By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Politics : निर्दलीयविधायकानां त्यागपत्रेषु काङ्ग्रेसदलेन अन्वेषणस्य आग्रहं कृतम्, विधानसभाध्यक्षस्य निर्दलीयविधायकेभ्य: सूचनापत्रम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Politics : निर्दलीयविधायकानां त्यागपत्रेषु काङ्ग्रेसदलेन अन्वेषणस्य आग्रहं कृतम्, विधानसभाध्यक्षस्य निर्दलीयविधायकेभ्य: सूचनापत्रम्
राजनैतिकवार्ताहिमाचलवार्ता

HP Politics : निर्दलीयविधायकानां त्यागपत्रेषु काङ्ग्रेसदलेन अन्वेषणस्य आग्रहं कृतम्, विधानसभाध्यक्षस्य निर्दलीयविधायकेभ्य: सूचनापत्रम्

डॉ मनोज शैल
Last updated: 2024/03/29 at 3:18 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Politics : निर्दलीयविधायकानां त्यागपत्रेषु काङ्ग्रेसदलेन अन्वेषणस्य आग्रहं कृतम्, विधानसभाध्यक्षस्य निर्दलीयविधायकेभ्य: सूचनापत्रम्
हिमसंस्कृतवार्ता- शिमला।

मन्त्रिभि: काङ्ग्रेसविधायकै: च त्रयाणां निर्दलीयविधायकानाम् उपालम्भं कृत्वा विधानसभासभाध्यक्षात् तेषां त्यागपत्रस्य कारणानाम् अन्वेषणं कर्तुम् आग्रहं कृतम्। विधानसभाध्यक्षस्य कुलदीपसिंहपठानिया इत्यस्य पक्षतः एतस्य संज्ञानं स्वीकृत्य विधानसभासचिवालयेन के. एल. ठाकुर:, होशियारसिंह:, आशीषशर्मा इति त्रयाणां स्वतन्त्रविधायकानां कृते सूचनापत्रं निर्गतमस्ति तेभ्य: उत्तरं च १० अप्रैलपर्यन्तं याचितम् अस्ति। उपालम्भे तेषां विरुद्धं आरोपाः सन्ति यत् ते त्यागपत्रं दातुं चक्रविमानेन आनीता:, तै: सह भाजपा-वरिष्ठनेतारः उपस्थिताः आसन्। सः आरोपितवान् यत् जनसमूहः पञ्चवर्षेभ्यः तान् निर्वाचितवान्। भाजपायाः प्रभावेन ते त्यागपत्रम् अयच्छतन्। राज्यसभानिर्वाचने भाजपायाः पक्षे मतदानं कृतवन्तः हमीरपुरतः आशीषशर्मा, देहरातः होशियारसिंहः, नालागढतः केएलठाकुरः इति त्रयः निर्दलीयविधायकाः शुक्रवासरे विधायकपदात् त्यागपत्रं दत्तवन्तः आसन्। मन्त्रिणः काङ्ग्रेसविधायकाः च आरोपयन्ति यत् शुक्रवासरे नूतनदिल्लीतः चक्रविमानेन शिमलानगरं प्राप्य त्रयः अपि विधानसभासचिवाय त्यागपत्रं प्रदत्तवन्तः।
तदनन्तरं एते स्वतन्त्राः विधायकाः राज्यपालं मिलित्वा विधानसभासभापतिं प्रति त्यागपत्रम् अपि प्रदत्तवन्तः। तस्मिन् काले विपक्षनेता जयरामठाकुर इत्यादयः भाजपानेतारः अपि तै: सह आसन्। त्रयोऽपि स्वतन्त्रविधायका: जयरामठाकुरेन सह पुनः दिल्लीं गतवन्तः। एष: उपालम्भ: विधानसभा सभापतिं प्रति मन्त्रिणः जगतसिंहनेगी, रोहितठाकुर:, अनिरुद्धसिंह:, विक्रमादित्यसिंह:, मुख्यसंसदीयसचिवः संजय: अवस्थी, विधायकः संजयरतन इत्यादयः विधायकाः अददन्।
मुख्यसंसदीयसचिवः संजय अवस्थी अवदत् यत् निर्दलीयानां त्यागपत्रात् पूर्वं चक्रविमानेन शिमलानगरम् आनयनेन भाजपादलस्य वरिष्ठनेतृभिः सह भवितुं च तेषां राजनैतिकप्रभावेन त्यागपत्रप्रदानस्य पुष्टिः भवति। प्रकरणस्य गम्भीरताम् अवलोक्य उपालम्भे अन्वेषणस्य आग्रहः कृतः। तस्मिन् एव काले विधानसभासचिवः यशपालशर्मा उपालम्भे १० अप्रैलपर्यन्तं स्थितिं स्पष्टीकर्तुं च आह।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: \हिमाचल के आज के समाचार, cmo himachal, cmo himachal Pradesh, Dr. Amandeep Sharma, Dr. Amit Sharma, Dr. Manoj Shail, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himsanskrit news, Himsanskritnews, Himsanskritvarta, narendra modi, Naresh Malotia, pmo, Sanskrit news, sanskrit news channel, sanskrit work in uttar pradesh, Shiva Sharma, up government, up government scheme, up news, uttar pradesh news, uttrakhand news, varta, vartah, आज के संस्कृत समचार, कांगड़ा के समाचार, देश विदेश की ताजा खबरें, दैनिक समाचार, मुख्यमन्त्री सुखविन्दर सिंह सुक्खु, राम कथा, रामचरित मानस की कथा, रामायण, वार्ताः, संस्कृत भारती, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल की नई सरकार, हिमाचल के समाचार, हिमाचल राजकीय संस्कृत शिक्षक परिषद्, हिमाचल सरकार, हिमाचल सरकार के निर्णय, हिमाचल संस्कृत अकादमी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article प्रथमं उच्चतम: न्यायालय: कांग्रेस-दलस्य अनुरोधं न अङ्गीकृतवान्, अधुना आयकरविभागेनापि १७०० कोटिरूप्यकाणां विज्ञप्तिः प्रदत्ता; काङ्ग्रेसदलं प्रति द्विगुणं प्रहारम्।
Next Article HP Election News : मण्डी-संसदीयक्षेत्रात् कङ्गनाया: प्रत्याशीत्वेन भाजपानेतार: अपि आश्चर्यचकिता: – प्रतिभासिंह
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?