संस्कृतविद्यास्थानानि-२४ :- सामवेदस्य ब्राह्मणानि
सामविधानब्राह्मणम् –सामविधानब्राह्मणे त्रय: प्रपाठका: तेषु पञ्चविंशति: अनुवाका: वर्तन्ते। ताण्ड्यषड्विंशब्राह्मणयो: श्रौतयागा: मुख्यविषय:। तथापि अस्मिन्ब्राह्मणे अभिचारकर्मणाम् ऐन्द्रजालिकविषयाणां वा प्राबल्यं लक्ष्यते। असामाजिककर्मणां सामाजिकम् अध्ययनम् अत्र दृग्गोचरीभवति।
जप: तप: स्वाध्याय: एतेषां महत्त्वं श्रौतयागै: समानमेव वर्णितम् अस्ति। येषां सम्पादनाय अन्यत्र बहुधनस्य व्यय: तथा च दीर्घकालिकयागा: अपेक्ष्यन्ते तेषां लौकिककामनानां प्राप्त्यर्थम् केवलं सामगायनमेव पर्याप्तम् अस्तीति अस्य ब्राह्मणस्य मतम्। जप: स्वाध्यायश्च यज्ञौ एव मत्वा तयो: यत् विकसितं रूपम् आरण्यकोपनिषत्सु दर्शितम् अस्ति तस्य मूलं सामविधानब्राह्मणमेव।
श्रौत-तान्त्रिकविधीनां समन्वय: अत्र दृश्यते। शत्रुनाशाय शत्रो: शिरोच्छेद: मूर्तिदाह: वा एतयो: विधानं कृतम् अस्ति। काम्ययागानां प्रयोग: प्रायश्चित्तकर्माणि अत्र विशेषतया निरूपितानि। पापप्रायश्चित्तकर्मणां विशेषनिरूपणात् एतत् ब्राह्मणं धर्मसूत्राणां पूर्वपीठिका अस्ति।
आर्षेयब्राह्मणम् –एतत् सामवेदसम्बद्वं चतुर्थं ब्राह्मणम्। आर्षेयब्राह्मणे ३ प्रपाठका: तथा च तेषु ८२ खण्डा: सन्ति। अन्यानि ब्राह्मणानि कर्मकाण्डसम्बद्धानि तथापि एतत् ब्राह्मणं सामवेदस्य अनुक्रमणी एव। साम्नां विविधानि नामान्तराणि तथा तेषां द्रष्टार: ऋषय: एतेषां सम्बधस्य कथनम् अत्र मुख्यविषय: अत: एतस्य आर्षेयब्राह्मणम् इति अभिधानम्। साम्नाम् ऋषय: तेषां गोत्राणि एतेषां विशदवर्णनात् एतत् ब्राह्मणम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णम्। एतस्य रचना सूत्रशैल्या कृता अस्ति।
साम्नां ऋषिगोत्रादीनां ज्ञानं यशसे स्वर्गाय च भवतीति अत्र उक्तम्–ऋषीणां नामधेयगोत्रोपधारणं स्वर्ग्यं यशस्यं धन्यं पुण्यं पूर्त्यं प्रशस्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यम्।
सामगायनप्रकारेषु ग्रामगेयम् अरण्यगेयं च इत्येतयो: द्वयोरेव विवेचनम् अत्र अस्ति। ऊहगानम् ऊह्यगानं एतयो: विचार: न कृत:।
सामगानस्य पञ्च विभक्तय: अत्र निर्दिष्टा: –प्रस्ताव: उद्गीथ: प्रतिहार: उपद्रव: निधनं च।
१) प्रस्ताव: – सामगानस्य प्रारम्भिक: प्रस्तावनात्मक: भाग:। एतस्य प्रारम्भे हुँ इति अक्षरम् उच्चार्यते। एतस्य गायनं होतृनामक: पुरोहित: करोति।
२) उद्गीथ:–एष: सामगानस्य मध्यवर्ती भाग:। उद्गाता एतस्य गायनं करोति। तस्य प्रारम्भ: ओम् इत्येतेन अक्षरेण भवति।
३) प्रतिहारस्य गायनं प्रतिहर्ता करोति।
४) उपद्रवस्य गायनं पुन: उद्गाता एव करोति।
५) निधनम् इति सामगानस्य अन्तिमभाग:। एतस्य गायनं होता, उद्गाता, प्रतिहर्ता एते त्रय: अपि कुर्वन्ति।
सामगीतानां नामकरणस्य पञ्च आधारा: सन्ति। तदनुसारं तेषां पञ्चधा विभाजनं कर्तुं शक्यम्।
१) येन ऋषिणां नाम्नाम् आधारेण यथा–सैन्धुक्षितम् औशनम्।
२) ऋच: प्रारम्भिकपदाधारेण – विशोविशीयम्,यज्ञायज्ञीयम्।
३) निधनाधारेण (सामगानस्य अन्त्यभागस्य आधारेण)–सुतं रयिष्ठीयम्, दावसुनिधनम्।
४) प्रयोजनमूलकं यथा–संवर्गम्, रक्षोघ्नम्।
५) एतेषु चतुर्षु यानि गानानि न समाविष्टानि यथा– वीङ्कम्।
तोडकर अभिजित
abhitdkr9@gmail.com