HPRCA Hamirpur: हिमाचल प्रदेशराज्य- चयनायोगेन पदकूटसंख्या ९३९ इत्यस्य परिणाम: घोषित:
हिमसंस्कृतवार्ता: – हमीरपुरम्।
हिमाचलप्रदेश- राज्यचयनायोग: कनिष्ठ- कार्यालय- सहायकस्य पदकूटसंख्या ९३९ इत्यस्य परिणामं घोषितवान्। २९१ पदानां परिणामः घोषितः अस्ति, चतुर्णां पदानाम् परिणामः सतर्कता अन्वेषणस्य कारणेन स्थगितः अस्ति। अस्यां परीक्षायां उत्तीर्णाः चत्वारः अभ्यर्थिनः प्रश्नपत्ररहस्योद्घाटनप्रकरणे आरोपिताः सन्ति, अतः चतुर्णां पदानाम् परिणामः न घोषितः। अस्य पदकूटसंकेतस्य अन्तर्गतं विभिन्नविभागेषु JOA IT इत्यस्य शतशः पदानि पूरयितुं प्रक्रिया विघटितस्य कर्मचारीचयन-आयोगस्य समये आरब्धा आसीत्। एतेषां पदानाम् विज्ञापनं ८ एप्रिल २०२१ दिनाङ्के अभवत्। परीक्षायाः कृते १ लक्षं २९ सहस्रं २३ अभ्यर्थिनः आवेदनं कृतवन्तः आसन्। लिखितपरीक्षायै १ लक्ष१८सहस्र १७५ अभ्यर्थिभ्य: प्रवेशपत्राणि निर्गतानि आसन्। लिखितपरीक्षा २४ अप्रैल २०२२ दिनाङ्के अभवत् यस्मिन् ६७४३४ अभ्यर्थिनः उपस्थिताः आसन्। लिखितपरीक्षायाम् उत्तीर्णानां २९८९ अभ्यर्थीनां कृते टङ्कनपरीक्षायाः आह्वानपत्राणि निर्गतानि। तदनन्तरं ९०९ अभ्यर्थिनः योग्यतायाः आधारेण लघुसूच्यां समाविष्टा: अभवन्। अभिलेखानां मूल्याङ्कनानन्तरं आयोगेन चयनपरीक्षायाः परिणामः घोषितः अस्ति। हिमाचलप्रदेश- राज्यचयनायोगस्य हमीरपुरस्य सचिव: विक्रममहाजन: अवदत् यत् परीक्षाया: परिणाम: घोषित: अभ्यर्थिनः आयोगस्य जालपुटे परीक्षायाः परिणामं द्रष्टुं शक्नुवन्ति। अभ्यर्थिभ्य: योग्यतायाः प्राथमिकतायाश्च आधारेण विभागाः आबंटिताः सन्ति।