By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: उद्घाटित: हणोगी-आन्तर्भौमिकमार्ग:(टनल); चण्डीगढ़-मनाली-चतुष्पथ-मार्गे आरब्धः रोमाञ्चकारी प्रवासः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > उद्घाटित: हणोगी-आन्तर्भौमिकमार्ग:(टनल); चण्डीगढ़-मनाली-चतुष्पथ-मार्गे आरब्धः रोमाञ्चकारी प्रवासः
हिमाचलवार्ता

उद्घाटित: हणोगी-आन्तर्भौमिकमार्ग:(टनल); चण्डीगढ़-मनाली-चतुष्पथ-मार्गे आरब्धः रोमाञ्चकारी प्रवासः

डॉ मनोज शैल
Last updated: 2026/09/12 at 7:00 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

उद्घाटित: हणोगी-आन्तर्भौमिकमार्ग:(टनल); चण्डीगढ़-मनाली-चतुष्पथ-मार्गे आरब्धः रोमाञ्चकारी प्रवासः

हिमसंस्कृतवार्ता — मण्डी।
चण्डीगढ़-मनाली-चतुष्पथ-राजमार्गे हणोगी-स्थानात् डयोड-पर्यन्तं सुखदः प्रवासः प्रारब्धः। शुक्रवासरे हणोगी-तः दवाडा-पर्यन्तं आन्तर्भौमिकमार्गस्य (Tunnel) संस्कार-कार्यं (Repair) सम्पन्नं जातम्, येन सहैव सप्तशत-मीटर् (७०० मीटर्) परिमित: आन्तर्भौमिकमार्ग: अपि यातायातार्थं मुक्त: कृत:। आन्तर्भौमिकमार्ग: एकांशतः उद्घाटित:, यस्मिन् मार्गेण उभयतः वाहनानाम् आवागमनम् आरब्धम्। उल्लेखनीयं यत् चण्डीगढ़-मनाली-चतुष्पथ-परियोजनायां पण्डोह-तः औट-पर्यन्तं विदीर्यमाणानां पर्वतानां पाषाण-पतनस्य च सङ्कटात् त्राणाय टनल-द्वयं निर्मितम् अस्ति।
डयोड-तः हणोगी-पर्यन्तं आन्तर्भौमिकमार्ग: पूर्वमेव सज्जीकृत: आसीत्, किन्तु हणोगी-समीपे पर्वतानां निरन्तर-स्खलन-कारणात् एतेसां आन्तर्भौमिकमार्गाणां अन्तः यातायात-सञ्चालनं न सम्भवति स्म। साम्प्रतं संस्कार-कार्ये पूर्णे सति आन्तर्भौमिकमार्गस्य सञ्चालनम् आरब्धम्। डयोड-तः हणोगी-पर्यन्तं निर्मितस्य आन्तर्भौमिकमार्गस्य पुनर्निर्माणाय राष्ट्रिय-राजमार्ग-प्राधिकरणेन (NHAI) पञ्चाशत्-कोटि-रूप्यकाणाम् (५० कोटि) अतिरिक्त-धनराशिः स्वीकृता आसीत्।
शापूरजी-पल्लोनजी-चतुष्पथ-निर्माण-संस्थायाः दल-प्रमुखेण आदर्श-पनहोत्रा-महोदयेन शुक्रवासरे विधिवत् पूजा-अर्चनं कृत्वा आन्तर्भौमिकमार्ग: उद्घाटित:। तेन आन्तर्भौमिकमार्ग: जन-सेवायै समर्पयितुं केन्द्रीय-मार्ग-परिवहन-मन्त्रिणः नितिन-गडकरी-महोदयस्य कृतज्ञता ज्ञापिता, धन्यवादश्च प्रकटितः।

You Might Also Like

महत्तम-चिन्तायाः निवारणम् – स्थायिनः भविष्यन्ति शिक्षा-विभागस्य एते कर्मचारिणः; सर्वकारेण नियमितीकरणाय दत्ता स्वीकृतिः

शारीरिक-शिक्षा-शिक्षकाणां पृष्ठ-शेष-पदानां (बैकलॉग) ‘जॉब-ट्रेनी’-माध्यमेन पूरणे प्रतिबन्ध:, उच्चन्यायालयेन सर्वकारात् उत्तरं याचितम्

एनएलयू-संस्थानस्य (NLU) आधारभूत-संरचना भविष्यति सुदृढा; सुरक्षायै छात्रावासे स्थापयिष्यन्ते कण्टकित-तन्त्रय: – मुख्यमंत्री सुक्खुः

वैद्यकीय-महाविद्यालयेषु ५०० कोटि-मूल्यस्य यन्त्राणि, ३०० वैद्यकीय-अधिकारिणः तथा ३५० विशेषज्ञ-वैद्याः नियुक्ताः भविष्यन्ति – मुख्यमंत्री सुक्खुः

हिमाचलस्य घेपन-घाट-सरोवरः वर्धयति सङ्कटम्, ३३ वर्षेषु १७८ प्रतिशतं विस्तृतम् अभवत् क्षेत्रफलम्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा
Next Article एनएलयू-संस्थानस्य (NLU) आधारभूत-संरचना भविष्यति सुदृढा; सुरक्षायै छात्रावासे स्थापयिष्यन्ते कण्टकित-तन्त्रय: – मुख्यमंत्री सुक्खुः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?