नाइजीरिया-ब्राजील गुयाना देशानां पञ्च-दिवसीय यात्रायै नाइजीरिया प्राप्तवान् भारतस्य प्रधानमन्त्री
नाइजीरिया-ब्राजील गुयाना देशानां पञ्च-दिवसीय यात्रायै प्रस्थितः प्रधानमन्त्री मोदी नाइजीरिया प्राप्तवान् । स्वीये प्रस्थान वक्तव्ये प्रधानमन्त्रिणा भणितं यत् पश्चिमी अफ्रीकी-क्षेत्रे नाइजीरिया देशे तस्य इयं प्रथमा यात्रा विद्यते। श्रीमोदिना प्रोक्तं यत् तस्य यात्रेयं सामरिक- सहयोगस्य नूतन-अवसरः प्रस्तोष्यति, या लोकतन्त्र बहुलवादे च पारस्परिक विश्वासे आधारिता भविष्यति। श्री मोदी नवदशतमीये जी-विंशति, उपवेशने ट्राइका-सदस्य रूपेण भागं निर्वक्ष्यति। तनोदीरितं यत् गतवर्षे भारतदेशस्य जी-विंशति सम्मेलनस्य सफल-अध्यक्षतायां जी-विंशति सम्मेलने सम्मिलितानां देशानां जी-विंशति-समूहः विनिर्मितः। वर्षेऽस्मिन् ब्राजील- देशेन जी-विंशति-समूहस्य अध्यक्षता सन्धारिता। तेन आशाभिव्यक्ता यत् एका पृथ्वी-एकः परिवारः, एकः भविष्यः एतादृशस्य दृष्टिकोणस्य अनुरूपम् अर्थपूर्णा चर्चा भविष्यति। श्री मोदिना सूचितं यत् गुयानायाः राष्ट्रपतिनः मोहम्मद इरफानस्य निमन्त्रणे तस्य यात्रायाः पञ्चाशत् वर्षेषु कस्यापि भारतीय प्रधानमन्त्रिणः देशस्यास्य प्रथमा यात्रा भविता। उपवेशनकाले उभौ नेतारौ पारस्परिक रिक्थ, संस्कृति-मूल्याधारित-अद्वितीय-सम्बन्धान् सामरिक-दिशा-प्रदानार्थं विचाराणां आदान-प्रदानं करिष्यतः।
नाइजीरिया-ब्राजील गुयाना देशानां पञ्च-दिवसीय यात्रायै नाइजीरिया प्राप्तवान् भारतस्य प्रधानमन्त्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment