय: राष्ट्रियपुरस्काराः प्रदास्यन्ते।

नानाजीदेशमुखसर्वोत्तमपुरस्कार: थानाधारपंचायताय

शिमलाया: थानाधार ग्रामपंचायताय नानाजीदेशमुख-सर्वश्रेष्ठपंचायतसतत- विकासपुरस्कार-२०२४ इत्यस्य अंतर्गतं सर्वश्रेष्ठग्रामपंचायतस्य वर्गे चयनं जातमस्ति। एष: पुरस्कार: थानाधारपंचायताय उत्कृष्टकार्याय, समाजस्य विभिन्नवर्गेभ्य: नीतीनां कृते सततविकासे योगदानाय च प्रदास्यते ।

राष्ट्रीयपुरस्कारै: हिमाचलस्य पंचायतानां गौरवं वर्धयिष्यते

हिमाचलपंचायतीराजविभागस्य निदेशक: राघव: शर्मा अवदत् अयं पुरस्कार: हिमाचलप्रदेशस्य ग्रामपंचायतेभ्य: गौरवास्पदं वर्तते। एतत् एतेषां पंचायतानां सामूहिकप्रयत्नस्य जनहिताय कृतस्य कार्यस्य च परिणामः अस्ति तथा च अन्येषां पंचायतानां कृते अपि प्रेरणास्रोतः भविष्यति। राज्यस्य एतेषां ग्रामपञ्चायतानां प्रतिनिधिभिः ११ दिसम्बर दिनाङ्के नवीदिल्लीनगरे आयोजिते पुरस्कारवितरणसमारोहे पुरस्काराः प्राप्ताः भविष्यन्ति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, HP panchayati Raj department, दिव्य हिमाचल समाचार, पंचायती राज मन्त्री हिमाचल, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल पंचायत, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPBOSE Dharamshala : अपूर्णोत्तराणां कृते अपि अंकाः प्रदत्ताः भविष्यन्ति, शिक्षामण्डलं नूतनां व्यवस्थाम् आरभेत्
Next Article Himachal Weather : शिमला- कुफरी- चूड़धार- किलाड़म् इत्यत्र च ऋतो: प्रथमः हिमपातः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?