By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Sanskrit Saptah 2024 : प्रदेशस्य १२ जनपदेषु संस्कृतमयेन वातावरणेन संस्कृतसप्ताहस्य समापनम्- डॉ. मनोजशैल:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > Sanskrit Saptah 2024 : प्रदेशस्य १२ जनपदेषु संस्कृतमयेन वातावरणेन संस्कृतसप्ताहस्य समापनम्- डॉ. मनोजशैल:
संस्कृतगतिविधयःहिमाचलवार्ता

Sanskrit Saptah 2024 : प्रदेशस्य १२ जनपदेषु संस्कृतमयेन वातावरणेन संस्कृतसप्ताहस्य समापनम्- डॉ. मनोजशैल:

डॉ मनोज शैल
Last updated: 2024/08/25 at 11:03 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

Sanskrit Saptah 2024 : प्रदेशस्य १२ जनपदेषु संस्कृतमयेन वातावरणेन संस्कृतसप्ताहस्य समापनम्- डॉ. मनोजशैल:।

प्रायश: प्रदेशस्य २२००० छात्रै:  १००० शिक्षकै: च सोत्साहम् आचरित: संस्कृतसप्ताहमहोत्सव:।

हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी। 

हिमाचल- राजकीय- संस्कृत- शिक्षकपरिषदः प्रदेशाध्यक्षः डॉ. मनोज शैलः उक्तवान् यत् श्रावणीपूर्णिमा अर्थात् १६ अगस्ततः त्रिदिवसपूर्वं आरब्धः संस्कृतसप्ताहः सम्पूर्णस्य प्रदेशस्य १२ जनपदेषु श्रावणीपूर्णिमायाः त्रिदिवसानन्तरं २२ अगस्तदिनाङ्के महता उत्साहेन सम्पूर्तिं यात:। अस्मिन् अवसरे संस्कृतशिक्षकाणां साहाय्येन विद्यालये विविधाः क्रियाकलापाः आयोजिताः, येषु श्लोकपाठः, संस्कृतगीतानां गायनम्, संस्कृतभाषणं, संस्कृतेन अभिवादनसन्देशानां निर्माणं, संस्कृतस्फूरकपत्राणां निर्माणं, संस्कृतशोभायात्रा, संस्कृतस्य प्रदर्शनी प्रश्नोत्तरी प्रतियोगिता: चेत्यादीनां गतिविधीनां संचालनं अभवत्। छात्राः महता उत्साहेन एतत् अवसरं आचरितवन्तः। 

सामाजिकमाध्यमेषु अपि लोकप्रियः आसीत् संस्कृतसप्ताह:

संस्कृतसप्ताह: सामाजिकमाध्यमेषु अपि लोकप्रियः आसीत्, सर्वेषां संस्कृतशिक्षकाणां कृते हैशटैग-अभियानम् आरब्धम्, फेसबुक्, इन्स्टाग्राम, व्हाट्सएप इत्यादिषु मञ्चेषु प्रत्येकं क्रियाकलापस्य कृते #संस्कृतसप्ताह_2024 #SanskritSaptah_2024, #Hpsktparishad इति च लिखित्वा स्वक्रियाकलापं  सहभागिकृतम्। तेन सह काङ्गड़ा, मण्डी, ऊना, सोलनं, कुल्लू:, शिमला, बिलासपुरं, सिरमौरम् इत्यादिषु जनपदेषु भाषासंस्कृतिविभागेन हिमाचल- राजकीय- संस्कृत- शिक्षकपरिषद: सहकारेण संस्कृत- सप्ताह- महोत्सवविषये अनेके कार्यक्रमाः आयोजिताः। परिषदः राज्याध्यक्षः अवदत् यत् जनपदेभ्यः प्राप्तविवरणानुसारं मण्डीमण्डले प्रायः २०० विद्यालयेषु ४००० छात्राणां सहभागिता, सिरमौरस्य १७५ विद्यालयेषु ३५०० छात्राणाम्, ऊनाया: ७० विद्यालयेषु ९०० छात्राणां, सोलनस्य १०० विद्यालयेषु १००० छात्राणां सहभागिता, काङ्गड़ाजनपदस्य १५० विद्यालयेषु २५०० छात्राणां, हमीरपुरे १६० विद्यालयेभ्यः प्रायः ४५०० छात्राणां, चम्बायां ३० विद्यालयेभ्यः १००० छात्राणां च सहभागितायां संस्कृतसप्तमहोत्सवः आयोजित:। अवशिष्टानां मण्डलानां विवरणम् अधुना न प्राप्तमस्ति। तथापि आहत्य प्रायश: प्रदेशस्य २२००० छात्रै:  १००० शिक्षकै: च संस्कृतसप्ताहमहोत्सवे सोत्साहं सहभागिता कृता।

