By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पतञ्जलौ बालेभ्यः प्राप्यमाणाः संस्काराः कस्यचित् स्वप्नस्य साकाररूपम् इव – प्रदीप-बत्रा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > पतञ्जलौ बालेभ्यः प्राप्यमाणाः संस्काराः कस्यचित् स्वप्नस्य साकाररूपम् इव – प्रदीप-बत्रा
धर्मसंस्कृतिःराष्ट्रीयवार्ताःसंस्कृतगतिविधयः

पतञ्जलौ बालेभ्यः प्राप्यमाणाः संस्काराः कस्यचित् स्वप्नस्य साकाररूपम् इव – प्रदीप-बत्रा

डॉ मनोज शैल
Last updated: 2026/11/01 at 12:04 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

पतञ्जलौ बालेभ्यः प्राप्यमाणाः संस्काराः कस्यचित् स्वप्नस्य साकाररूपम् इव – प्रदीप-बत्रा

 

हिमसंस्कृतवार्ता — डॉ मनोजशैल:, हरिद्वारम्।

 

पतञ्जलिविश्वविद्यालये आयोजितं त्रिदिवसीयं द्विपञ्चाशत्तमम् (५२) अखिलभारतीय-प्राच्यविद्या-सम्मेलनम् (AIOC) ऐतिहासिक-उपलब्धिभिः व्यापकसहभागितया च सह सम्पन्नम् अभवत्। पतञ्जलिविश्वविद्यालयस्य, केन्द्रीयसंस्कृतविश्वविद्यालयस्य, भारतीयविद्वत्परिषदश्च संयुक्ताश्रये आयोजितेऽस्मिन् राष्ट्रियसम्मेलने भारतीयज्ञानपरम्परायाः, संस्कृतभाषायाः, योगस्य, आयुर्वेदस्य, भारतीयदर्शनस्य, सनातनसंस्कृतेः, प्राच्यविद्यानां च संरक्षणे, संवर्धने, आधुनिकशिक्षाव्यवस्थायां तेषां समावेशे च व्यापकः विमर्शः सञ्जातः।

समापनसमारोहे प्रदेशसर्वकारस्य मन्त्रिमण्डलीय-मन्त्री (कैबिनेट-मन्त्री) प्रदीप-बत्रा, योगगुरुः स्वामी रामदेवः, आचार्यः बालकृष्णश्च सहिताः समग्रदेशात् समागताः सन्ताः, धर्माचार्याः, शिक्षाविदः, विद्वांसश्च उपस्थिताः आसन्। अस्मिन् अवसरे चतुर्विंशति-विद्वद्भिः शोधकर्तृभिश्च सह उल्लेखनीयं योगदानं दत्तवत्यः विभूतयः सम्मानिताः, पञ्चत्रिंशत् (३५) पुस्तकानि च विमोचितानि।

अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य अध्यक्षैः श्रीनिवास-वरखेडी-महोदयैः परमपूज्येभ्यः स्वामि-महाराजेभ्यः ‘विद्याधिपति-प्रशस्ति-पत्रम्’ समर्प्य सम्मानः कृतः। संस्कृतस्य, योगशास्त्रस्य, आयुर्वेदस्य, भारतीयज्ञानपरम्परायाश्च संरक्षणे संवर्धने च उल्लेखनीय-योगदानाय आचार्य-बालकृष्णः ‘महामहोपाध्यायः’ इति प्रतिष्ठितया उपाधिना विभूषितः। पतञ्जलिविश्वविद्यालयस्य प्रतिकुलपतिः साध्वी डॉ. देवप्रिया ‘महाचार्या’-सम्मानेन अलङ्कृता। व्याकरणक्षेत्रे विशिष्टवैदुष्याय योगदानाय च डॉ. शिवानी-महोदयायै ‘व्याकरण-पण्डिता-पुरस्कारः’ प्रदत्तः। अपरत्र डॉ. कविता-होले-महोदया तस्याः पाण्डित्याय विशेषज्ञतायै च सम्मानिता। विविधविषयवर्गेषु उत्कृष्टाणि शोधपत्राणि उपस्थापितवद्भ्यः चतुर्विंशतिभ्यः विद्वद्भ्यः शोधकर्तृभ्यश्च ‘सर्वश्रेष्ठ-शोधपत्र-पुरस्काराः’ वितरिताः। अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य नवनियुक्ताध्यक्षत्वेन प्रो. अरुणरञ्जनमिश्र-महोदयः मनोनीतः। सम्मेलने अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य नवनियुक्ताध्यक्षं प्रो. अरुणरञ्जनमिश्रं समाविश्य विविधानां विदुषां पदाधिकारिणां चापि अभिनन्दनं विहितम्। संस्कृतविद्वान् कविराजः मनोहरलाल-आर्य-महोदयः अपि सम्मानितः। अस्मिन् अवसरे संस्कृतभाषायाः, भारतीयशास्त्राणां, सनातनपरम्परायाश्च संरक्षणे संवर्धने च मनीषिणां भूमिका महत्त्वपूर्णा इति प्रतिपादिता।

 

