By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Politics : विक्रमादित्यसिंह:  कंगनां लक्ष्यीकृत्य अकथयत्- देवपरम्परा संकटे, हस्तक्षेपं कुर्यात् मोहनभागवत:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Politics : विक्रमादित्यसिंह:  कंगनां लक्ष्यीकृत्य अकथयत्- देवपरम्परा संकटे, हस्तक्षेपं कुर्यात् मोहनभागवत:
राजनैतिकवार्ताहिमाचलवार्ता

HP Politics : विक्रमादित्यसिंह:  कंगनां लक्ष्यीकृत्य अकथयत्- देवपरम्परा संकटे, हस्तक्षेपं कुर्यात् मोहनभागवत:

डॉ मनोज शैल
Last updated: 2024/04/20 at 12:06 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Politics : विक्रमादित्यसिंह:  कंगनां लक्ष्यीकृत्य अकथयत्- देवपरम्परा संकटे, हस्तक्षेपं कुर्यात् मोहनभागवत:

हिमसंस्कृतवार्ता:- शिमला। 

मण्डी संसदीयक्षेत्रतः लोकनिर्माणमन्त्री तथा काङ्ग्रेसप्रत्याशी विक्रमादित्यसिंहः सनातनधर्मस्य उद्धाराय राष्ट्रीयस्वयंसेवकसंघस्य (आरएसएस) सरसंघचालकं मोहनभागवतं राज्यसंचालकं च हस्तक्षेपं कर्तुम् आग्रहं कृतवान्। शुक्रवासरे राज्यस्य काङ्ग्रेसमुख्यालयस्य राजीवभवने शिमलायां मीडियाभिः सह वार्तालापं कुर्वन् विक्रमादित्यसिंहः अवदत् यत् भाजपया एतादृशः प्रत्याशी स्थापितः, यस्य कारणेन देवपरम्परा संकटे आगता। भाजपा प्रत्याशी एतादृशं भोजनं प्रचारितवती, यत् देवभूमिजनाः चिन्तयितुं अपि न शक्नुवन्ति। काङ्ग्रेसप्रत्याशी विक्रमादित्यसिंहः मण्डी- संसदीयक्षेत्रतः भाजपाप्रत्याशी कङ्गनारानौताया: विरुद्धं मुखरं कृत्वा अप्रत्यक्षतया राजनैतिकतापमानं तापितवान् अस्ति। विगतदिनात् द्वयोः प्रत्याशिनो: मध्ये आरोपानाम्, प्रत्यारोपाणां च चक्रं प्रचलति। शुक्रवासरे विक्रमादित्यः पुनः कङ्गनां लक्ष्यं कृतवान्। सनातनधर्मस्य उद्धाराय सः राष्ट्रीय- स्वयंसेवकसंघस्य सरसंघचालकस्य मोहनभागवतस्य हस्तक्षेपं याचितवान्। हिमाचलप्रदेशे सनातनधर्मः संकटग्रस्तः इति उक्तवान्। अस्मिन् सम्पूर्णे प्रकरणे भाजपायाः मुखस्य उपरि पट्टिका स्थापिता अस्ति, एतादृशी परिस्थितौ राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः हस्तक्षेपं कुर्यात्। सः अवदत् यत् भाजपया एतादृशं आहार-अभ्यासान् प्रवर्धयन्ती प्रत्याशी स्थापितवता यत् हिन्दू-चिन्तनात् दूरम् अस्ति।

अधुना जयरामः बाध्यतायाः कारणात् ओपीएस- समर्थनं करोति

विक्रमादित्यसिंहः अवदत् यत् मण्डीसंसदीयासनम् अन्येषां जनानां दृष्टौ उष्णपीठः भवेत्, परन्तु तस्य कृते एतत् न भवति। राज्यस्य चत्वारि अपि आसनानि समानानि पश्यति। पूर्वमुख्यमन्त्री जयरामठाकुरं प्रति प्रहारं कृत्वा सः अवदत् यत् विपक्षनेता विधानसभायां मुख्यमन्त्री भूत्वा उक्तवान् यत् यदि कर्मचारिणः पुरातनं वृत्तियोजनां इच्छन्ति तर्हि तै: निर्वाचनं कर्तव्यम् इति। अधुना जयरामः बाध्यतायाः कारणात् तस्य समर्थनं करोति। उपमुख्यमन्त्री मुकेश अग्निहोत्री पूर्वमेव उक्तवान् यत् आगामिसमये काङ्ग्रेससर्वकारः पुरातनवृत्तियोजनां वैधानिकरूपेण सुदृढं करिष्यति। तस्मिन् एव काले प्रतिभासिंह अवदत् यत् काङ्ग्रेसपक्षः निर्वाचनक्षेत्रे अस्ति। अस्माकं सज्जता सम्पूर्णा अस्ति। निर्वाचने विजयस्य उत्तरदायित्वं सर्वेभ्यः अधिकारिभ्यः कार्यकर्तृभ्यः च दीयते, नामपत्रविषये निर्णयाः शीघ्रमेव क्रियन्ते।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Himachal Congress, Himachal news, himachal update, Himsanskritnews, HP Congress, HP Politics, कांग्रेस, लोकसभा चुनाव, विक्रमादित्य सिंह, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल कांग्रेस, हिमाचल प्रदेश
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article भाजपा स्वपक्षे परिवारवादं न पश्यति : अनिरुद्धसिंह:
Next Article HP Congress : निर्वाचनाय सक्रियस्थितौ कांग्रेसदलं, धर्मशालाया: हमीरपुरस्य च कार्यकर्तृभ्य: विजयस्य मंत्र दास्यति मुख्यमंत्री सुखविन्दरसिंहसुक्खु:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?