प्रदेशस्य संस्कृतमहाविद्यालयेषु अपि आचरित: संस्कृतसप्ताहमहोत्सव:

हिमाचलप्रदेशस्य राजकीय- अराजकीय- संस्कृतमहाविद्यालयेषु उपाधिमहाविद्यालयेषु चापि संस्कृतसप्ताहस्य आचरणम् अभवत्। तेषु राजकीय- संस्कृतमहाविद्यालये फागली- शिमला इत्यत्र भाषा एवं संस्कृतिविभाग: हिमाचलप्रदेशद्वारा द्विदिवसीय राज्यस्तरीय- संस्कृतदिवसस्य कार्यक्रमे महाविद्यालयीयछात्राणां संस्कृतप्रतियोगिता: कविसम्मेलनं च विहितम्। अरविन्द- संस्कृत- महाविद्यालये करसोगे दशदिनात्मकस्य संस्कृतसम्भाषणशिविरस्य समारोप: अपि संस्कृतसप्ताहस्य सम्पूर्तिदिने अभवत्। तदा महाविद्यालयीयै: छात्रै: करसोगविपण्यां संस्कृतशोभायात्रा निस्सारिता।  राजकीये महाविद्यालये सुजानपुरे अपि च धर्मशालाया: राजकीये शिक्षक-शिक्षामहाविद्यालये अपि महता उत्साहेन संस्कृतसप्ताहस्य आचरणम् अभवत्।

मण्ड्यां संस्कृतपरिषद: प्रदेशाध्यक्षेण जिलाध्यक्षेण च सहयोगाय उपनिदेशकप्रारंभिकशिक्षाया: अभिनन्दनं कृतम्

अस्मिन्नवसरे हिमाचल- राजकीय- संस्कृत- शिक्षक- परिषद: प्रदेशाध्यक्ष: डॉ. मनोजशैल: तथा संस्कृतशिक्षकपरिषद: जिलाध्यक्ष: लोकपाल: मण्डी जनपदस्य प्रारम्भिक- शिक्षा-उपनिदेशकस्य विजयकुमारगुप्तावर्यस्य  संस्कृतसप्ताहस्य आयोजनाय  सहयोगार्थं अभिनन्दनं प्रकटितवन्तौ अपि च सम्माननं कृतवन्तौ। डॉ. मनोज शैलः संस्कृतसप्ताहे सम्पूर्णे राज्ये संस्कृतक्रियाकलापानाम् आयोजनार्थं सर्वेषां संस्कृतशिक्षकाणां छात्राणां च धन्यवादं दत्त्वा भविष्ये अपि उत्साहेन भागं गृह्णन्तु इति कामनाम् अकरोत्।

 

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, Sanskrit Day, Sanskrit Saptah, दिव्य हिमाचल समाचार, संस्कृत दिवस, संस्कृत सप्ताह, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Tourism : पर्यटनं प्रवर्धयितुं सुक्खुसर्वकारस्य नूतना: प्रयासाःKangra Airport: विमानस्थानकविस्तारे स्थानानुसारं क्षतिपूर्तिः प्रदत्ता भविष्यति
Next Article CM Sukhu : अधिकारिण: कर्मचारिण: च मम परिवारस्य सदस्या: आर्थिकलाभं दातुं सर्वकारः प्रतिबद्धः- मुख्यमंत्री
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?