हिमाचले स्वास्थ्य-सेवाभ्यः लप्स्यते नूतनः विस्तारः, ‘एम्स’-बिलासपुर-संस्थानम् उत्कृष्टं विधातुं सज्जीकरणम्
हिमसंस्कृतवार्ता — बिलासपुरम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः अवदत् यत् राज्यसर्वकारः अखिल-भारतीय-आयुर्विज्ञान-संस्थानस्य (AIIMS) बिलासपुरस्य सुदृढीकरणाय विस्तारीकरणाय च पूर्ण-सहयोगं प्रदास्यति। तेन उक्तं यत् ‘एम्स’-बिलासपुर-संस्थानम् उत्कृष्टं स्वास्थ्य-संस्थानं रचयिष्यते, येन एतत् प्रदेशस्य जनेभ्यः श्रेष्ठ-सुविधाः उपलब्धं कारयितुम् अधिकं समर्थं भवेत्। बिलासपुर-जनपदस्य एक-दिवसीय-प्रवास-काले मुख्यमन्त्री ‘एम्स’-संस्थानं प्राप्तवान् तथा च चिकित्सकैः सह स्वास्थ्य-सेवाभिः सह अन्यानां विषयाणाम् उपरि विस्तृतां चर्चाम् अकरोत्। तेन प्रोक्तं यत् राज्यसर्वकारः चिकित्सा-महाविद्यालयान् इतोऽपि सुदृढां कर्तुम् सर्वसम्भव-प्रयासं करोति, येन दिसम्बर २०२६ दिनाङ्कं यावत् सर्वेषु चिकित्सा-महाविद्यालयेषु उपचाराय आगच्छद्भ्यः जनेभ्यः विश्वस्तरीय-स्वास्थ्य-सेवाः प्राप्ताः भवेयुः। तेन उक्तं यत् अनेन निश्चितं भविष्यति यत् प्रदेशवासिभ्यः उत्तमाय स्वास्थ्य-उपचाराय प्रदेशात् बहिः गन्तुम् आवश्यकता न भवेत्।
मुख्यमन्त्रिणा सुक्खू-महोदयेन उक्तं यत् स्वास्थ्य-क्षेत्रे जनेभ्यः श्रेष्ठाः सेवाः उपलब्धं कारयितुं क्रान्तिकारिणः निर्णयाः गृह्यमाणाः सन्ति। चिकित्सकान् स्वास्थ्य-क्षेत्रेण सम्बद्धान् विशेषाज्ञान् च आकर्षयितुं राज्यसर्वकारः तेभ्यः श्रेष्ठं वेतनम् अन्यान् लाभान् च ददाति। तेन प्रोक्तं यत् चिकित्सकान् ‘प्रोफेसर’-इति पदे नामाङ्कितुं (Designate) प्रदेशसर्वकारः मानदण्डेषु शिथिलता-अवसरं ददाति।
मुख्यमन्त्रिणा उक्तं यत् सम्पूर्ण-प्रदेशे परीक्षण-सेवाः (Diagnostic Services) अपि सुदृढाः क्रियमाणाः सन्ति। तेन प्रोक्तं यत् आई.जी.एम्.सी.-शिमला तथा च ए.आई.एम.एस.एस.-चमियाना-मध्ये ‘3-Tesla’-यन्त्राणि संस्थापितानि सन्ति। मण्डल-चिकित्सालये बिलासपुरं, कुल्लू, ऊना सोलन-मध्ये, मण्डल-चिकित्सालये किन्नौर-मध्ये, डॉ. वाई.एस. परमार-राजकीय-चिकित्सा-महाविद्यालये चिकित्सालये च नाहन-मध्ये, मण्डल-चिकित्सालये धर्मशालायां नागर-चिकित्सालये पालमपुरे च ‘1.5-Tesla MRI’-यन्त्राणि संस्थाप्यमाणानि सन्ति। तेन उक्तं यत् राज्यसर्वकारेण ‘पीजी’-चिकित्सा-आसनेषु (PG Medical Seats) ३३० आसनानां वर्धनायाः लक्ष्यं स्थापितम्, येन राज्ये विशेषज्ञ-स्वास्थ्य-सेवाः दातुम् साहाय्यं भविष्यति।
मुख्यमन्त्रिणा सुक्खू-महोदयेन उक्तं यत् राज्यसर्वकारेण ‘जीन-थेरेपी’ तथा च ‘फोटो-थेरेपी’-क्षेत्रेषु कार्याणि आरब्धानि सन्ति तथा च ‘यूनाइटेड-स्टेट्स’-देशस्य चिकित्सकैः सह तेषाम् विशेषज्ञतायै सहयोगाय च चर्चा क्रियमाणा अस्ति। अस्मिन् अवसरे नगर-ग्राम-नियोजन-मन्त्री राजेशधर्माणी, पूर्व-मन्त्री रामलालठाकुरः, पूर्व-विधायकः तिलकराजः, ‘एम्स’-संस्थानस्य कार्यकारी-निदेशकः लेफ्टिनेंट-जनरल-डॉ.-दलजीतसिंहः, उपायुक्तः राहुलकुमार: अन्ये च वरिष्ठाः अधिकारिणः उपस्थिताः आसन्।
