By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमन्त्री सुक्खू-महोदयः अवदत् — राष्ट्रगानस्य अपमानं कृत्वा भाजपा-विधायकैः कृतः अपराधः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > मुख्यमन्त्री सुक्खू-महोदयः अवदत् — राष्ट्रगानस्य अपमानं कृत्वा भाजपा-विधायकैः कृतः अपराधः
राजनैतिकवार्ताहिमाचलवार्ता

मुख्यमन्त्री सुक्खू-महोदयः अवदत् — राष्ट्रगानस्य अपमानं कृत्वा भाजपा-विधायकैः कृतः अपराधः

डॉ मनोज शैल
Last updated: 2026/08/21 at 9:30 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मुख्यमन्त्री सुक्खू-महोदयः अवदत् — राष्ट्रगानस्य अपमानं कृत्वा भाजपा-विधायकैः कृतः अपराधः

हिमसंस्कृतवार्ता — शिमला।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः शुक्रवासरे विधानसभा-परिसरे राष्ट्रगानम् अधिकृत्य भारतीय-जनता-पक्षस्य (भाजपा) विधायकानाम् उपरि तीक्ष्णं प्रहारम् अकरोत्। तेन प्रोक्तं यत् विधानसभाध्यक्षस्य पक्षतः राष्ट्रगानाय सदने सर्वेभ्यः उत्थातुं निवेदितम् आसीत्, किन्तु भाजपा-विधायकाः राष्ट्रगानस्य प्रारम्भात् पूर्वमेव राष्ट्रगीत-विषये पृच्छन्तः आसन्। मुख्यमन्त्रिणा उक्तं यत् विधानसभाध्यक्षेण पूर्वमेव स्पष्टीकृतम् आसीत् यत् सदने पूर्वम् अपि राष्ट्रगानं गीयते स्म। राष्ट्रगानं देशस्य गरिम्णा सम्मानेन च सम्बद्धः विषयः अस्ति, अस्य च अपमानं कस्यामपि स्थितौ न सोढव्यम्।

मुख्यमन्त्रिणा प्रोक्तं यत् स्वातन्त्र्यानन्तरं ७७-७८ वर्षेभ्यः राष्ट्रगानं गीयते। अधुना भाजपा-विधायकाः अस्य विरोधं कुर्वन्ति। प्रधानमन्त्री नरेन्द्रमोदी अपि स्वयं राष्ट्रगानं गायति। विद्यालयेषु अपि राष्ट्रगानं गीयते, सदने च राष्ट्रगीतं पूर्ण-सम्मानेन गीयते। एवं सति राष्ट्रगानमधिकृत्य विवादस्य सङ्गमः दुर्भाग्यपूर्णः अस्ति। हिमाचलस्य जनता काङ्ग्रेस-दलञ्च राष्ट्रगानस्य अस्य तथाकथित-अपमानस्य विरोधे स्तः। अयम् विषयः प्रदेशस्य जनतायाः सम्मुखं नेष्यते। राष्ट्रगानस्य राष्ट्रगीतस्य च उभयोः स्वकीयं स्थानं सम्मानं च वर्तते। सदने उभौ पूर्ण-गरिम्णा गीयते, अत्र च कस्यापि प्रकारस्य राजनीतिः न भवेत्। सदने सर्वेषां राजनैतिक-दलानां स्व-मतानि विचाराश्च भवितुं शक्नुवन्ति, किन्तु राष्ट्रेण राष्ट्रिय-प्रतीकैश्च सम्बद्धेषु विषयेषु मर्यादायाः पालनं कर्तव्यम्।

 

शोक-प्रस्तावे संवेदनहीनतायाः आरोपः

धन-सङ्ग्रह-स्तेयम् (चन्दा चोरी), प्रवेश-परीक्षा-प्रश्नपत्र-प्रकटनं (NEET Paper Leak), भ्रष्टाचारं च उल्लिखन् सः अवदत् यत् एतेषु विषयेषु चर्चा भवितव्या। मुख्यमन्त्रिणा विधानसभायाः भूतपूर्व-विधायकानां दिवङ्गते सति शोक-संवेदनायाः अप्रकटनम् अधिकृत्य अपि भाजपा-दलस्य उपरि लक्ष्यं साधितम्। तेन प्रोक्तं यत् पूर्व-विधायकानां निधने सदने शोकः प्रकटीकरणीयः आसीत्, किन्तु भाजपा-दलेन अस्यापि ध्यानं न रक्षितं संवेदनहीनता च प्रदर्शिता। विधानसभायां राजनीतेः स्तरः कियत् पर्यन्तम् अधः प्राप्तः, एतत् समग्र-घटनाक्रमेण स्पष्टं भवति।

 

 अग्रे मुख्यमन्त्री पृष्ठतः च विधायकाः अकुर्वन् भाजप-विरुद्धम् उद्घोषणम्

मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खू-महोदयस्य अध्यक्षतायां काङ्ग्रेस-विधायक-दलेन विधानसभा-परिसरस्य बहिः भाजपा-पक्षस्य विरुद्धं तीव्राः उद्घोषाः कृताः। मुख्यमन्त्री स्वयं पुरोभूय उद्घोषणम् अकरोत्। तेन सह पृष्ठतः मन्त्रिणः काङ्ग्रेस-विधायकाश्च अपि भाजपा-विरुद्धम् उद्घोषणं कृतवन्तः। अपरपक्षे भाजपा-विधायकैः अपि उद्घोषाः कृताः।

You Might Also Like

हिमाचलस्य काङ्गड़ा-जनपदे एकोनविंशति-वर्ष-पर्यन्तानां युनां कृते प्रदास्यते कृमिनाशकौषधम्, सज्जीकरणे संलग्नः स्वास्थ्य-विभागः

HP VIDHANSABHA SESSION – प्रावृट्-सत्रस्य प्रथमे एव दिने कोलाहलः, ‘वन्दे मातरम्’ इत्यधिकृत्य सदने संजातः महद्-आक्रोशः

HP NEWS – ‘एनएचएम’ बाह्य-स्रोत-कर्मचारिणां वर्धितं मानदेयम्; एताभ्यः पञ्च-श्रेणीभ्यः लप्स्यते लाभः

संग्रहण-तन्त्रं समूलम् उत्पाटयिष्यामः; छात्राः प्रश्नान् पृच्छेयुः चेत् उत्तरम् अवश्यं लभ्येत् -राहुलगान्धी

प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषितवती, उक्तवती—निराशाः मा भवत, ऋतु: सम्यक् भवति चेत् अवश्यं मिलितुम् आगमिष्यामि

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article पद्मविभूषण डॉ. आदित्यनाथझामहोदयस्य व्यक्तित्वं कृतित्वं च (जयन्तीविशेष:)
Next Article HP NEWS – ‘एनएचएम’ बाह्य-स्रोत-कर्मचारिणां वर्धितं मानदेयम्; एताभ्यः पञ्च-श्रेणीभ्यः लप्स्यते लाभः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?