By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन संस्कृतदिवससमारोहः अनुष्ठितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन संस्कृतदिवससमारोहः अनुष्ठितः
संस्कृतगतिविधयः

लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन संस्कृतदिवससमारोहः अनुष्ठितः

डॉ.अमनदीप शर्मा
Last updated: 2024/08/18 at 5:02 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

लखनऊस्थकेन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसर: एवं लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन संस्कृतदिवससमारोहः अनुष्ठितः
१६.८.२०२४ तमे दिनाङ्के केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसर:, लखनऊ एवं लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन लखनऊ-नगरस्थविभिन्नेषु विद्यालयेषु संस्कृत-दिवस-समारोहः समायोजितः। इमे समारोहाः केन्द्रीयसंस्कृतविश्वविद्यालयस्य यशस्वीकुलपतिनाम् आचार्यश्रीनिवासबरखेड़ीमहोदयानां संरक्षणे तथा च केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरस्य निदेशकमहोदयानाम् आचार्यसर्वनारायणझामहोदयानां प्रधानसंयोजनेन सम्पन्नाः।

केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं पीएम श्री केन्द्रीयविद्यालयः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन लखनऊगोमतीनगरस्थ पीएम श्री केन्द्रीयविद्यालये प्रातः 7:00 वादने उप-प्राचार्यायाः श्रीमतीसंगीतासक्सेनामहोदयाया: अध्यक्षतायां संस्कृत-दिवस-समारोहोऽयं सम्पन्नः जातः। अस्मिन्न​वसरे​ मुख्यवक्त्रीरूपेण विद्यालयस्य संस्कृतप्राध्यापिका श्रीमतीशैलमसक्सेना महोदया उपस्थिता आसीत्। संस्कृताध्यापकः श्रीविजयबहादुरमहोदयः अपि उपस्थितः आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते सुभाषितश्लोकगानस्पर्धा आयोजिता। तस्यां प्रतियोगितायां प्रथम: किशोरी, द्वितीय: प्रखरः, तृतीय: अरण्या, सान्त्वना सृष्टिः च पुरस्कारान् प्राप्तवन्तः। प्रो. लोकमान्यमिश्रमहोदयानां संयोजनेन, डा.रुद्रनारायणनरसिंहमिश्रमहोदयानां सह-संयोजनेन एवञ्च शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमः सम्पादितः।

केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं द इंडियन पब्लिक इंटर कॉलेज, विनयखण्डः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 12:30 वादने विद्यालयस्य प्रबन्धिकानां श्रीमतीविमलायादवमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-समारोहोऽयं सम्पन्नः जातः। अस्मिन्न​वसरे​ मुख्यवक्त्रीरूपेण विद्यालयस्य प्रधानाध्यापिका श्रीमतीउषाउपेतिमहोदया उपस्थिता आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते संस्कृतश्लोकगानस्पर्धा आयोजिता। तस्यां प्रतियोगितायां प्रथमस्थानं साक्षी तिवारी, द्वितीयस्थानं मोहसीन खान एवं व्याख्या सिंह, तृतीयस्थानं संगमः एवं रोशनी च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः। अस्य कार्यक्रमस्य संयोजक: प्रो. देवीप्रसाद द्विवेदी महोदय: आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।

केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं प्रकाशबालविद्यामन्दिरइण्टर काँलेज, विशालखण्डः-१, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 1:00 वादने विद्यालयस्य प्रबन्धकानां श्रीरामदयालमौर्यमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-कार्यक्रमोऽयं सम्पन्नः जातः। अस्मिन्न​वसरे​ विद्यालयस्य प्रधानाध्यापिका श्रीमतीतृप्तिसिंहमहोदया मुख्यवक्त्रीरूपेण उपस्थिता आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते संस्कृतश्लोकगानस्पर्धा आयोजिता। अस्मिन् कार्यक्रमे संस्कृतश्लोकगानम्-भाषणम्-संस्कृतगीताप्रतियोगिताः आयोजिताः, यासु प्रथमस्थानं गौरवः, द्वितीयस्थानं आर्यकुमारः, तृतीयस्थानं आयुषकुमारः, सान्त्वनास्थानं कृष्णश्च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः। अस्य कार्यक्रमस्य संयोजक: प्रो.गणेशशंकरविद्यार्थीमहोदय: आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।

केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं गंगोत्रीशिशुमन्दिरपब्लिक स्कूल, ग्वारीग्रामः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 12:00 वादने विद्यालयस्य प्रबन्धिकानां श्रीमतीमंजुघिल्डियालमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-कार्यक्रमोऽयं सम्पन्नः जातः। अस्मिन्न​वसरे​ विद्यालयस्य प्रधानाध्यापिका मोनिकाघिलडियालमहोदया मुख्यवक्त्रीरूपेण उपस्थिता आसीत्। अस्मिन् कार्यक्रमे संस्कृतश्लोक-मन्त्र-गान-प्रतियोगिताः आयोजिताः, यासु प्रथमस्थानं शिवालिका एवं आशुतोषः, द्वितीयस्थानं अक्षरा एवं प्रेमा सिंह, तृतीयस्थानं राखी एवं रूही, सान्त्वनास्थानं अमन् एवं ईरम खान् श्च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः।

अस्य कार्यक्रमस्य संयोजक: प्रो.अवनीशअग्रवालमहोदया आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

TAGGED: संस्कृतदिवस
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article HP School Sports News : उच्चाशंकायुतेषु जनपदेषु बृहत् निर्णयः, काङ्गड़ायां ऊनायां च प्रतिबन्धः अपि स्थापितः
Next Article Himachal Weather : हिमाचले मानसूनस्य आरम्भात् अधुनापर्यन्तं मेघविस्फोटस्य जलप्लावनस्य च ५१ घटनासु ३१ जनाः मृताः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?