सम्मेलनस्य समापनकाले मुख्यातिथिः प्रदेशसर्वकारस्य मन्त्रिमण्डलीय-मन्त्री प्रदीप-बत्रा अवदत् यत् सः गतेभ्यः बहुभ्यः वर्षेभ्यः पतञ्जलिना सह संयुक्तः अस्ति। पतञ्जलेः विचारधारां, कार्यशैलीं, तत्र च जायमानानि विकासकार्याणि दृष्ट्वा सः अतीव प्रसन्नतां गौरवानुभूतिं च करोति। सः अवदत् यत् अत्र बालेभ्यः यादृशी शिक्षा संस्काराश्च दीयन्ते, तत् कस्यचित् स्वप्नस्य साकारभवनम् इव अस्ति। तस्येयम् इच्छा वर्तते यत् देशस्य अन्ये जनाः संस्थानानि च इमम् आदर्शम् अङ्गीकुर्युः, इतश्च प्रेरणां गृह्णीयुः। सः अकथयत् यद् अस्माभिः मिलित्वा सनातनधर्मं, वैदिकपरम्पराः, भारतस्य च गौरवपूर्णम् इतिहासं संस्कृतिं च अधिकाधिकं प्रखरं विधातव्यम्।

अस्मिन् अवसरे परमपूज्य-स्वामि-महाराजेन पतञ्जलिपरिवारस्य अभिन्नसदस्याय तथा च सम्मेलनस्य मुख्यसंयोजकाय श्री-ललित-पोफलिया-महोदयाय, तस्य सुपुत्राय श्री-हर्षद-पोफलिया-महोदयाय, सहसंयोजकाय श्रीकान्त-बडवे-महोदयाय, श्री-राहुल-राठी-महोदयाय च कृतज्ञता ज्ञापिता।

प्रतिकुलपतिना साध्वी डॉ. आचार्या-देवप्रिया-महोदयया मानविकीसङ्कायाध्यक्षाणां प्रो. मयङ्क-अग्रवाल-महोदयानां, दूरस्थशिक्षाविभागस्य निदेशकानां प्रो. सत्येन्द्र-मित्तल-महोदयानां, कुलसचिवानां डॉ. ऋत्विक-सहाय-बिसारिया-महोदयानां, विज्ञानसङ्कायाध्यक्षाणां डॉ. ए.के. सिंह-महोदयानां, उपकुलसचिवानां डॉ. निर्विकार-महोदयानां च सहितानां सर्वेषां शिक्षकाणां, विभागाध्यक्षाणां, सङ्कायसदस्यानां, कार्यक्रमसमन्वयकानां, कर्मचारिणाम्, आयोजनसमितीनां, छात्राणां च प्रति कृतज्ञता प्रकटिता। विशेषरूपेण तेषां शिक्षकसमन्वयकानां छात्राणां च भूरिशः प्रशंसा कृता, यैः अहोरात्रं परिश्रमं कुर्वद्भिः अतिथिसत्कारस्य, पञ्जीकरणस्य, शैक्षणिकसत्राणां, शोधपत्रप्रस्तुतीकरणस्य, आवासस्य, भोजनस्य, मञ्चसञ्चालनस्य, तान्त्रिकव्यवस्थायाः (तकनीकी), सांस्कृतिककार्यक्रमाणां च सहितस्य प्रत्येकदायित्वस्य पूर्णया निष्ठया निर्वहणं विहितम्।

विश्वविद्यालयपरिवारेण निगदितं यद् अस्य ऐतिहासिकस्य आयोजनस्य साफल्यं प्रत्येकशिक्षकस्य, समन्वयकस्य, छात्रस्य च सामूहिकप्रयासस्य, समर्पणस्य, निःस्वार्थसेवाभावस्य च सुखदः परिणामः अस्ति।

You Might Also Like

पतञ्जलि-विश्वविद्यालये द्विपञ्चाशत्तमम् (५२ तमम्) अखिलभारतीय-प्राच्यविद्या-सम्मेलनं सम्पन्नम्, सनातनपरम्परात: आरभ्य कृत्रिमप्रज्ञां (ए.आई.) यावत् विषयेषु सञ्जातं मन्थनम्

अखिलभारतीय-प्राच्यविद्या-सम्मेलने वैज्ञानिकग्रन्थस्य “वैदिक-आख्यान-विज्ञानम्” इत्यस्य वैज्ञानिकग्रन्थस्य गरिमामयं लोकार्पणम्

स्वामि-रामदेवस्य महत् अभियानम्, धर्मग्रन्थानां शुद्धीकरणाय निर्मिता समितिः, काऽस्ति सम्पूर्ण-योजना ?

52th AIOC – अखिलभारतीय-प्राच्यविद्या-सम्मेलनम् – सनातनशास्त्रशुद्धिः हरिद्वारे सनातनशास्त्र-शुद्धीकरणस्य महाभियानम्, सन्तैः कृतं मन्थनम्

52th AIOC – प्राचीनज्ञानसम्पदः संरक्षणस्य, संवर्धनस्य, समकालीनजीवने च तस्याः प्रासङ्गिकतायाः अवबोधनस्य महत्त्वपूर्णावसरम् एतद् सम्मेलनम्- राज्यपालः डॉ. बिसेन:

TAGGED: \हिमाचल के आज के समाचार, 52th AIOC, AIOC, Central Sanskrit University, cmo himachal, cmo himachal Pradesh. HP News, CSU, Daily Sanskrit News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal government, Himachal news, Himachal Sanskrit Academy, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, Himsanskritvarta, narendra modi, Patanjali, Patanjali yog peeth, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, Today Sanskrit Nerws, varta, vartah, अखिलभारतीयप्राच्यविद्यासम्मेलनम्, आज के संस्कृत समाचार, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, दैनिक समाचार, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article पतञ्जलि-विश्वविद्यालये द्विपञ्चाशत्तमम् (५२ तमम्) अखिलभारतीय-प्राच्यविद्या-सम्मेलनं सम्पन्नम्, सनातनपरम्परात: आरभ्य कृत्रिमप्रज्ञां (ए.आई.) यावत् विषयेषु सञ्जातं मन्थनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?