By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्
धर्मसंस्कृतिः

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

जगदीश डाभी
Last updated: 2026/10/01 at 7:52 AM
जगदीश डाभी
Share
1 Min Read
SHARE

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्


श्राद्धं भारतीयसंस्कृतेः महत्त्वपूर्णः धार्मिकः संस्कारः अस्ति। श्राद्धशब्दः “श्रद्धा” इति शब्दात् निष्पद्यते। श्रद्धया यत् कर्म क्रियते तत् श्राद्धम् इति कथ्यते। अस्मिन् कर्मणि मनुष्यः स्वस्य पितॄन् स्मरति, तेषां प्रति श्रद्धां च प्रकटयति।

भारतीयपरम्परायां पितृणां विशेषं महत्त्वम् अस्ति। माता पिता च अस्माकं जीवनस्य आधारौ स्तः। ते अस्मभ्यं जीवनं, संस्कारान्, ज्ञानं, प्रेम च ददतः। अतः तेषां स्मरणं सम्मानं च अस्माकं कर्तव्यम् अस्ति।। श्राद्धकर्म मुख्यतः पितृपक्षे क्रियते। पितृपक्षः सामान्यतः भाद्रपदमासस्य पूर्णिमायाः अनन्तरं आश्विनमासस्य अमावास्यापर्यन्तं भवति। अस्मिन् काले जनाः स्वपितॄणां स्मरणं कुर्वन्ति तथा तेषां नाम्ना तर्पणं, पिण्डदानं, ब्राह्मणभोजनं च कुर्वन्ति। श्राद्धे तिलस्य, जलस्य, कुशस्य च विशेषं महत्त्वम् अस्ति। तर्पणसमये जलं तिलैः सह पितृभ्यः समर्प्यते। पिण्डदानं च श्रद्धया क्रियते। अनेकाः जनाः अस्मिन् समये निर्धनेभ्यः, साधुभ्यः तथा आवश्यकतावद्भ्यः भोजनं वस्त्रं च ददति।श्राद्धस्य मुख्यः उद्देश्यः केवलं कर्मकाण्डः नास्ति, अपितु पूर्वजानां प्रति कृतज्ञताभावस्य प्रकाशनम् अपि अस्ति। अस्माभिः स्वपितॄणां सद्गुणाः स्मर्तव्याः तथा तेषां आदर्शाः जीवने अनुसर्तव्याः। श्राद्धदिने परिवारस्य सदस्याः एकत्र मिलित्वा पितॄन् स्मरन्ति। ते प्रार्थनां कुर्वन्ति तथा शान्त्यर्थं धार्मिककर्माणि कुर्वन्ति। श्राद्धं अस्मान् कर्तव्यबोधं, कृतज्ञतां, सेवाभावं च शिक्षयति। अतः श्राद्धं भारतीयसंस्कृतेः श्रद्धायाः, कृतज्ञतायाः, पारिवारिकपरम्परायाः च प्रतीकम् अस्ति। अस्माभिः पितॄणां सम्मानः करणीयः तथा तेषां उत्तमपरम्पराः सदैव रक्षणीयाः।

— पण्डित दीपक शास्त्री, हरियाणा (जींद)

 

You Might Also Like

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता

श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः
Next Article अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?