पंचायतीराजमन्त्रालयः द्विदिवसीय-राष्ट्रीयकार्यशालायाः आयोजनं करिष्यति
पंचायतीराजमन्त्रालयः आदिवासी विषयाणां मन्त्रालयः संयुक्तरूपेण जबलपुरे अनुसूचित-अधिनियम-पीईएसए विषयेषु वनाधिकार-अधिनियमस्य पंचायतविस्तारस्य च विषये प्रशिक्षणार्थं द्विदिवसीय राष्ट्रीयकार्यशालायाः आयोजनं करिष्यते। आदिवासीसमुदायस्य प्रशिक्षणार्थं क्षमतानिर्माणार्थं च द्वयोः मन्त्रालययोः सहकार्यं भवति । अस्यां कार्यशालायां यत्र वनाधिकारकानूनं प्रचलति तत्र २१ राज्येभ्यः संघप्रदेशेभ्यः च प्रायः १५० राज्य-जिल्ला-स्तरीय-मास्टर-प्रशिक्षकाणां प्रशिक्षणं भविष्यति |.
पंचायतीराजमन्त्रालयः द्विदिवसीय-राष्ट्रीयकार्यशालायाः आयोजनं करिष्यति
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment