51st AIOC UDUPI : संस्कृतस्य युवाविदुषीणां कृते कल्याणीपण्डितपरिषद: आयोजनम्
हिमसंस्कृतवार्ता: – उडुपि।
अखिलभारतीयप्राच्यविद्यासम्मेलने उडुप्यां संस्कृतस्य युवाबालिकाविदुषीणां कृते विशिष्टाया: कल्याणीयुवापण्डितापरिषदः आयोजनम् विहितम्। परिषदि नव- वक्तृभि: विभिन्नशास्त्रेषु – व्याकरणम्, साहित्यम्, वेदाङ्गम्, न्याय-वेदान्तादि विषयेषु स्ववाक्यार्था: प्रस्तुता:।
सत्रस्य अध्यक्षता SVYASA विश्वविद्यालयस्य कुलपति: प्रो रामचन्द्रभट्ट: अकरोत्, प्रो कोराडा सुब्रमण्यम, आईआईटी हैदराबाद:, डॉ.नंदापुरी, डॉ. वनिता रामस्वामी आदय: विशिष्टत्वेन उपस्थिता अभवन्।
वक्तृषु सिमरनठाकुर, केकेएसयू रामटेक:- कर्मवत् कर्मणा तुल्याक्रिया:,
श्वेता नन्दिनी- वेद: वेदाङ्गा च,
शिरोद-लक्षणलक्ष्य-विचारः,
वनजा – धात्वर्थभावना-विचारः
पल्लवी- अभेदः सम्बन्धो न
चैत्र – इदूदेद् द्विवचनं प्रग्रुह्यम्
समान-निर्दिश्यामाना-परिभाषा,
राधा देशकर- ध्वन्यालोक भक्तवादः
मनोजना- द्वितीयेयमिथ्यत्व-लक्षणम् आदिषु विषयेषु स्ववाक्यार्था: प्रकटिता:।
डॉ पराग: जोशी व डॉ शंभुनाथ भट्ट: कल्याणीपण्डितपरिषद: सफलतापूर्वकं संचालनं अकुरुताम्।
डॉ शिवकुमारकटुरी इत्यनेन कार्यक्रमस्य सारांश: तुलना वा कृता।