देशे कृषिव्यवस्थां सुदृढं कर्तुं सर्वकारः कार्यं कुर्वन् अस्ति – कृषिमन्त्री शिवराजसिंहचौहानः
कृषिमन्त्री शिवराजसिंहचौहानः देशस्य कृषिव्यवस्थायाः उन्नयनार्थं सर्वकारः कार्यं कुर्वन् अस्ति इति उक्तवान्। नवीदिल्लीनगरे कृषकैः कृषकसंस्थाभिः सह मिलित्वा श्री चौहानः अवदत् यत् कृषकाणां कृते कृषिविकासयोजना, सस्यबीमायोजना इत्यादयः अनेके निर्णयाः सर्वकारेण कृताः।
भारतीयकिसानसंघस्य दिल्लीप्रदेशाध्यक्षः सतीशलम्बरदारः अखिलभारतीयरेडियोसञ्चारमाध्यमेन अवदत् यत् श्रीचौहानः कृषकाणां सर्वान् विषयान् श्रुत्वा तेषां समाधानं ज्ञातुं आश्वासनं अपि दत्तवान्।
देशे कृषिव्यवस्थां सुदृढं कर्तुं सर्वकारः कार्यं कुर्वन् अस्ति – कृषिमन्त्री शिवराजसिंहचौहानः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment