By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सिरमौरः- शिक्षाधिकारिभिः सह अमिलत् संस्कृत- शिक्षक- परिषदः प्रतिनिधिमण्डलम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > सिरमौरः- शिक्षाधिकारिभिः सह अमिलत् संस्कृत- शिक्षक- परिषदः प्रतिनिधिमण्डलम्
हिमाचलवार्ता

सिरमौरः- शिक्षाधिकारिभिः सह अमिलत् संस्कृत- शिक्षक- परिषदः प्रतिनिधिमण्डलम्

डॉ.अमनदीप शर्मा
Last updated: 2026/08/22 at 9:32 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

सिरमौरः- संस्कृतसप्ताहस्य सफलायोजनाय शास्त्रिणां च लम्बितानां समस्यानां समाधानाय शिक्षाधिकारिभिः सह अमिलत् संस्कृत- शिक्षक- परिषदः प्रतिनिधिमण्डलम् ।
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौरः।
राजकीय- संस्कृत- शिक्षकपरिषदः सिरमौर- प्रतिनिधिमण्डलेन शिक्षाविभागस्य वरिष्ठैः अधिकारिभिः सह मेलनं कृत्वा संस्कृतशिक्षा- सम्बद्धैः विविधैः महत्त्वपूर्णविषयैः सह विस्तारेण विचारविमर्शः कृतः।
प्रतिनिधिमण्डलेन डॉ. मदनलालवर्येण (उपशिक्षानिदेशकः, उच्चशिक्षा, मण्डल- सिरमौरः), राजीवठाकुरवर्येण (उपशिक्षानिदेशकः, प्रारम्भिकशिक्षा, मण्डल- सिरमौरः) इत्येताभ्यां सह मेलनं कृत्वा मुख्यतया द्वौ महत्त्वपूर्णौ विषयौ प्रस्तुतौ।


१. प्रतिनिधिमण्डलेन अधिकारिभ्यः प्रार्थना कृता यत् २५ अगस्ततः ३१ अगस्तपर्यन्तं आयोज्यमानस्य संस्कृतसप्ताहस्य आयोजनं सिरमौरमण्डलस्य प्रत्येकस्मिन् विद्यालये प्रभाविरूपेण उत्साहपूर्वकं च भवेत्।
परिषदा उक्तं यत् संस्कृतं केवलं कश्चन विषयः नास्ति, अपि तु भारतस्य प्राचीनज्ञानपरम्परायाः, संस्कृतेः, साहित्यस्य, दर्शनस्य संस्काराणां च आधारभूता भाषा अस्ति। विद्यालयस्तरे संस्कृतसप्ताहस्य माध्यमेन छात्रेषु संस्कृतभाषां प्रति रुचिः, गौरवम्, आदरभावः च वर्धयितुं शक्यते। परिषदपक्षतः प्रार्थना कृता यत् मण्डलस्य सर्वेभ्यः विद्यालयेभ्यः संस्कृतसप्ताहस्य आयोजनाय आवश्यकदिशानिर्देशाः अवगच्छेयु:, विद्यालयेषु च संस्कृतेन सम्बद्धानां विविधानां रचनात्मक- गतिविधिनां सम्पादनं सुनिश्चितं भवेयु:।

२. प्रतिनिधिमण्डलेन सिरमौरमण्डले कार्यरतानां शास्त्रिणां न्यायालयीय-विभागीयस्तरेषु लम्बिताः विषयाः अपि अधिकारिणां समक्षं प्रमुखतया स्थापिताः। परिषदा निवेदितं यत् शास्त्रिणां प्रकरणाणि दीर्घकालात् लम्बितानि सन्ति, तेषां विषये विभागीयस्तरे आवश्यकीं कार्यवाहीम् कृत्वा नियमानुसारं शीघ्रातिशीघ्रं समाधानं क्रियेत, येन कर्मचारिणः अनावश्यककष्टानि न प्राप्नुयुः।
अधिकारिणः एतयोः द्वयोः विषययोः सकारात्मकं शीघ्रं च निर्णयं ग्रहीष्यन्ति इति आशा परिषदा व्यक्ता। अस्मिन् अवसरे राजकीय- संस्कृत- शिक्षकपरिषदः (मण्डल-सिरमौरः) अध्यक्षः आचार्य: देवेन्द्रशर्मा, उपाध्यक्षः धनवीरशास्त्री, परामर्शक: आचार्यराधेश्यामः, प्रतिनिधिः अमित शास्त्री च उपस्थिताः आसन्।

परिषदः अध्यक्षः आचार्य: देवेन्द्रशर्मा अवदत् यत् परिषदः उद्देश्यं संस्कृतभाषायाः संरक्षणेन संवर्धनेन सह संस्कृतशिक्षकाणां प्रश्नान् उचिते मञ्चे उपस्थापयितुम् अस्ति। तेन उक्तं यत् संस्कृतसप्ताहः केवलम् औपचारिकः कार्यक्रमः न भूत्वा छात्रान् समाजं च संस्कृतस्य गौरवपूर्णपरम्परया सह योजयितुं माध्यमः भवेत्।
अधिकारिभिः प्रतिनिधिमण्डलाय समयः प्रदत्तः, विषयाः च गम्भीरतया श्रुताः, एतदर्थं परिषदा तेषां कार्तज्ञ्यं कृतम्। सिरमौरमण्डलस्य सर्वेषु विद्यालयेषु संस्कृतसप्ताहः सफलः भविष्यति, लम्बितानां प्रकरणानां च शीघ्रं समाधानं भविष्यति इत्यपि आशा व्यक्ता।

You Might Also Like

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

सितम्बर-मासे रोहताङ्ग-प्रभृति-शिखरेषु हिमपातस्य शुभ्राच्छादनम्; त्रि-होराः यावत् स्थगिता मणिमहेश-यात्रा

शिवागम-साधकाः १८ सितम्बर-दिनाङ्के करिष्यन्ति डल-सरोवरावरण-भेदम्; तदनन्तरं प्रारप्स्यते पवित्रं ‘शाही-स्नानम्’

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article अखिलभारतीयसंस्कृतपरिषदः प्रतियोगितायां प्रिया पाण्डेय प्रथमस्थाने
Next Article HP Vidhansabha Session – पुनः सम्मुखं सत्तापक्ष-विपक्षौ, विधानसभा-परिसरे परस्परं विरुद्धं कृतं प्रदर्शनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?