By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal Weather : हिमाचले मानसूनस्य आरम्भात् अधुनापर्यन्तं मेघविस्फोटस्य जलप्लावनस्य च ५१ घटनासु ३१ जनाः मृताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal Weather : हिमाचले मानसूनस्य आरम्भात् अधुनापर्यन्तं मेघविस्फोटस्य जलप्लावनस्य च ५१ घटनासु ३१ जनाः मृताः
हिमाचलवार्ता

Himachal Weather : हिमाचले मानसूनस्य आरम्भात् अधुनापर्यन्तं मेघविस्फोटस्य जलप्लावनस्य च ५१ घटनासु ३१ जनाः मृताः

डॉ मनोज शैल
Last updated: 2024/08/18 at 9:30 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himachal Weather : हिमाचले मानसूनस्य आरम्भात् अधुनापर्यन्तं मेघविस्फोटस्य जलप्लावनस्य च ५१ घटनासु ३१ जनाः मृताः

हिमसंस्कृतवार्ता: – शिमला। 

हिमाचलप्रदेशे मानसूनर्तौ २७ जूनतः १६ अगस्तपर्यन्तं मेघविस्फोटस्य जलप्रलयस्य च ५१ घटनासु ३१ जनाः मृताः। एषा सूचना राज्यस्य आपत्कालीनसञ्चालनकेन्द्रेण दत्ता। मानसूनः जूनमासस्य २७ दिनाङ्के हिमाचलप्रदेशं प्राप्तवान्। जूनमासस्य २७ दिनाङ्कात् अगस्तमासस्य १६ दिनाङ्कपर्यन्तं मेघविस्फोटस्य जलप्लावनस्य च ५१ घटनासु ३१ जनाः मृताः, ३३ जनाः अदृश्याः च। लाहौल-स्पीति-जनपदे एतादृशाः २२ घटनाः ज्ञाताः, ये राज्ये सर्वाधिकाः सन्ति, तदनन्तरं किन्नौरे ११, ऊनायां षट्, कुल्लू- मण्डी- जनपदयो: त्रीणि, सिरमौरे द्वौ, चम्बा- हमीरपुर-शिमला-सोलन-जनपदेषु एकैका: च घटनाः अभवन् तथ्यानुसारं १२१ गृहाणि पूर्णतया वा आंशिकरूपेण वा क्षतिग्रस्तानि अभवन्। राज्यस्य आपत्कालीन- सञ्चालनकेन्द्रेण उक्तं यत् अस्मिन् एव काले ३५ भूस्खलने त्रयः जनाः मृताः। मण्डीनगरे अधिकतमं नव भूस्खलनं जातम्। किन्नौर- शिमला-जनपदयोः षट्-षट्, लाहौल-स्पीति- चम्बाजनपदयोः चत्वारि, सोलने त्रीणि, कुल्लौ द्वौ, बिलासपुरे एकः च भूस्खलनानि अभवन्। अन्येषां मण्डलानां दत्तांशः उपलब्धः नास्ति। परन्तु अनेकजनपदेषु निवासिनः विश्वासं कृतवन्तः यत् मेघविस्फोटस्य, आकस्मिकजलप्रलयस्य, भूस्खलनस्य च घटनानां संख्या आधिकारिकाङ्कानां अपेक्षया बहु अधिका अस्ति। इदानीं राज्यस्य केषुचित् भागेषु लघुवृष्टिः अभवत्, रविवासरस्य प्रातः पर्यन्तं ९५ मार्गाः निरुद्धा: अभवन्। अधिकारिणां मते हिमाचलप्रदेशस्य अद्यावधि ११४० कोटिरूप्यकाणां हानिः अभवत्, यत्र सर्वाधिकं हानिः मार्गसंरचनायाः अभवत्। लोकनिर्माणविभागस्य ५०२ कोटिरूप्यकाणां हानिः अभवत्, तदनन्तरं जलशक्तिविभागस्य (४६९ कोटिरूप्यकाणां) उद्यानविभागस्य (१३९ कोटिरूप्यकाणां) च क्षतिः अभवत्। स्थानीय ऋतुविभागेन राज्यस्य विभिन्नेषु क्षेत्रेषु अगस्तमासस्य २१ दिनाङ्कपर्यन्तं प्रचण्डवृष्टेः ‘पीतवर्णीया’ सचेतना प्रसारिता अस्ति।

 

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal Monsoon, Himachal news, himachal update, Himachal weather, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता: 
Next Article Himachal News : भिण्डरवाले इत्यस्य भावचित्रविरुद्धं विरोधे कृते खालिस्तानीसंतर्जना, बनीखेतस्य युवकस्योपरि आक्रमणस्य प्रयासः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?