By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतविद्यास्थानानि-२४ :- सामवेदस्य ब्राह्मणानि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > लेखकाः पत्रकाराश्च > संस्कृतविद्यास्थानानि-२४ :- सामवेदस्य ब्राह्मणानि
लेखकाः पत्रकाराश्च

संस्कृतविद्यास्थानानि-२४ :- सामवेदस्य ब्राह्मणानि

डॉ.अमनदीप शर्मा
Last updated: 2024/10/29 at 7:44 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

संस्कृतविद्यास्थानानि-२४ :- सामवेदस्य ब्राह्मणानि

सामविधानब्राह्मणम् –सामविधानब्राह्मणे त्रय: प्रपाठका: तेषु पञ्चविंशति: अनुवाका: वर्तन्ते। ताण्ड्यषड्विंशब्राह्मणयो: श्रौतयागा: मुख्यविषय:। तथापि अस्मिन्ब्राह्मणे अभिचारकर्मणाम् ऐन्द्रजालिकविषयाणां वा प्राबल्यं लक्ष्यते। असामाजिककर्मणां सामाजिकम् अध्ययनम् अत्र दृग्गोचरीभवति।

जप: तप: स्वाध्याय: एतेषां महत्त्वं श्रौतयागै: समानमेव वर्णितम् अस्ति। येषां सम्पादनाय अन्यत्र बहुधनस्य व्यय: तथा च दीर्घकालिकयागा: अपेक्ष्यन्ते तेषां लौकिककामनानां प्राप्त्यर्थम् केवलं सामगायनमेव पर्याप्तम् अस्तीति अस्य ब्राह्मणस्य मतम्। जप: स्वाध्यायश्च यज्ञौ एव मत्वा तयो: यत् विकसितं रूपम् आरण्यकोपनिषत्सु दर्शितम् अस्ति तस्य मूलं सामविधानब्राह्मणमेव।

श्रौत-तान्त्रिकविधीनां समन्वय: अत्र दृश्यते। शत्रुनाशाय शत्रो: शिरोच्छेद: मूर्तिदाह: वा एतयो: विधानं कृतम् अस्ति। काम्ययागानां प्रयोग: प्रायश्चित्तकर्माणि अत्र विशेषतया निरूपितानि। पापप्रायश्चित्तकर्मणां विशेषनिरूपणात् एतत् ब्राह्मणं धर्मसूत्राणां पूर्वपीठिका अस्ति।

आर्षेयब्राह्मणम् –एतत् सामवेदसम्बद्वं चतुर्थं ब्राह्मणम्। आर्षेयब्राह्मणे ३ प्रपाठका: तथा च तेषु ८२ खण्डा: सन्ति। अन्यानि ब्राह्मणानि कर्मकाण्डसम्बद्धानि तथापि एतत् ब्राह्मणं सामवेदस्य अनुक्रमणी एव। साम्नां विविधानि नामान्तराणि तथा तेषां द्रष्टार: ऋषय: एतेषां सम्बधस्य कथनम् अत्र मुख्यविषय: अत: एतस्य आर्षेयब्राह्मणम् इति अभिधानम्। साम्नाम् ऋषय: तेषां गोत्राणि एतेषां विशदवर्णनात् एतत् ब्राह्मणम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णम्। एतस्य रचना सूत्रशैल्या कृता अस्ति।

साम्नां ऋषिगोत्रादीनां ज्ञानं यशसे स्वर्गाय च भवतीति अत्र उक्तम्–ऋषीणां नामधेयगोत्रोपधारणं स्वर्ग्यं यशस्यं धन्यं पुण्यं पूर्त्यं प्रशस्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यम्।

सामगायनप्रकारेषु ग्रामगेयम् अरण्यगेयं च इत्येतयो: द्वयोरेव विवेचनम् अत्र अस्ति। ऊहगानम् ऊह्यगानं एतयो: विचार: न कृत:।
सामगानस्य पञ्च विभक्तय: अत्र निर्दिष्टा: –प्रस्ताव: उद्गीथ: प्रतिहार: उपद्रव: निधनं च।
१) प्रस्ताव: – सामगानस्य प्रारम्भिक: प्रस्तावनात्मक: भाग:। एतस्य प्रारम्भे हुँ इति अक्षरम् उच्चार्यते। एतस्य गायनं होतृनामक: पुरोहित: करोति।
२) उद्गीथ:–एष: सामगानस्य मध्यवर्ती भाग:। उद्गाता एतस्य गायनं करोति। तस्य प्रारम्भ: ओम् इत्येतेन अक्षरेण भवति।
३) प्रतिहारस्य गायनं प्रतिहर्ता करोति।
४) उपद्रवस्य गायनं पुन: उद्गाता एव करोति।
५) निधनम् इति सामगानस्य अन्तिमभाग:। एतस्य गायनं होता, उद्गाता, प्रतिहर्ता एते त्रय: अपि कुर्वन्ति।

सामगीतानां नामकरणस्य पञ्च आधारा: सन्ति। तदनुसारं तेषां पञ्चधा विभाजनं कर्तुं शक्यम्।

१) येन ऋषिणां नाम्नाम् आधारेण यथा–सैन्धुक्षितम् औशनम्।
२) ऋच: प्रारम्भिकपदाधारेण – विशोविशीयम्,यज्ञायज्ञीयम्।
३) निधनाधारेण (सामगानस्य अन्त्यभागस्य आधारेण)–सुतं रयिष्ठीयम्, दावसुनिधनम्।
४) प्रयोजनमूलकं यथा–संवर्गम्, रक्षोघ्नम्।
५) एतेषु चतुर्षु यानि गानानि न समाविष्टानि यथा– वीङ्कम्।

तोडकर अभिजित
abhitdkr9@gmail.com

You Might Also Like

हिमसंस्कृतम् न्यास द्वारा हिन्दी दिवसस्य समायोजनम्

योगविषये किञ्चिच्चिन्तनम्-नारदोपाध्यायः

अद्यतनं कलहान्वितं विश्वम् -नारदोपाध्यायः

“प्रेम्णः मधुरता-डॉ. वर्षा प्रकाश टोणगांवकर

।।भारतदेशे संस्कृतभाषायाः महत्त्वम्।।

TAGGED: rigved, samved, Veda, सामवेद
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article पहाड़ीगल्लां- कुड़िया रा ब्याह
Next Article राज्यस्तरीय संस्कृतसामान्यज्ञानप्रतियोगितायां आदित्यतिवारी प्रथम:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?