एनएलयू-संस्थानस्य (NLU) आधारभूत-संरचना भविष्यति सुदृढा; सुरक्षायै छात्रावासे स्थापयिष्यन्ते कण्टकित-तन्त्रय: – मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेश-राष्ट्रीय-विधि-विश्वविद्यालयस्य (एनएलयू-शिमला) आधारभूत-संरचनां (Infrastructure) सुदृढीकर्तुं प्रदेश-सर्वकारः अग्रे आगतः। मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः विश्वविद्यालयेन सम्बद्धान् विविधान् विषयान् समीक्ष्य प्रोक्तवान् यत् छात्रेभ्यः उत्तम-शैक्षणिक-वातावरणं प्रदातुं सर्वकारः आवश्यकं सहयोगं विधास्यति। सहैव विश्वविद्यालयेनापि स्व-संसाधनानां सृजन-दिशि प्रयासाः करणीयाः।
मुख्यमन्त्रिणा छात्राभ्यः छात्रेभ्यश्च नूतन-छात्रावासानां निर्माणाय सहयोगस्य आश्वासनं दत्तम्। तेन छात्राणां छात्रावासस्य सुरक्षार्थं परितः कण्टकित-तन्त्रय: (कंटीले तार) स्थापयितुं निर्देशाः दत्ताः। परिसरे न्यून-विद्युत्-प्रवाहस्य
समस्यायाः निवारणाय नूतन-परिणामकः स्थापयिष्यते, यत्रैव छात्रावासस्य उपरिष्टात् गच्छन्ती उच्च-विद्युत्-वाहिनी अपि अन्यत्र स्थानान्तरिता भविष्यति।
विद्युत्-तन्त्रय: भविष्यन्ति भूमिगता:
सुक्खू-महोदयः छात्राणां कर्मचारिणां च सुरक्षां विचिन्त्य विश्वविद्यालय-परिसरे उपरि प्रसारितानां विद्युत्-तन्त्रीणां भूमिगतीकरणाय पर्याप्तां धनराशिं प्रदातुं विश्वासं प्रददात्। अस्मात् अतिरिच्य जल-शक्ति-विभागः मल-जल-शोधन-संयन्त्राय (STP) योग्य-स्थलं चिह्नीकर्तुं तथा च पेय-जल-सङ्कटस्य स्थायी-समाधानाय आवश्यकाः उपायाः कर्तुं निर्देशितः।
एनएलयू-विश्वविद्यालयस्य कुलपतयः प्रो. प्रीति-सक्सेना-महोदयाः विश्वविद्यालयस्य दीर्घ-लम्बितानां समस्यानां समाधानाय मुख्यमन्त्रिणः कृतज्ञतां ज्ञापितवती।
अस्मिन् उपवेशने हिमाचलप्रदेश-उच्चन्यायालयस्य मुख्य-न्यायाधीशः न्यायमूर्तिः गुरमीतसिंहसन्धावालिया, महाधिवक्ता अनूपरतनः, मुख्य-सचिवः के.के. पन्तः, प्रधान-सचिवः देवेशकुमारः, शिक्षा-सचिवः राकेशकंवरः, गृह-सचिवः अमरजीतसिंहः तथा च अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।
