राज्यस्तरीय संस्कृतसामान्यज्ञानप्रतियोगितायां आदित्यतिवारी प्रथम:
उत्तरप्रदेश–संस्कृतसंस्थानलखनऊ–द्वारा आयोजितायां राज्यस्तरीयसंस्कृतसामान्यज्ञानप्रतियोगितायां श्रीरामजानकीमहाविद्यालयस्य गौरियापुरस्य उत्तममध्यमाकक्षायाः छात्र: आदित्यतिवारी राज्यस्तरे प्रथमं स्थानं प्राप्तवान्। आदित्यतिवारी क्रमशः जनपदस्तरे मंडलस्तरे च विजयी भूत्वा राज्ये प्रथमस्थानं प्राप्तवान्। संस्कृतप्रतियोगितेयं उत्तरप्रदेशस्य संस्कृतसंस्थानपरिसरे लखनऊनगरे समायोजिता आसीत् । यत्र सम्पूर्णराज्यात् मण्डलस्तरे विजयीभूताः प्रायः ५० संस्कृतछात्राः भागं गृहीतवन्तः । यस्मिन् सुयोग्यनिर्णायकमण्डलेन आदित्यतिवारी प्रथमविजेता घोषित:।
आदित्यतिवारी इत्यस्मै प्रथमपुरस्काररूपेण ११००० रुप्यकाणि, प्रशस्तिपत्रं, स्मृतिचिह्नञ्च प्रदत्तमस्ति।
राज्यस्तरीय संस्कृतसामान्यज्ञानप्रतियोगितायां आदित्यतिवारी प्रथम:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
