By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रतिभा पाटिल भारतस्य प्रथमा महिला राष्ट्रपतिः, स्त्रीणां कृतेऽस्ति प्रेरणा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रतिभा पाटिल भारतस्य प्रथमा महिला राष्ट्रपतिः, स्त्रीणां कृतेऽस्ति प्रेरणा
राष्ट्रीयवार्ताःदिवसविशेषः

प्रतिभा पाटिल भारतस्य प्रथमा महिला राष्ट्रपतिः, स्त्रीणां कृतेऽस्ति प्रेरणा

डॉ.अमनदीप शर्मा
Last updated: 2023/12/19 at 7:59 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

प्रतिभा पाटिल महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।
काचित् महिला, राष्ट्राध्यक्षरूपेण
महिला इति कृत्वा देशस्य स्थितिम् सम्यगवगत्य प्रतिस्पन्दनसमये यथा एकया मात्रा व्यवह्रियते तथैव व्यवहरन्त्याः तस्याः सर्वेषु अपि कार्येषु ममता द्रष्टुं शक्यते । जलगांव इति एतादृशसामान्यग्रामात् देहल्यां विद्यमानं राष्ट्रपते: भवनं प्राप्तुं कृतः जीवनसङ्घर्षः अत्यन्तं रोचकः एव ! कुत्रापि विवादस्यास्पदम् अदत्वा आडम्बरेण विना स्वकार्यं निर्वहन्ती आसीत्। अतिदायित्वभरिते स्थाने भूत्वा बि. डि. जत्ति, वसन्तराव् नायिक, वै. बि. चौहाणप्रभृतीनां राजकीयनेतृणां स्मरणं कारयति । प्रतिभाकुमारी पाटीलमहोदयाया: जन्म १९-१२-१९३४ तमे दिनाङ्के महाराष्ट्रस्य जलगांवसमीपस्थनादगांव् इति ग्रामस्य कस्यचित् धनिकस्य परिवारे अभवत् । तस्या: पितु: नाम नारायणपग्लुराव् इति । तस्या: वंशस्था: राजस्थानमूलीया: । तत: आगत्य जलगांवमध्ये वसतिं प्रकल्प्य प्राय: शतं वर्षाणि एव अतीतानि स्युः। प्राथमिकं माध्यमिकं शिक्षणं च जलगांवस्थे आर्. आर्. विद्यालये समापितवती। पश्चात् स्वस्य एम्. ए. शिक्षणं मूल्जि- जैत्-कालेज् मध्ये समापितवती। भाषणस्पर्धायाम् अतीव प्रतिभासम्पना एषा अनेकान् पारितोषिकानजयत् । एष प्रमुखा टेबलटेन्नीस्क्रीडापटु: अपि आसीत् । १९६२ मध्ये महाविद्यालयत: एम्. जि .कालेज् क्वीन् इति चिता एषा तस्मिन्न् एव वर्षे अदिलाबाद्-मध्ये भारतीय राष्ट्रिय-कांग्रेस्-पक्षत: अवसरं प्राप्य विधानसभा निर्वाचने स्थित्वा जयं प्राप्तवती । जुलाय् -७- १९६५ तमे वर्षे श्री देवीसिंहशेखावत् इत्यनेन सह विवाहमरचयत् । कतिचिद्वैयक्तिककारणैः उपनाम पाटील इत्येव अस्थापयत् । एतयो: दम्पत्यो: एका पुत्री एक: पुत्र: च स्तः।

प्रतिभाभगिनी सर्वप्रथमं समाजसेविका भूत्वा स्ववृत्तिमारभत। एम् .ए , तथा ए्ल्. ए्ल् .बि पदवीं एम्. जे. कलाशाला जलगांवमध्ये समाप्य जलगांवमध्ये न्यायवादिनी भूत्वा वृत्तिजीवनमारभत। राजस्थानराज्यस्य षोडशतमराज्यपालत्वेन प्रतिभा पाटीलमहोदया २००४ तमे वर्षे राष्ट्र्पतिनिर्वाचनपर्यन्तम् अपि तत्रैव कार्यरता आसीत्। राज्यस्थानस्य प्रथामा महिला राज्यपालिका अपि । २००७ तमे वर्षे राष्ट्रमुद्दिश्य सम्बोधनम् अकरोत् । तस्याः भाषणे महिलानां बालकबालिकानां हितमनुलक्ष्य विशिष्ठ: सन्देश: आसीत् । कित्तुरुराज्ञ्याः चेन्नम्माया: विग्रहं संसद्भवने समुद्घाटयन्ती महिलाया: महत्त्वं समाजे कियदस्ति इति उदजागरयत् । २००९ तमे वर्षे पुण्यपत्तने विद्यमाने लोहगांववायुक्षेत्रे सुखोय् विमाने अर्धघण्टां यावत् उड्डयमाना एषा एतादृशसाहसकार्यं कुर्वती विश्वस्य प्रथमा राष्ठ्राध्यक्षा(७४तमे वयसि)। विमानचालकेन लभ्यमानाः सर्वाः सूचनाः सम्यक् परिपालयन्ती क्षेमेणैव भूस्पर्शम् अकरोत् । तथैव अस्माकम् भूतपूर्वराष्ठ्रपति: ए.पि.जे.अब्दु्लकलाम् अपि तस्य कार्यावधौ सुखोय् मध्ये उड्डयनम् अकरोत्। राजकीयक्षेत्रे श्रीमती प्रतिभापाटील महोदयया निर्मितानि कतिचन पदचिह्नानि। ” १९६२ तमे वर्षे मराठानेतु: एस् बि चव्हाणप्रभावेण राजकीयजीवनारम्भ: । ” महाराष्ट्रविधानसभार्थं सातत्येन १९६२ त: १९८५ पर्यन्तं निर्वाचिता । ” महाराष्ट्रराज्यसर्वकारे प्रवासोद्यम-संस्दीयव्यवहारमन्त्रिणी । समाजकल्याणशिक्षणादिविभागे क्याबिनेट्स्तरीयस्थानं सम्माननमपि अवाप। ” विरोधपक्षस्य नायिका भूत्वा अपि कार्यमकरोत्। ” जून् १९८५ त: १९९० पर्यन्तं राज्यसभायै निर्वाचिता अभवत्। ” १९८६ नवेम्बरत: १९८८वर्षपर्यन्तं राज्यसभाया: उपाध्यक्षा भूत्वा अपि कार्यमकरोत् । ” दशमलोकसभाया: कृते अमरावतिक्षेत्रत: (१९८५- १९९६)निर्वाचिता । ” २००४ मध्ये राजस्थानस्य राज्यपाला इति नियुक्ता अभवत् । ” राज्यसभाया: उपसभापति: अपि अवर्तत। एवं महिला समाजे कीदृशं कार्यं कर्तुं प्रभवती इति दर्शयन्ती अन्यासां महिलानाम् अपि आदर्शप्राया एव अस्ति।

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

मकरसंक्रान्तेः फलम् (जनवरी 2026)

लोहडी उत्तरभारते प्रसिद्धः उत्सवः

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

TAGGED: देश की प्रथम राष्ट्रपति, प्रतिभा पाटिल, प्रतिभा सिंह पाटिल का जन्मदिवस, भारत की प्रथम महिला राष्ट्रपति
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article अल्पसंख्यक: अधिकारदिवस:
Next Article श्रीरामकथा :-मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?