HP School Sports News : उच्चाशंकायुतेषु जनपदेषु बृहत् निर्णयः, काङ्गड़ायां ऊनायां च प्रतिबन्धः अपि स्थापितः
हिमसंस्कृतवार्ता: – शिमला।
अद्यत्वे राज्ये वर्षाकारणात् प्रतिदिनं क्षतिप्रसंगाः दृश्यन्ते। एतादृशे सति प्रारम्भिकशिक्षाविभागेन अगस्तमासस्य १० दिनाङ्कात् आरभ्यमाणानां क्रीडाप्रतियोगितानां कृते महत् निर्णयः कृतः अस्ति। अस्मिन् यत्र यत्र काङ्गड़ा-ऊना-मण्डी सहितेषु सर्वेषु मण्डलेषु क्रीडास्पर्धाः प्रचलन्ति, यदि वर्षाकारणात् किमपि समस्या अस्ति तर्हि तत्कालं प्रभावेण प्रतियोगितायाः स्थगितीकरणस्य आदेशाः निर्गताः सन्ति। तत्र उक्तं यत्, यावत् अग्रे आदेशः न भवति तावत् स्पर्धाः स्थगिताः भविष्यन्ति। एतेन सह एतत् अपि उक्तं यत् क्रीडास्पर्धायाः कृते ये बालकाः आगच्छन्ति तेषां मातापित्रो: समीपं सुरक्षितरूपेण परिवहनं करणीयम् इति विद्यालयप्रबन्धनस्य दायित्वं भविष्यति।
प्रारम्भिकशिक्षानिदेशकेन उपनिदेशकेभ्य: निर्देशाः निर्गताः यत् सः स्वस्तरेन अस्मिन् विषये निर्णयं कर्तुं शक्नोति। ज्ञातव्यं यत् अद्यकाले राज्यस्य विभिन्नेषु मण्डलेषु क्रीडास्पर्धाः प्रचलन्ति। परन्तु वर्षाकारणात् अनेकस्थानेषु मार्गस्य स्खलनम्, जलस्तरस्य वर्धनं, वृक्षाणां पतनं च इत्यादय: घटना: भवन्ति। एतादृशी परिस्थितौ बालानाम् जीवनं संकटापन्नं कर्तुं न शक्यते। सर्वेषां मण्डलानां कृते एते आदेशाः दत्ताः, परन्तु यत्र वर्षाकारणात् अधिका समस्या वर्तते तत्र एताः क्रीडास्पर्धाः स्थगिताः।