Paraglider Pilots : पायलट उड्डयनानन्तरं पथभ्रष्टा: पैराग्लाइडरचालका:, ततः फौजलपर्वतात् उद्धारिता:
हिमसंस्कृतवार्ता: – कुल्लू:।
कुल्लू मण्डलस्य मनाली विधानसभाक्षेत्रस्य फौजलस्य पर्वतपर्वतेषु पथभ्रष्टा: त्रयः विदेशीयाः पर्यटकाः कुल्लुप्रशासनेन सुरक्षितरूपेण उद्धारिताः। सर्वे पर्यटकाः हेलिकॉप्टरद्वारा उद्धारिताः भून्तरविमानस्थानके अवतारिता: च। यतः ते एम्बुलेन्सद्वारा ढालपुरक्षेत्रीयचिकित्सालये आनीता:। अधुना तेषां स्वास्थ्यपरीक्षा अपि वैद्येन कृता। विदेशीयपर्यटकैः सह कुल्लुप्रशासनस्य अधिकारिणः अपि उपस्थिताः आसन्। प्राप्तसूचनानुसारम् एते त्रयः विदेशीयाः पर्यटकाः यूके, न्यूजीलैण्ड, आस्ट्रेलियादेशेभ्यः सन्ति। त्रयः अपि पर्यटकाः बीड़बिलिंग-उपत्यकात: पैराग्लाइड-यानार्थं उड्डीयन्ते स्म। परन्तु उड्डयनानन्तरं त्रयः अपि मार्गं त्यक्त्वा कुल्लूमण्डलस्य फौजल-क्षेत्रस्य हिमपर्वतेषु निरुद्धा: अभवन्। अस्मिन् विषये ते अन्यैः सहकारिभिः सह सम्पर्कं कृत्वा कल्लूप्रशासनं सूचितवन्त: यत् ते फौजलपर्वतेषु निरुद्धा इति। सूचनां प्राप्य कुल्लुप्रशासनेन हेलिकॉप्टरस्य व्यवस्था कृता, हेलिकॉप्टरद्वारा च त्रयः अपि विदेशीयाः पर्यटकाः फौजलस्य पर्वतात् सुरक्षितरूपेण उद्धारिताः। एसडीएम कुल्लू विकासशुक्ल: इत्यनेन उक्तं यत् यथा एव सूचना प्राप्ता यत् ते त्रयः विदेशीयाः पर्वताः उपरि निरुद्धा:। अतः प्रशासनेन तत्कालं प्रभावेण कार्यं आरब्धम्। अधुना त्रयः अपि पर्यटकाः सुरक्षितरूपेण उद्धारिताः, ते चिकित्सायाः कृते ढालपुर- चिकित्सालये प्रेषिताः। यत्र त्रयाणां पर्यटकानां स्थितिः बहु श्रेष्ठा अस्ति।