परीक्षा-शुचितायै एन.टी.ए. (NTA) संस्थायाः महत् पदक्षेपः; ‘जेईई-नीट’ इत्यादिपरीक्षाणां निरीक्षणे सेवानिवृत्त-सैनिकानां सहायता स्वीकरिष्यते
नवदेहली। प्रश्नपत्र-प्रकटनम् (पेपर लीक) परीक्षासु च अनियमिततां निवारयितुं ‘राष्ट्रीय-परीक्षण-अभिकरणेन’ (एन.टी.ए.) एकः अपरः महत् पदक्षेपः गृहीतः। परीक्षाणां शुचितां संरक्षितुम् अभ्यर्थिनां च विश्वासं जेतुम् अभिकरणेन इदानीं सेवानिवृत्त-सैनिकानां सहायतां ग्रहीतुं निर्णयः कृतः। भारतीय-सेनायाः अर्धसैनिक-बलानां च सेवानिवृत्त-सैनिकेभ्यः ‘जेईई’, ‘नीट’, ‘नेट’, ‘सीयूईटी’ इत्येतासां प्रमुख-परीक्षाणां निरीक्षणस्य महत्त्वपूर्णं दायित्वं दास्यते।वस्तुतः, गत-मई-मासे ‘नीट-यूजी’ परीक्षायाः प्रश्नपत्र-प्रकटन-प्रकरणेन विवादेषु आगते सति, एन.टी.ए. द्वारा व्यापक-स्तरे सुधारः परिवर्तनं च क्रियते। २१ जून, २०२६ दिनाङ्के आयोजिते ‘नीट-यूजी’ पुनःपरीक्षायां (री-एग्जाम) परिवहन-व्यवस्थायां सेनायाः सहयोगं गृहीत्वा, इदानीं भविष्ये अपि एन.टी.ए. सेनायाः सहायतां ग्रहीतुं विचारयति। एतदर्थम् एन.टी.ए. स्वतन्त्र-पर्यवेक्षकाणाम् (ऑब्जर्वर्स) एकं स्थायि-समूहं (परमानेंट पूल) सज्जीकरोति, यस्मिन् सशस्त्र-बलानाम् अर्धसैनिक-बलानां च सेवानिवृत्त-कार्मिकाः, तथा च केन्द्र-राज्य-सर्वकारयोः सेवानिवृत्ताः अधिकारिणः सम्मिलिताः भविष्यन्ति। एन.टी.ए. संस्थायाः ‘अभिरुचि-अभिव्यक्ति-प्रपत्रे’ (Expression of Interest) कथितं यत् प्रत्येकं परीक्षा-दिवसे प्रतिपरीक्षाकेन्द्रम् एकः स्वतन्त्रः पर्यवेक्षकः नियुज्यते। एते पर्यवेक्षकाः केन्द्रे एन.टी.ए. संस्थायाः प्रतिनिधयः भविष्यन्ति, ये ‘नगर-समन्वयकात्’ (सिटी कोऑर्डिनेटर) ‘केन्द्र-अधीक्षकात्’ (सेंटर सुपरिंटेंडेंट) च भिन्नाः भविष्यन्ति। एतेषां मुख्यं कार्यं परीक्षायाः निष्पक्षतायाः, सुरक्षायाः सुचारु-सञ्चालनस्य च निरीक्षणं कृत्वा साक्षात् एन.टी.ए. संस्थायै प्रतिवेदनं दातुं भविष्यति।प्रपत्रे अग्रिमम् उक्तं यत् सम्पूर्णं वर्षं प्रचलन्त्याः परीक्षा-प्रक्रियायाः समये अस्याः आवश्यकतायाः समयबद्धं विश्वसनीयं च पूरणं कर्तुम् अभिकरणं पूर्व-सत्यापित-पर्यवेक्षकाणाम् एकं स्थायि-समूहं निर्मातुम् इच्छति। अस्मिन् समूहे सर्वकारीय-संस्थानानां सेवानिवृत्ताः कार्यरताः वा शैक्षणिक-प्रशासनिक-कार्मिकाः समाविष्टाः भविष्यन्ति, येन प्रत्येकं परीक्षायै बहुपूर्वम् एव नियुक्ति-आदेशाः प्रसारयितुं शक्यन्ते।
पर्यवेक्षक-पदाय त्रिषु वर्गॆषु आवेदनम् आहूतम्
एन.टी.ए. द्वारा परीक्षासु पर्यवेक्षकस्य भूमिकां निर्वोढुं त्रिषु वर्गॆषु आवेदनपत्राणि आहूतानि सन्ति—
प्रथमः वर्गः-: केन्द्र-सर्वकारस्य राज्य-सर्वकाराणां च सेवानिवृत्ताः अधिकारिणः।
द्वितीयः वर्गः-: सशस्त्र-बलानाम् अथवा अर्धसैनिक-बलानां सेवानिवृत्ताः कार्मिकाः।
तृतीयः वर्गः-: सर्वकारीय-विद्यालयानां, महाविद्यालयानां विश्वविद्यालयानां च सेवानिवृत्ताः कार्यरताः वा शिक्षकाः प्राध्यापकाः च।
विदेशेषु स्थितानां परीक्षाकेन्द्राणां कृते एन.टी.ए. सामान्यतः तस्मिन् एव नगरे निवसतां भारतीय-नागरिकाणां मध्यात् पर्यवेक्षकान् नियोक्ष्यति। एतेषु तस्मिन् देशे स्थितस्य भारतीय-दूतावासस्य (मिशन) कार्यरताः सेवानिवृत्ताः वा अधिकारिणः, विदेश-मन्त्रालयस्य सेवानिवृत्ताः अधिकारिणः, स्थानीय-स्तरे उपलब्धाः अन्ये योग्याः भारतीय-नागरिकाः च सम्मिलिताः भवितुम् अर्हन्ति। सुरक्षा-भङ्गस्य अनियमिततानां च आरोपाणाम् अनन्तरं परीक्षा-प्रणाल्यां व्यापक-सुधारस्य अन्तर्गतम् अयं महत्त्वपूर्णः निर्णयः स्वीकृतः अस्ति।
परीक्षा-शुचितायै एन.टी.ए. (NTA) संस्थायाः महत् पदक्षेपः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
